यूहन्नः 14
14
अंतिमवार्तायाः आरम्भः
1युष्माकं हृदयं नैव व्याकुलं स्यात्। यूयम् परमेश्वरे तथा मयि विश्वासं कुरुत। 2मम पितुः गृहे अनेकानि वासस्थानानि वर्तन्ते। अन्यथा पूर्वमेव अहं इदं युष्मान् अवदिष्यम्, युष्मदर्थं स्थानं सज्जीकर्तुम् अहं व्रजामि। 3तत्र गत्वा स्थानप्रबन्धं कृत्वा, अहं पुनरागत्य मम अन्तिकम् युष्मान् नेष्यामि। येन यत्र अहमस्मि, तत्र यूयमपि वर्तिष्यध्वे। 4अहं यत्र गच्छामि तत् स्थानं यूयं जानीथ।
5थोमसः येशुं प्रोक्तवान् - “प्रभो! त्वं कुत्र गच्छसि? इदमपि न जानीमः कथं मार्गं विद्मः? 6येशुः तमाह - “मार्गः, सत्यम्, जीवनम् अहमेवास्मि, कश्चन मम द्वारेण एव पितुः पार्श्वम् गन्तुं शक्नोति। 7यदि माम् अभिजानीथ पितरम् अपि अभिज्ञास्यथ। अधुना तु सः युष्माभिः विज्ञातः वीक्षितश्च।” 8फिलिपः तम् अब्रवीत् - “प्रभो! अस्मान् पितरं प्रदर्शय। अस्मदर्थम् तु एतदेव पर्याप्तं भविष्यति।” 9येशुः तम् अब्रूत - “फिलिप! युष्माभिः साद्र्धम् अहं कियत् चिरम् आसम्, तथापि त्वं विज्ञातुं कथं न शेकिथ? येन दृष्टः अहम्, तेन पिता अपि अवलोकितः, तत् कथं बूषे - नः पितरम् दर्शयतु? 10अहं पितरि तिष्ठामि, पिता च मयि तिष्ठति किमेष विश्वासः तव मनसि न वर्तते? यां शिक्षाम् अहं ददामि, इयं मम न प्रत्युतः मयि निवासकर्तुः पितुः अस्ति। 11यूयं विश्वासं कुरुत यदहं पितरि स्थितः, पिता मयि स्थितः, विश्वासः न चेत् वर्तते, तर्हि तानि चमत्कारपूर्णकार्याणि वीक्ष्य अस्मिन् विश्वासं कुरुत।”
12“अहं युष्मान् ब्रवीमि - यः मयि विश्वसिति, सः स्वयं तानि कार्याणि करिष्यति, यानि अहं करोमि। सः तेभ्योऽपि महत्तराणि कार्याणि करिष्यति, यतः अहं पितुः अन्तिकम् गच्छन् अस्मि। 13यत् किंचित् मदीयेन नाम्ना याचिष्यथ, तत् अहं पूर्ण करिष्यामि, येन पुत्रेण पितुः महिमा प्रकटी भवेत्! 14युष्माभिः मदीयेन नाम्ना यत् प्रार्थयिष्यते, तत् अहम् युष्मभ्यम् प्रदास्यामि।”
पवित्रात्मनः प्रतिज्ञा
15“यूयं चेत् मां प्रेम कुरुथ, तर्हि मम आज्ञानां पालनं करिष्यथ। 16अहं पितरं प्रार्थयिष्ये, सः युष्मभ्यम् अन्यं सहायकं दास्यति, यः सदा युष्मासु वर्त्स्यति। 17सः सत्यस्य आत्मा, यं जगत् ग्रहीतुं न क्षमम् अस्ति, यतः तत् न जानाति, नापि तत् तं वीक्षते। यूयं तम् अभिजानीथ, यतः असौ युष्माभिः सह सदा वर्तते, युष्मासु सदा असौ निवसति।”
18“अहं युष्मान् निःसहायान् विहाय नैव यास्यामि, परन्तु युष्माकम् अन्तिकम् पुनः एष्यामि। 19स्वल्पात् कालात् परं जगत् मां न द्रक्ष्यति। यूयं तु द्रक्ष्यथ, यतः अहं जीविष्यामि, यूयमपि जीविताः स्थास्यथ। 20तस्मिन् दिवसे यूयं ज्ञास्यथ यत् अहम् पितरि स्थितः, यूयं मयि स्थिताः, युष्मासु अहं स्थितः। 21यः ममाज्ञां जानाति, तासां परिपालनम् करोति, स एव मयि प्रेम विदधाति। यः मयि प्रेम कुरुते, सः मत्पितुः प्रेमपात्रम् अस्ति। अहं च तं प्रति प्रेम करिष्यामि, तस्मिन् आत्मानं व्यक्तीकरिष्यामि।”
22यहूदा (न इस्करियोती) तम् अब्रवीत् - “प्रभो! भवान् स्वम् आत्मानं प्रकटं करिष्यति, संसारं न - अस्य किम् कारणमस्ति?” 23येशुः तम् इत्थम् अभाषत - “यदि कश्चित् मयि प्रेम कुरुते तर्हि मम वचनस्य पालनं करिष्यति। मम पिता तस्मिन् प्रेम करिष्यति, आवां तस्मिन् निवत्स्यावः। 24यः मयि प्रेम न करोति, असौ मम वचनानि न मन्यते। युष्माभिः या शिक्षा श्रुता सा मम न वर्तते, किन्तु तस्य पितुः वर्तते, येन अहं प्रेषितः अस्मि।
25“युष्माभिः सह तिष्ठन् एतावत् एव मया प्रोक्तम्। 26परन्तु सः सहायकः सः पवित्रात्मा, यं पिता मम नाम्ना प्रेषयिष्यति, युष्मान् बोधयिष्यति। मया यदुक्तं तत् सर्वम् युष्मान् सः स्मारयिष्यति।
27“अहं युष्मदर्थम् शान्तिं दत्वा गच्छामि, युष्मभ्यम् आत्मनः शान्तिम् यच्छामि। सा शान्तिः संसारस्य नास्ति। युष्माकं हृदयं नैव कदाचित् व्याकुलं भवेत्। 28मा बिभीत, किं युष्माभिः न श्रुतं तद्, यन्मयोदितम्, “यदहं यामि, युष्माकम् चान्तिकम् आगमिष्यामि।” यदि युष्माकं हृदये मम प्रेम अभविष्यत्, तर्हि यूयम् इदं श्रुत्वा प्रसन्नाः अभविष्यन्, यत् अहं पितुः पार्श्वं व्रजामि, यतः पिता मत्तः महत्तरः। 29अतएव मया यूयं प्रागेव इदं कथिताः, येन एवं भविते सति, यूयं विश्वसिष्यथ।
30“अहम् अस्मात् परम् अधुना अधिकम् न वदिष्यामि, यतः अस्य संसारस्य नायकः आयाति। असौ मम कात्र्चिद् अपि हानिं न विधास्यति। 31परन्तु अयमावश्यकमस्ति यत् संसारः जानातु, यत् अहं पितरं प्रेम करोमि, मां यथा कर्तुम् आदिशति, तथैव करोमि। तत् उत्तिष्ठत, अस्मात् स्थानात् वयं गच्छामः।”
Currently Selected:
यूहन्नः 14: SANSKBSI
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: