लूका 13:11-12
लूका 13:11-12 SANSKBSI
तत्र काचित् स्त्री समागता। सा तु अपदूतेन अभिभूता अष्टादशवर्षाणि रोगेण पीडिता आसीत्। सा रोगेण भूयसा अवनता आसीत्। सा सम्पूर्णतः ऋजुः स्थातुं न अशक्नोत्। येशुः तां दृष्ट्वा स्वपार्श्वे आहूय एवं जगाद - “नारि! त्वं निजदौर्बल्यात् परिमुक्ता असि।”