YouVersion Logo
Search Icon

मारकुस 15

15
राज्‍यपालस्‍य पिलातुसस्‍य समक्षे
(मत्ती 27:1-2,11-26; लूका 23:1-5,13-25; यूह 18:28-40)
1प्रभाते भविते सति नेतारः शास्‍त्रिणः महायाजकाश्‍च, अर्थात्‌ कृत्‍स्‍ना महासभा निर्णितवती। तत्‍पश्‍चात्‌ येशुं बध्‍वा पिलातुसहस्‍तयोः अददुः।
2पिलातुसः तं पृष्‍टवान्‌, “किं त्‍वं यहूदिनाम्‌ राजा वर्तसे?” येशुः प्रत्‍युवाच, “भवता सत्‍यमेव उच्‍यते।” 3तदा याजकाः तस्‍मिन्‌ बहून्‌ अभियोगान्‌ अकुर्वन्‌। 4पिलातुसः तदा येशुम्‌ पुनः अवदत्‌, “इमे त्‍वयि अनेकान्‌ अभियोगान्‌ कुर्वन्‍ति, एतेषां किंचित्‌ उत्तरं त्‍वत्‍पार्श्‍वे न विद्‌यते?” 5येशुः पुनः अपि एकं शब्‍दं तस्‍य उत्तरे न अवदत्‌। तदा पिलातुसस्‍य मनसि महाविस्‍मयः अभवत्‌।
6पर्वणि प्रतिवर्षम्‌ राज्‍यपालः जनेच्‍छया कारागृहे बद्‌धं कत्र्चित्‌ एकं नरम्‌ अमोचयत्‌। 7तदा बराब्‍बसः नाम कश्‍चित्‌ नरः तैः उपप्‍लवकारिभिः साद्‌र्धम्‌ राजद्रोहस्‍य समये, यैः महती हत्‍या कृता, कारागृहे चिरात्‌ बद्‌धः आसीत्‌। 8जनानां निचयः राज्‍यपालम्‌ एत्‍य न्‍यवेदयत्‌, “भवता विहितं पूर्वम्‌ नित्‍यम्‌ अन्‍यान्‌ प्रति यथा कृपया क्रियताम्‌ अस्‍माकं कृतेऽपि तथैव।” 9पिलातुसः तदा तान्‌ प्राह, किं यूयम्‌ अभिवात्र्छथ यदहं यहूदिनां राजानं मुत्र्चेयं हि युष्‍माकं कृते। 10यतः असौ जानाति स्‍म यदेतैः महापुरोहिताः ईर्ष्‍यावशात्‌ येशुः समर्पितः, 11परन्‍तु महापुरोहिताः जनान्‌ उदसाहयन्‌ - बराब्‍बसं मोक्‍तुं ते याचयेयुः। 12पिलातुसः पुनः सर्वान्‌ पृष्‍टवान्‌ - “मया तं प्रति कीदृशः व्‍यवहारः कर्तव्‍यः युष्‍माभिः यश्‍च यहूदिनां राजा उच्‍यते।” 13ते तं प्रत्‍यवोचन्‍त “क्रूसम्‌ आरोप्‍यताम्‌ अयम्‌।” 14पिलातुसः तान्‌ प्राह - “अपराद्‌धम्‌ अनेन किम्‌?” परन्‍तु ते उच्‍चैः स्‍वरैः भाषितुम्‌ आरब्‍धवन्‍तः - “अस्‍मै क्रूसं ददीत, अस्‍मै क्रूसं ददीत।” 15तदा पिलातुसः तेषाम्‌ अभीप्‍सितं कर्तुम्‌ निश्‍चितवान्‌। तेषाम्‌ इच्‍छानुसारं सः बराब्‍बसम्‌ अमोचयत्‌ येशुं कशाघातैः ताडयितुम्‌ आदिश्‍य क्रूसम्‌ आरोपणाय सैनिकानाम्‌ हस्‍तेषु असमर्पयत्‌।
सैनिकैः उपहासः
(मत्ती 27:27-31; यूह 19:2-3)
16ततः ते सैनिकाः येशुं राज्‍यपालस्‍य भवनस्‍य अभ्‍यन्‍तरं नीत्‍वा, तं परितः कृत्‍स्‍नं सैन्‍यदलं स्‍थापितवन्‍तः। 17ते रक्‍तवर्णकम्‌ कत्र्चुकं परिधाप्‍य एनं कण्‍टकैः मुकुटं निर्माय तस्‍य शिरसि स्‍थापितवन्‍तः। तं 18“यहूदिनां महाराज! त्‍वां वयम्‌ नमस्‍कुर्महे” एवम्‌ भाषमाणाः तम्‌ अभ्‍यवादयन्‌। 19तस्‍य शिरः नलेन अताडयन्‌, देहे न्‍यष्‍ठीवन्‌, जानुपातं च प्राणमन्‌। 20तम्‌ इत्‍थम्‌ उपहस्‍य कत्र्चुकम्‌ उत्तार्य तस्‍य स्‍वकीयं वस्‍त्रं पर्यधापयन्‌।
क्रूसारोपणम्‌
(मत्ती 27:32-38; लूका 23:26,33-44; यूह 19:17-24)
21ते येशुं क्रूसारोपणाय नगराद्‌ बहिः नीतवन्‍तः। ते कुरेनेवासिनं सिकन्‍दररुफुसयोः पितरम्‌, क्षेत्रात्‌ आगच्‍छन्‍तं सिमोनं येशोः क्रूसं वोढुम्‌ अबाधयन्‌।
22ते येशुं गोलगोथाम्‌ अभिधं स्‍थलम्‌, यदर्थतः कपालस्‍य स्‍थानम्‌ इति अभिधीयते, नीतवन्‍तः। 23तत्र सैनिकाः पित्तेन मिश्रितम्‌ द्राक्षारसं पाययितुम्‌ ऐच्‍छन्‌, परन्‍तु येशुः न गृहीतवान्‌। 24ततः तं क्रूसमारोप्‍य, तथा तस्‍य वस्‍त्राणि मिथः विभजमानाः, केन किं लभ्‍यताम्‌ इति विज्ञातुं गुटिकापातं स्‍वमध्‍ये विभाजनमं कृतवन्‍तः।
25-26यदा ते सैनिकाः येशुं क्रूसम्‌ अरोपयन्‌, तदा प्रथमः पहरः समाप्‍तिम्‌ आरूढः आसीत्‌। तस्‍य अभियोगपत्रम्‌ इत्‍थम्‌ आसीत्‌ - “यहूदिनाम्‌ राजा।” 27तेन सार्द्धम्‌ द्वौ दस्‍यू क्रूसम्‌ आरोपितौ। एकस्‍तु दक्षिणे, अपरः तस्‍य वामे। 28(इत्‍थं धर्मशास्‍त्रस्‍य इदं वचः सिद्‌धम्‌ अभवत्‌ - तस्‍य गणना दुष्‍कर्मकारिणाम्‌ मध्‍ये अभवत्‌।)
अपमानः उपहासश्‍च
(मत्ती 27:39-44; लूका 23:35-37)
29तेन पथा व्रजन्‍तः जनाः येशोः निन्‍दां कुर्वन्‍तः शिरांसि चालयन्‍तः इत्‍थं तम्‌ अकथयन्‌ ”अरे मन्‍दिरभत्र्जक! तथा दिनत्रये तस्‍य पुनः निर्माणकारक! 30क्रूसाद्‌ अवतीर्य आत्‍मनः रक्षणं कुरु।”
31महापुरोहिताः शास्‍त्रिणश्‍च तस्‍य उपहासं कुर्वन्‍तः मिथः ते अकथयन्‌, अनेन अन्‍ये रक्षिताः, आत्‍मानं तु एषः रक्षितुं न शक्‍नोति ! 32अयम्‌ इस्राएलस्‍य नराधिपः मसीहस्‍तु वर्तते। इदानीम्‌ एषः क्रूसात्तु शीघ्रम्‌ एव अवरोहतु, यस्‍मात्‌ एतद्‌ विलोक्‍य अस्‍मासु विश्‍वासः भवेत्‌।” तेन साद्‌र्धम्‌ ययोः द्वयोः क्रूसारोपणं ववृते, तौ चापि दस्‍यूः येशोः उपहासम्‌ अकुरुताम्‌।
