YouVersion Logo
Search Icon

यूहन्‍नः 16

16
1“एतत्‌ अर्थम्‌ अहं युष्‍मान्‌ इदं सर्वम्‌ बभाषे, यत्‌ यूयं न स्‍खलिष्‍यथ। 2जनाः युष्‍मान्‌ सभागृहेभ्‍यः बहिः करिष्‍यन्‍ति। एतदेव न पर्याप्‍तम्‌, किन्‍तु सः कालः एति यदा युष्‍माकं वधकर्ता मन्‍स्‍यते, यत्‌ सः परमेश्‍वरं सेवते। 3यतः तैः न पिता, नाहम्‌ अभिज्ञातोऽस्‍मि। 4अहम्‌ युष्‍मान्‌ सर्वम्‌ एतत्‌ भाषे, यत्‌ समये प्राप्‍ते यूयम्‌ स्‍मरिष्‍यथ, यत्‌ अहम्‌ प्राक्‌ एव युष्‍मान्‌ अवहिताः कृतवान्‌ आसीत्‌।
पवित्रात्‍मनः आगमनम्‌
“अहं प्रारम्‍भात्‌ युष्‍मान्‌ इदं न बभाषे, यतः अहम्‌ युष्‍माभिः सह आसम्‌। 5इदानीम्‌ अहं मम प्रेषयितुः अन्‍तिकम्‌ गच्‍छामि। युष्‍मासु न कश्‍चित्‌ मां पृच्‍छति कुत्र याति इति? 6मया यूयमिदं सर्वम्‌ प्रोक्‍तम्‌ इत्‍येव कारणात्‌ युष्‍माकं हृदयं शोकेन आक्रान्‍तम्‌ वर्तते। 7तथापि युष्‍मान्‌ सत्‍यं भाषे - युष्‍माकं कल्‍याणम्‌ मम प्रस्‍थाने एव अस्‍ति। अहं चेन्‍नापगच्‍छामि तर्हि युष्‍माकम्‌ अन्‍तिकम्‌ असौ सहायकः न अयास्‍यति, किन्‍तु यदि अहं गच्‍छामि तर्हि युष्‍मत्‍समीपं तं प्रेषयिष्‍यामि। 8असौ आगत्‍य पापस्‍य, धर्मस्‍य दण्‍डाज्ञायाः विषये जगतः भ्रान्‍तेः प्रमाणानि दास्‍यति। 9पापस्‍य विषये यतः ते मयि न विश्‍वसन्‍ति। 10धार्मिकतायाः विषये - यतः अहं पितुः समीपे गच्‍छन्‌ अस्‍मि, यूयं च मां न द्रक्ष्‍यथ; 11दण्‍डाज्ञायाः विषये यतः संसारस्‍य नायकः दोषी प्रमाणितः अस्‍ति।
12“युष्‍मान्‌ प्रति मम अन्‍यच्‍च बहु वक्‍तव्‍यम्‌ अस्‍ति, परन्‍तु इदानीं तत्‌ सर्वम्‌ यूयं सोढुं न शक्ष्‍यथ। 13यदा सः सत्‍यस्‍य आत्‍मा आगमिष्‍यति, तदा सः युष्‍मान्‌ पूर्णं सत्‍यं सम्‍प्रापयिष्‍यति। यतो सः स्‍वतः कित्र्चिद्‌ युष्‍मान्‌ न कथयिष्‍यति, प्रत्‍युत असौ यदश्रौषीत्‌ तदेव कथयिष्‍यति, तथा यद्‌ यद्‌ भाव्‍यमस्‍ति, तद्‌ तद्‌ युष्‍मान्‌ वदिष्‍यति। 14सः मां महिमान्‍वितः करिष्‍यति, यत्‌ मत्‌ लप्‍स्‍यते, तद्‌ युष्‍मान्‌ ज्ञापयिष्‍यति। 15यत्‌ किंचित्‌ मम पितुः अस्‍ति, तत्‌ सर्वम्‌ मम वर्तते। अतएव मया प्रोक्‍तम्‌ मत्तः सर्वम्‌ प्राप्‍य सः युष्‍मान्‌ ज्ञापयिष्‍यति।
दुःखम्‌ सुखे परिणतं भवेत्‌
16“स्‍वल्‍पे काले व्‍यतीते यूयं मां द्रष्‍टुं न शक्ष्‍यथ। पुनः स्‍वल्‍पे गते काले मां द्रष्‍टुम्‌ शक्ष्‍यथ।” 17ततः तदीयशिष्‍याणां केचित्‌ मिथः बभाषिरे; एषः इत्‍थं कथं ब्रूते - “यूयं द्रष्‍टुं न शक्ष्‍यथ, पुनः स्‍वल्‍पे काले गते मां द्रष्‍टुम्‌ शक्ष्‍यथ, यतो अहं मम पितुः पार्श्‍वं गन्‍तुम्‌ समुद्‌यतः अस्‍मि?” 18अतः ते कथयामासुः “एषः यः अल्‍पः समयः भाषते, अस्‍य कोऽर्थः, इति वयं न जानीमः।”
