YouVersion Logo
Search Icon

मारकुस 13

13
मन्‍दिरस्‍य विनाशस्‍य भविष्‍यवाणी
(मत्ती 24:1-3; लूका 21:5-7)
1येशुः मन्‍दिरात्‌ निर्गच्‍छन्‌ आसीत्‌ तदा शिष्‍येषु एकः तम्‌ आह, - “गुरो! पश्‍यतु एते महान्‍तः प्रस्‍तराः! महान्‍त्‍येतानि हर्म्‍याणि!” 2येशुः तम्‌ उवाच्‌, “त्‍वम्‌ एतानि महान्‍त्‍यानि हर्म्‍याणि पश्‍यसि। अत्र एकः प्रस्‍तरः अपरप्रस्‍तरोपरि न स्‍थास्‍यति। सर्वः धराशायि विधास्‍यते।”
3यदा येशुः जैतूनपर्वतम्‌ प्राप्‍य मन्‍दिरप्रान्‍ते उपविष्‍टः, तदा पतरसः याकूबः योहनः, अंद्रेयसश्‍च रहसि येशुं पृष्‍टवन्‍तः, 4“वदतु, एतत्‌ कदा भविष्‍यति, केन च चिह्नेन वयं ज्ञास्‍यामहे, कदा सर्वमेतद्‌ पूर्णम्‌ भविष्‍यति?”
विपत्तीनाम्‌ आरंभ
(मत्ती 24:4-14; लूका 21:8-10)
5येशुः स्‍वशिष्‍यान्‌ वक्‍तुं प्रचक्रमे, “यूयं प्रत्‍यवधानतः वर्तध्‍वम्‌, येन कश्‍चित्‌ युष्‍माकं न वत्र्चयतु। 6यतः बहव जनाः मम नाम्‍ना आगम्‍य, स एवऽहम्‌, इति वक्ष्‍यन्‍ति। एवं ते सर्वलोकानां वत्र्चयिष्‍यन्‍ति।
7यदा यूयं युद्धानाम्‌ विषये, अथवा युद्धानाम्‌ किंवदन्‍तीः श्रोष्‍यथ, नोद्विजध्‍वं यतः एतत्‌ अवश्‍यं संभविष्‍यति। किन्‍तु एतत्‌ एव अस्‍य अन्‍तं न वर्तते। 8राष्‍ट्रं राष्‍ट्रं तथा राज्‍यं राज्‍यम्‌ प्रति विरोधं करिष्‍यति। यत्र तत्र भूकम्‍पः दुर्भिक्षं च भविष्‍यतः। सर्वमेतत्‌ विपत्तीनाम्‌ आरंभमात्रः भविष्‍यति।
9यूयं सर्वे सतर्कत्‍वेन तिष्‍ठत। जनाः युष्‍मान्‌ न्‍यायाधिकरणेषु अर्पयिष्‍यन्‍ति। ते सभागृहे कशाघातैः ताडयिष्‍यन्‍ति। मदर्थम्‌ ते शासकानाम्‌ राज्ञाम्‌ च सन्‍निधौ नेष्‍यन्‍ति, येन युष्‍माभिः मामधि साक्ष्‍यं दास्‍यते; 10यतः अयम्‌ आवश्‍यकः वर्तते, यत्‌ सर्वप्रथमम्‌ सर्वेषु राष्‍ट्रेषु शुभसमाचारस्‍य प्रचारः भवेत्‌।
11यदा ते न्‍यायाधिकरणम्‌ अर्पणाय युष्‍मान्‌ नेष्‍यन्‍ति, तदा किम्‌ वक्‍तव्‍यम्‌ इति चित्ते न चिन्‍तयेरन्‌। तस्‍मिन्‌ क्षणे ये शब्‍दाः दास्‍यन्‍ते, तान्‌ कथयत। यतः तस्‍य शब्‍दस्‍य वक्‍ता पवित्रात्‍मा वर्तते। 12भ्राता स्‍वभ्रातरं मृत्‍योः हस्‍तयोः अर्पयिष्‍यति, पिता आत्‍मनः पुत्रम्‌। पुत्राः, पित्रोः विरोधे स्‍थास्‍यन्‍ति, पितरौ घातयिष्‍यन्‍ति। 13मम नामकारणात्‌ सर्वे युष्‍मान्‌ वैरतः द्रक्ष्‍यन्‍ति, परन्‍तु यः यावत्‌ अन्‍तं धैर्येण स्‍थास्‍यति स्‍थिरः, तस्‍मै मुक्‍तिः लप्‍स्‍यते।”
महत्‌ संकटम्‌
(मत्ती 24:5-28; लूका 21:20-24)
14“यदा विनाशस्‍य वीभत्‍सदृश्‍यं तत्र त्‍वं द्रक्ष्‍यसि, यत्र नोचितम्‌ , - “पाठकः एतत्‌ बुध्‍येत” - तदा, ये जनाः यहूदाप्रदेशे विद्‌यन्‍ते, ते द्रुतं गिरीन्‌ पलायन्‍तु। 15ये गृहपृष्‍ठेषु सन्‍ति, ते तत्रतः न अवरोहन्‍तु, स्‍वानि वस्‍तूनि ग्रहीतुं तत्र मा प्रविशन्‍तु। 16यः स्‍वक्षेत्रे वर्तते, सः स्‍ववस्‍त्रं समादातुं गृहं न प्रत्‍यायातु। 17तासां कृते दुःखं, याः गर्भभरालसाः सन्‍ति, अथवा स्‍तन्‍यपायिनः विद्‌यन्‍ते। 18प्रार्थयध्‍वं यथा एतत्‌ शीतकाले न सम्‍भवेत्‌, 19यतः तस्‍मिन्‌ समये तादृशः घोरसंकटः भविष्‍यति, यादृशः परमेश्‍वरस्‍य सृष्‍टौ, अस्‍य संसारस्‍य आरंभात्‌ इदानीं यावत्‌ न भूतः, न भविष्‍यति। परमेश्‍वरः दिवसान्‌ चेत्‌ तान्‌ न्‍यूनान्‌ न हि अकरिष्‍यत्‌, तदा अस्‍मिन्‌ लोके कश्‍चन्‌ प्राणवान्‌ न अवर्तिष्‍यत्‌।