येशोः मृत्‍युः
(मत्ती 27:45-56; लूका 23:44-49; यूह 19:28-30)
33आ मध्‍याह्‌नात्‌ तृतीयं प्रहरं यावत्‌ भूतले तिमिरः आच्‍छादितः आसीत्‌, 34तृतीये प्रहरे येशुः उच्‍चस्‍वरैः अवदत्‌, ”एलोई! एलोई! लमा सबकतानी!” अस्‍य अर्थर्ः अस्‍ति, ”मत्‍प्रभो! मत्‍प्रभो! कस्‍मात्‌ मां परित्‍यक्‍तवान्‌ असि।” 35इदं श्रुत्‍वा तत्रस्‍थाः केचन मानवाः अवदन्‌, “पश्‍यत एषः एलियाहम्‌ आह्‌वयति।” 36तेषु एकः च धावित्‍वा वारिशोषकम्‌ आम्‍लरसेन पूर्णमार्द्रीचकार, नलाग्रे दृढं बद्‌ध्‍वा तं येशवे दत्‍वा प्राह - “तिष्‍ठत वयम्‌ पश्‍यामः, एलियाहः एनं क्रूसात्‌ अवतारयितुम्‌ आयाति वा न।” 37तदा येशुः प्रोच्‍चं रवं समुच्‍चार्य दिवंगतः।
38तदा मन्‍दिरस्‍य महान्‌ पटः ऊर्ध्‍वात्‌ अधं यावत्‌ विदीर्णः सन्‌ सद्‌यः द्विखण्‍डताम्‌ अभवत्‌। 39शतपतिः येशोः सम्‍मुखे स्‍थितः आसीत्‌। सः आश्‍चर्येन सह इदम्‌ उक्‍तवान्‌, “नूनम्‌ एव अयम्‌ ईशपुत्रः आसीत्‌।”
40तत्र काश्‍चन स्‍त्रियः दूरतः वीक्षमाणाः आसन्‌। तासां मरियामगदेलेनी, कनिष्‍ठयाकूबस्‍य तथा यूसुफस्‍य जननी मरिया, सलोमी च आसन्‌। 41यदा येशुः गलीलप्रदेशे आसीत्‌, ताःतेन सह स्‍थिताः, तस्‍य परिचरन्‍ति स्‍म। अपराश्‍च नार्यः अपि तत्र आसन्‌, याः येशुना साद्‌र्धम्‌ येरुसलेमम्‌ आगताः आसन्‌।
शवागारे स्‍थापनम्‌
(मत्ती 27:57-61; लूका 23:50-55; यूह 19:38-42)
42तदा सन्‍ध्‍याकालः आसीत्‌, भृगुवासरम्‌ दिनं च, अर्थात्‌ विश्रामदिवसस्‍य प्रथमं दिनम्‌। 43अतः अरिमतियाहस्‍य यूसुफः, धर्ममहासभायाः एकः सम्‍मानितः सदस्‍यः, यः परमेश्‍वरस्‍य राज्‍यस्‍य प्रतीक्षायाम्‌ आसीत्, सः निर्भयो भूत्‍वा पिलातुसं येशोः मृतशरीरं याचितवान्‌। 44पिलातुसः आश्‍चर्यचकितः अभवत्‌ यत्‌ येशोः शीघ्रमेव अम्रियत। 45सः शतपतिम्‌ आहूय पृष्‍टवान्‌, येशुः अम्रियत वा न। शतपतिना अस्‍य सूचनां प्राप्‍त्‍वा यूसुफाय शवम्‌ अदापयत्‌। 46यूसुफः क्षौमवस्‍त्रं क्रीत्‍वा येशोः शवं क्रूसतः उत्तार्य तेन वाससा अवेष्‍टयत्‌। शिलामध्‍ये विनिर्मिते शवागारे तं स्‍थापितवान्‌। शवागारमुखे एकं प्रस्‍तरम्‌ लोटयामास। 47मरियामगदेलेना, यूसुफमाता मरिया अपश्‍यताम्‌ कुत्र सः निधीयते।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in