YouVersion Logo
Search Icon

मत्ति 24:37-39

मत्ति 24:37-39 SANSKBSI

“नूहस्‍य दिनेषु यत्‌ किंचित्‌ अभवत्‌, तत्‌ सर्वम्‌ मानवपुत्रस्‍यापि समये भविष्‍यति। जलप्‍लावनतः पूर्वम्‌, यावत्‌ नूहः न प्राविशत्‌ पोते, तावत्‌ जनाः भोजनपानयोः रताः आसन्‌, विवाहादेरामोदे व्‍यापृताश्‍च, ते न अजानन्‌ किंचित्‌। यावत्‌ तत्‌ प्‍लावनम्‌ समागत्‍य च सर्वान्‌ तान्‌ समाहृत्‍य न्‍यमज्‍जयत्‌। तथैव मानवपुत्रस्‍य आगमने अपि भविष्‍यति।