योहनः 6
6
1ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।
2ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्।
3ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्।
4तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते
5यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः?
6वाक्यमिदं तस्य परीक्षार्थम् अवादीत् किन्तु यत् करिष्यति तत् स्वयम् अजानात्।
7फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।
8शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्
9अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?
10पश्चाद् यीशुरवदत् लोकानुपवेशयत तत्र बहुयवससत्त्वात् पञ्चसहस्त्रेभ्यो न्यूना अधिका वा पुरुषा भूम्याम् उपाविशन्।
11ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।
12तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत।
13ततः सर्व्वेषां भोजनात् परं ते तेषां पञ्चानां यावपूपानां अवशिष्टान्यखिलानि संगृह्य द्वादशडल्लकान् अपूरयन्।
14अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।
15अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।
16सायंकाल उपस्थिते शिष्या जलधितटं व्रजित्वा नावमारुह्य नगरदिशि सिन्धौ वाहयित्वागमन्।
17तस्मिन् समये तिमिर उपातिष्ठत् किन्तु यीषुस्तेषां समीपं नागच्छत्।
18तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे।
19ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्
20किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।
21तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।
22यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः।
23किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।
24यीशुस्तत्र नास्ति शिष्या अपि तत्र ना सन्ति लोका इति विज्ञाय यीशुं गवेषयितुं तरणिभिः कफर्नाहूम् पुरं गताः।
25ततस्ते सरित्पतेः पारे तं साक्षात् प्राप्य प्रावोचन् हे गुरो भवान् अत्र स्थाने कदागमत्?
26तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।
27क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।
28तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं?
29ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म।
30तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?
31अस्माकं पूर्व्वपुरुषा महाप्रान्तरे मान्नां भोक्त्तुं प्रापुः यथा लिपिरास्ते। स्वर्गीयाणि तु भक्ष्याणि प्रददौ परमेश्वरः।
32तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।
33यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।
34तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु।
35यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।
36मां दृष्ट्वापि यूयं न विश्वसिथ युष्मानहम् इत्यवोचं।
37पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।
38निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।
39स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं।
40यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।
41तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे
42यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?
43तदा यीशुस्तान् प्रत्यवदत् परस्परं मा विवदध्वं
44मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।
45ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।
46य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्।
47अहं युष्मान् यथार्थतरं वदामि यो जनो मयि विश्वासं करोति सोनन्तायुः प्राप्नोति।
48अहमेव तज्जीवनभक्ष्यं।
49युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः
50किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते।
51यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।
52तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
53तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
54यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि।
55यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं।
56यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि।
57मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति।
58यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।
59यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्।
60तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
61किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?
62यदि मनुजसुतं पूर्व्ववासस्थानम् ऊर्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति?
63आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।
64किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।
65अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति।
66तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्।
67तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ?
68ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः?
69अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।
70तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।
71इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।
Currently Selected:
योहनः 6: SAN-DN
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.

: