YouVersion Logo
Search Icon

प्रेरिता 11

11
येरुसलेमनगरे पतरस्‍य स्‍पस्‍टीकरणम्‌
1प्रेरिताः, यहूदाप्रदेशस्‍य च भ्रातरः अजानन्‌ यत्‌ अयहूदिनः अपि परमेश्‍वरस्‍य वचनं स्‍वीकृतवन्‍तः 2यदा पतरसः येरुसलेमनगरे आगतः, तदा यहूदीविश्‍वासिनः तस्‍य आलोचनां कुर्वन्‍तः अवदन्‌, 3“भवता अयहूदिनां गृहे प्रविश्‍य, तैः सह भोजनमपि कृतम्‌। 4एतत्‌, श्रुत्‍वा पतरसः तान्‌, बोधयन्‌ अवदत्‌, 5“अहं याफानगरे प्रार्थनां कुर्वन्‌ आत्‍मना आविष्‍टः अभवम्‌। मया दृष्‍टम्‌ यत्‌ किंचित्‌ लम्‍बचतुष्‍कोणोत्तरीयस्‍य इव वस्‍तु स्‍वर्गात्‌ अवतरति। तस्‍य चतुष्‍कोणाः पृथिव्‍याम्‌ मम पार्श्‍वे उपस्‍थीयन्‍ते। 6अहम्‌ तस्‍मिन्‌ अपश्‍यम्‌ यत्‌ तस्‍मिन्‌ पृथिव्‍याः ग्राम्‍याः, वन्‍यपशवः, सरीसृपाः जन्‍तवः, आकाशस्‍य च पक्षिणः सन्‍ति। 7तत्‌ पश्‍चात्‌ मया एका वाणी श्रुता, “पतरस! उत्तिष्‍ठ! हत्‍वा इमान्‌ भक्षय।” 8अहम्‌ अवदम्‌, “प्रभो! कदापि न! मया कदापि किमपि अशुद्धं वस्‍तु न खादितम्‌।” 9प्रत्‍युत्तरे स्‍वर्गात्‌ सा एव वाणी द्वितीयवारं श्रुयते स्‍म, परमेश्‍वरः यं शुद्धं घोषितवान्‌, तम्‌ अशुद्धं मा वद।” 10त्रयवारं तादृशमेव अभवत्‌। तत्‍पश्‍चात्‌ तत्‌ वस्‍तु पुनः स्‍वर्गे उपरि उत्‍थापितम्‌। 11तस्‍मिन्‌ एव समये कैसरियायाः मम समीपे प्रेषिताः त्रयः जनाः तस्‍य गृहस्‍य समक्षे आगताः, यत्र अहम्‌ अतिष्‍ठम्‌। 12आत्‍मना आदिष्‍टः, यत्‌ मया निसंकोचेन भूत्‍वा तैः सह गन्‍तव्‍यम्‌। ते षट्‌भ्रातरः मया सह आगच्‍छन्‌। इत्‍थं वयं तस्‍य मनुष्‍यस्‍य गृहे अप्रवेशाम, 13सः अस्‍मान्‌ अकथयत्‌ यत्‌ तेन स्‍वगृहे एकः देवदूतः दृष्‍टः। यः तम्‌ अवदत्‌, “जनान्‌ याफानगरं प्रेषय, सिमोनः यः पतरसः कथ्‍यते, आह्‌वय। 14सः यां शिक्षां श्रावष्‍यति, तया भवते, भवतः समस्‍तपरिवारेभ्‍यः मुक्‍तिः मिलिष्‍यति।”
15“अहं वक्‍तुम्‌ आरब्‍धवान्‌ तत्‌ क्षणमेव पवित्रात्‍मा तेषु अवतरत्‌, यथा सः प्रारंम्‍भे अस्‍मासु अवतरत्‌ 16तदा अहं प्रभो वचनम्‌ अस्‍मरम्‌, “योहनः जलेन जलसंस्‍कारम्‌ अददात्‌, परन्‍तु तुभ्‍यम्‌ पवित्रात्‍मनः जलसंस्‍कारः दास्‍यते। 17यदा परमेश्‍वरः तेभ्‍यः तत्‌ एव वरदानम्‌ अददात्‌, यत्‌ अस्‍मभ्‍यम्‌ प्रभौ येशौमसीहे विश्‍वासिभ्‍यः प्राप्‍तम्‌, तदा अहं कः आसम्‌ यः परमेश्‍वरस्‍य विधाने अवरोधम्‌ अकरिष्‍यम्‌?” 18तानि कथनानि श्रुत्‍वा ते शान्‍ताः भूत्‍वा परमेश्‍वरस्‍य स्‍तुतिम्‌ अकुर्वन्‌, “परमेश्‍वरः अयहूदिभ्‍यः अपि इदमेव वरदानम्‌ अददात्‌, यत्‌ ते तं प्रति अभिमुखाः भूत्‍वा जीवनं प्राप्‍नुयुः।”
अंताकियायां कलीसियायाः स्‍थापना
19स्‍तीफ़नुसकारणात्‌ येरुसलेमनगरे अत्‍याचारः आरब्‍धः। ये जनाः अस्‍मात्‌ कारणात्‌ इतः ततः अगच्‍छन्‌, ते फीनीकेप्रदेशं, कुप्रुसद्वीपम्‌, अन्‍ताकियामहानगरं यावत्‌ आगतवन्‍तः। ते केवलं यहूदिभ्‍यः शभुसमाचारं श्रावयन्‍ति स्‍म। 20तेषु केचित्‌ कुरेनेप्रदेशस्‍य तथा किरीनस्‍य निवासिनः आसन्‌। ते अंताकियायाम्‌ आगत्‍य यूनानिनः अपि प्रभोः येशोमसीहस्‍य शुभसमाचारं श्रावयन्‍ति स्‍म। 21प्रभुः तेषां साहाय्‍यं करोति स्‍म। बहवः जनाः विश्‍वासिनः भूत्‍वा प्रभोः पार्श्‍वे प्रत्‍यागच्‍छन्‌।
22येरुसलेमस्‍य कलीसिया तत्‌ सर्वम्‌ अशृणोत्‌, सा बरनबासम्‌ अन्‍ताकियां प्रेषितवती। 23बरनबासः तत्र आगत्‍य यदा ईश्‍वरीयस्‍य अनुग्रहस्‍य प्रभावम्‌ अपश्‍यत्‌, तदा सः आनन्‍दितः अभवत्‌। सः सर्वान्‌ अनुरोधं कृतवान्‌ यत्‌ सम्‍पूर्णहृदयेन प्रभुं प्रति निष्‍कपटाः भवेयुः, 24यतः सः भद्रः मनुष्‍यः आसीत्‌, पवित्रात्‍मनः, विश्‍वासेन परिपूर्णः चासीत्‌। इत्‍थं बहवः जनाः प्रभोः शिष्‍येषु सम्‍मिलिताः भूताः।
25तत्‍पश्‍चात्‌ बरनबासः साऊलस्‍य अन्‍वेषणे तारसुसम्‌ आगच्‍छत्‌, 26अन्‍वेषणस्‍य पश्‍चात्‌ तं अंताकियायाम्‌ आनयत्‌। द्वौ एकवर्षम्‌ यावत्‌ तत्रस्‍य कलीसियायां स्‍थित्‍वा अनेकजनान्‌ शिक्षयन्‍तौ स्‍म। अंताकियायां शिष्‍याः सर्वप्रथमं “मसीही” इति नाम प्राप्‍तवन्‍तः।
येरुसलेमस्‍य कलीसियायै सहायता
27तेषु दिनेषु केचित्‌ भविष्‍यवक्‍तारः येरुसलेमात्‌ अंताकियायाम्‌ आगच्‍छन्‌। 28-29तेषु एकः, यस्‍य नाम अगबुसः आसीत्‌, उत्‍थितः, आत्‍मना प्रेरणया च कथयति स्‍म, यत्‌ समस्‍तसंसारे दुर्भिक्षः भविष्‍यति। अयं दुर्भिक्षः वस्‍तुतः सम्राजः कलौदियुसस्‍य समये अभवत्‌। शिष्‍याः निश्‍चितवन्‍तः यत्‌ यहूदाप्रदेशे भ्रातॄणां साहाय्‍यं कर्तुम्‌ तेषु प्रत्‍येकः स्‍व स्‍व सामर्थ्‍यानुसारेण दानं प्रेषयिष्‍यति। 30ते बरनबासस्‍य तथा साऊलस्‍य हस्‍तयोः अध्‍यक्षेभ्‍यः दानम्‌ अप्रेषयन्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in