19ते कित्र्चित्‌ प्रष्‍टुम्‌ इच्‍छन्‍ति, इति अवबुध्‍य येशुः तान्‌ अभाषत - “युष्‍माभिः मद्‌वचः अर्थः विचार्यते - यूयं द्रष्‍टुं न शक्ष्‍यथ, पुनः स्‍वल्‍पे काले गते मां द्रष्‍टुम्‌ शक्ष्‍यथ।” 20अहं युष्‍मान्‌ ब्रवीमि - “यूयं सर्वे तु क्रन्‍दनम्‌ विलापं च करिष्‍यध्‍वे, परन्‍तु जगत्‌ तु आनन्‍दम्‌ एष्‍यति। यूयं शोकं करिष्‍यध्‍वे, परन्‍तु युष्‍माकम्‌ शोकः जगतः आनन्‍दाय कल्‍पिष्‍यते। 21प्रसवे निकटं प्राप्‍ते स्‍त्री दुःखी भवति; यतः तस्‍याः कालः आगतः, किन्‍तु प्रसवस्‍य पश्‍चात्‌ सा स्‍ववेदनाम्‌ आनन्‍देन विस्‍मरति, यतः अस्‍मिन्‌ संसारे एकस्‍य मनुष्‍यस्‍य जन्‍मः अभवत्‌। 22एवम्‌ यूयम्‌ अधुना दुःखार्त्ताः, किन्‍तु अहं पुनः युष्‍मान्‌ द्रक्ष्‍यामि, यूयं हृदयेन आनन्‍दिष्‍यथ। युष्‍मत्‌ युष्‍माकम्‌ आनन्‍दं कोऽपि हर्तुम्‌ न शक्ष्‍यति। 23तस्‍मिन्‌ दिने यूयं मां कित्र्चित्‌ नैव प्रक्ष्‍यथ। अहं युष्‍मान्‌ भाषे, यूयं यत्‌ प्रार्थयिष्‍यथ, मम पिता मन्‍नाम्‍ना युष्‍मभ्‍यं प्रदास्‍यते। 24इतः पूर्वम्‌ युष्‍माभिः मन्‍नाम्‍ना कित्र्चित्‌ अपि न प्रार्थितम्‌। प्रार्थयध्‍वं यूयं लप्‍स्‍यध्‍वे, येन युष्‍माकम्‌ आनन्‍दः परिपूर्णः भविष्‍यति।
मया संसारः विजितः
25“अहं युष्‍मान्‌ इदं सर्वम्‌ दृष्‍टान्‍तेषु बभाषे। असौ आयाति, यदा अहं, युष्‍मान्‌ सदृष्‍टान्‍तं वचः न कित्र्चन वक्ष्‍ये, परन्‍तु स्‍पष्‍टतः पितुः विषये वक्ष्‍यामि। 26तस्‍मिन्‌ दिने मन्‍नाम्‍ना युष्‍माभिः प्रार्थयिष्‍यते। अहं न वदामि युष्‍माकं कृते पितरं याचिष्‍ये। 27पिता तु युष्‍मान्‌ प्रति स्‍वयं प्रेम कुरुते, यतः युष्‍माकं मयि प्रेम विश्‍वासः च अपि वर्तते, यदहम्‌ परमेश्‍वरस्‍य सकाशतः आयातः अस्‍मि। 28अहम्‌ पितुरेव सकाशतः संसारम्‌ आयातः अस्‍मि। पुनः संसारम्‌ उत्‍सृज्‍य पितुः पार्श्‍वंम्‌ अहम्‌ व्रजामि।”
29शिष्‍याः एतत्‌ समाकर्ण्‍य येशुम्‌ बभाषिरे, “प्रभो! पश्‍यतु भवान्‌ एतत्‌ सुस्‍पष्‍टं प्रभाषते। 30अस्‍माभिः साम्‍प्रतं ज्ञातं यत्‌ भवान्‌ सर्वम्‌ बुध्‍यते। भवन्‍तं प्रति काचित्‌ अपेक्षिता जिज्ञासा नास्‍ति। अस्‍माकं विश्‍वासः सुदृढ़ः अभवत्‌ यत्‌ भवान्‌ परमेश्‍वरस्‍य एव पार्श्‍वात्‌ संसारे आगतः अस्‍ति।”
31येशुः तान्‌ प्रत्‍यवादीत्‌, “किं युष्‍माकं विश्‍वासः दृढः अभवत्‌? 32पश्‍यत सः कालः आयाति, सः आयातः एव वर्तते, यदा यूयं सर्वे विकीर्णताम्‌ गमिष्‍यथ, स्‍व स्‍वमार्गं गृहीत्‍वा माम्‌ एकाकिनं विहास्‍यथ। तथापि अहम्‌ एकाकी नास्‍मि, यतः पिता मया सार्द्धम्‌ सर्वदैव विराजते। 33अहं युष्‍मान्‌ इदं सर्वम्‌ एतत्‌ अर्थम्‌ अब्रुवि, यथा यूयं सर्वथा मयि शान्‍तिं प्राप्‍तुं शक्‍नुत। अस्‍मिन्‌ संसारे यूयं कष्‍टं सहिष्‍यध्‍वे, परन्‍तु आश्‍वसित यद्‌ मया विश्‍वं विजितं वर्तते।”

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in