20परन्‍तु असौ कृपापात्रेभ्‍यः कारणात्‌ तान्‌ दिवसान्‌ न्‍यूनान्‌ कृतवान्‌ अस्‍ति। 21तस्‍मिन्‌ काले कोऽपि जनः युष्‍मान्‌ एतत्‌ ब्रवीति चेत्‌, “पश्‍यत अत्र मसीहः अस्‍ति, अथवा तत्र असौ वर्तते, 22तर्हि तेषां वचने विश्‍वासं मा कुरुत। यतः मिथ्‍यामसीहाः तथा मिथ्‍यानबिनश्‍च आविर्भूय, अद्‌भुतानि चिह्‌नानि तथा चमत्‍कारान्‌ दर्शयिष्‍यन्‍ति, चेत्‌ संभवः अभविष्‍यत्‌, तदा वृतान्‌ जनान्‌ अपि पथभ्रष्‍टान्‌ अकरिष्‍यन्‌। 23सावधानाः स्‍त। मया यूयं प्रथममेव निर्दिष्‍टाः।
मानवपुत्रस्‍य पुनरागमनम्‌
(मत्ती 24:29-31; लूका 21:25-27)
24“तेषां दिनानाम्‌ संकटस्‍य पश्‍चात्‌, सूर्यः अन्‍धकारमयः भविष्‍यति, चन्‍द्रश्‍च निष्‍प्रभः भविष्‍यति, 25नक्षत्राणि पतिष्‍यन्‍ति, नभसः शक्‍त्‍यः विचलिष्‍यन्‍ति। 26तदा मनुष्‍याः मानवपुत्रम्‌ अमित-सामर्थ्‍यैः महिम्‍ना च सह मेघमार्गतः आयान्‍तं द्रक्ष्‍यन्‍ति। 27सः स्‍वकीयदूतान्‌ प्रेषयिष्‍यति, ते चतुर्दिग्‍भ्‍यः, व्‍योम्‍नः कोणात्‌ कोणात्‌ तस्‍य वृतान्‌ लोकान्‌ संग्रहीष्‍यन्‍ति।
एतत्‌ कदा भविष्‍यति
(मत्ती 24:32-36; लूका 21:29-33)
28“यूयम्‌ अंजीरवृक्षेन शिक्षां गृह्‌णीत। यदा तस्‍य तरोः शाखाः अतिमार्दवम्‌ प्राप्‍नुवन्‍ति, ताभ्‍यः अंकुराः प्रस्‍फुटन्‍ति, तदा यूयं विजानीथ “निदाघः“ समुपस्‍थितः। 29एवमेव यदा यूयम्‌ एतत्‌ द्रक्ष्‍यथ, तदा जानीत असौ आसन्‍नः, द्वारे च समुपस्‍थितः। 30अहं ब्रवीमि अस्‍य वंशस्‍य यावदन्‍तं व्रजति, तत्‌ पूर्वमेव एतत्‌ भविष्‍यति। 31आकाशः पृथिवी चापि स्‍वस्‍थानाद्‌ विचलिष्‍यतः, परन्‍तु मम वाक्‍यं न कदापि विचलिष्‍यति।
32तस्‍य दिनस्‍य तथा तस्‍य क्षणस्‍य विषये च कोऽपि न जानाति-स्‍वर्गस्‍य दूतगणाः न, पुत्रः अपि न जानाति, केवलम्‌ पिता जानाति।
जागरुकता
(मत्ती 24:42; 25:13-15; लूका 19:12-13; 12:40)
33“यूयं जागृताः सावधानाः तिष्‍ठत, यतः यूयं न जानीथ कदा कालः एष्‍यति। 34अयं विषयः तथैव अस्‍ति यथा कश्‍चन मानवः स्‍वीयं गृहं परित्‍यज्‍य देशान्‍तरम्‌ गतवान्‌। तस्‍य रक्षायाः भारं स्‍वदासेषु समर्प्‍य प्रत्‍येकं स्‍वस्‍वकर्मणाम्‌ पालनं निर्दिष्‍टवान्‌। द्वारपालमपि जागरणं समादिशत्‌। 35यतः यूयं न जानीथ गृहस्‍वामी कदा आयाति - सायंकाले, अर्धरात्रौ वा कुक्‍कुटारवे वा प्रभाते आयास्‍यति। तस्‍मात्‌ जागृत सर्वदा। 36कदाचित्‌ एतत्‌ न भवेत्‌ यत्‌ अकस्‍मात्‌ समागतः गृहस्‍वामी युष्‍मान्‌ सर्वान्‌ सुप्‍तान्‌ विलोकयेत्‌। 37यद्‌ युष्‍मान्‌ अहं ब्रवीमि तत्‌ सर्वान्‌ ब्रवीमि - “जागृत।”

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in