YouVersion Logo
Search Icon

लूका 3:21-22

लूका 3:21-22 SANSKBSI

सर्वेषु जलसंस्‍कारे गृहीतेषु येशुः अपि जलसंस्‍कारं गृहीतवान्‌। जलसंस्‍कारस्‍य अनन्‍तरं प्रभुः प्रार्थनां कुर्वन्‌ आसीत्‌, तस्‍मिन्‌ क्षणे स्‍वर्गद्वारम्‌ अपावृतम्‌। पवित्रात्‍मा कपोतरूपे मसीहस्‍य उपरि अवतीर्य अतिष्‍ठत्‌। स्‍वर्गतः इयं वाणी अश्रूयत - “त्‍वं मम प्रियपुत्रः असि, अहं त्‍वयि अति प्रसन्‍नोऽस्‍मि।”