लूका 21

21
दरिद्रविधवायाः दानम्‌
(मत्ती 12:41-44)
1येशुः दृष्‍टिम्‌ उत्‍क्षिप्‍य दृष्‍टवान्‌, धनिनः जनाः स्‍वकं धनं दानरूपं धनागारे निक्षिपन्‍ति। 2तेषां मध्‍ये एकां विधवाम्‌ अपि द्वौ कपर्दकौ निक्षिपन्‍ती दृष्‍टवान्‌। 3येशुः अवदत्‌, “एषा दरिद्रा विधवा सर्वेभ्‍यः चाधिकं धनम्‌ धनागारे निवेशितवती, 4यतः सर्वे महाधनाः प्रयोजनातिरिक्‍तं धनम्‌ निवेशितवन्‍तः, परन्‍तु एषा हीनावस्‍थायामपि जीविकाभूतं सर्वस्‍वं यदासीत्‌ तत्‌ अददात्‌।”
मन्‍दिरस्‍य विनाशस्‍य भविष्‍यवाणी
(मत्ती 24:1-2; मर 13:1-2)
5केचित्‌ मन्‍दिरस्‍य विषये अकथयन्‌, इदम्‌ अतिसुन्‍दरैः प्रस्‍तरैः, मनोवात्र्छापूरकैः उपहारैः सुसज्‍जितमस्‍ति। 6येशुः तान्‌ एवं प्रोक्‍तवान्‌, “अचिरेणैव तादृशाः दिवसाः आगमिष्‍यन्‍ति, यदा युष्‍माभिः अधुना प्रत्‍यक्षं यद्‌ विलोक्‍यते तन्‍मध्‍ये कोऽपि प्रस्‍तरः, प्रस्‍तरोपरि पतितः नावशेषिष्‍यते, सर्वम्‌ः धराशायी भविष्‍यति। 7तदा ते येशुम्‌ अपृच्‍छन्‌, गुरो! एतत्‌ कदा भविष्‍यति, तथा केन चिन्‍हेन सः समयः अभिज्ञास्‍यते।”
विपत्तीनाम्‌ आरंभः
(मत्ती 24:3-14; मर 13:3-13)
8येशुः तान्‌ प्रोक्‍तवान्‌, “यूयं सावधानाः तिष्‍ठत, युष्‍मान्‌ कोऽपि न वञ्‌चयेत्‌। यतः मम नाम गृहीत्‍वा जनाः युष्‍मान्‌ वदिष्‍यन्‍ति, “अहं सोऽस्‍मि, सः समयः आगतोऽस्‍ति।” तेषाम्‌ अनुयायिनः मा भवत। 9युद्धानां क्रान्‍तीनां च चर्चया न उद्‌विजष्‍यथ। सर्वम्‌ एतत्‌ अनिवार्यमस्‍ति। परन्‍तु अयम्‌ अन्‍तः न वर्तते।
10तदा येशुः तान्‌ पुनः अवदत्‌, “राष्‍ट्रस्‍य विरुद्‌धे राष्‍ट्रम्‌ उत्‍थास्‍यति, राज्‍यस्‍य प्रतिकूलं राज्‍यम्‌ यतिष्‍यते। 11महावेगः भूकम्‍पः भविष्‍यति; यत्र तत्र महाव्‍याध्‍यः दुर्भिक्षाः च मानवान्‌ नाशयिष्‍यन्‍ति। आतंकोत्‍पादिदृश्‍याः दृक्‍पथम्‌ आगमिष्‍यन्‍ति।
12“सर्वस्‍याः एतस्‍याः घटनायाः पूर्वम्‌ मम नामकारणात्‌ युष्‍मासु जनाः हस्‍तान्‌ उत्‍थापयिष्‍यन्‍ति। सभागृहेषु दण्‍डार्थम्‌ तथा कारागृहेष्‍वपि युष्‍मान्‌ समर्पयिष्‍यन्‍ति, शासकानां नृपाणां च समक्षम्‌ आनेष्‍यन्‍ति। 13अयं युष्‍माकं साक्ष्‍यदानस्‍य अवसरः भविष्‍यति। 14अतः मनसि एतत्‌ निधीयताम्‌ यद्‌ वयं स्‍वात्‍मशोधार्थम्‌ पूर्वमेव कात्र्चन्‌ चिन्‍ता नैव करिष्‍यामः, 15यतः अहं तादृशीबुद्धिम्‌, तथैव वाणीं च दास्‍यामि, यस्‍याः कोऽपि युष्‍माकं विपक्षः खडनं न करिष्‍यति। 16युष्‍माकं पितरौ, भ्रातरः तथा बन्‍धवः, मित्राणि अपि युष्‍मान्‌ ग्रहीष्‍यन्‍ति। युष्‍माकं तु केषात्र्चिद्‌ वधं विधास्‍यन्‍ति। 17मम नाम हेतोः युष्‍मभ्‍यं प्रतिपक्षिणः द्वेषं करिष्‍यन्‍ति। 18किन्‍तु युष्‍माकं नैकोऽपि बालो वक्रो भविष्‍यति। 19स्‍वेन धर्येण आत्‍मरक्षां करिष्‍यथ।
महासंकटम्‌
(मत्ती 24:15-21; मर 13:14-19)
20“यदा यूयं द्रक्ष्‍यथ येरुसलेमः सेनाभिः परिवेष्‍टितः, तदा जानीत तस्‍य सर्वनाशः शीघ्रमेव भविष्‍यति। 21तस्‍मिन्‌ समये यहूदाप्रदेशस्‍य निवासिनः पर्वतसंश्रयम्‌ कुर्युः। येरुसलेमवासिनः सर्वे बहिः आयान्‍तु। ग्रामस्‍थाः ते नगरेषु प्रवेशः न कुर्वीरन्‌। 22यतः तानि दिनानि दण्‍डस्‍य भविष्‍यन्‍ति। 23तेषु दिनेषु गर्भिण्‍यः अथवा स्‍तनदायिकाः भातरः शोचनीयाः भविष्‍यन्‍ति, यतः देशे दारुणसंकटम्‌, तथैव अस्‍यां प्रजायां प्रकोपश्‍च पतिष्‍यथः। 24जनाः असिधारयाहताः मृत्‍योः तटम्‌ आप्‍स्‍यन्‍ति। जनाः बन्‍दीकृताः सर्वराष्‍ट्राणि नेष्‍यन्‍ते। परराष्‍ट्राणि येरुसलेमं तावच्‍च अतिकठोरैः पादैः मर्दयिष्‍यन्‍ति यावत्‌ तेषां समयः परिपूर्णः न भविष्‍यति।
मानवपुत्रस्‍य पुनरागमनम्‌
(मत्ती 24:29-31; मर 13:24-27)
25“सूर्ये, चन्‍द्रे, नक्षत्रगणेषु चिन्‍हानि आविर्भविष्‍यन्‍ति। समुद्रस्‍य गर्जनेन जलप्‍लावेन च व्‍याकुलीभूत्‍वा राष्‍ट्राणि व्‍यथाम्‌ एष्‍यन्‍ति। 26लोकाः आपतिष्‍यतः घोरसंकटस्‍य आशंकया, आतंकेन निष्‍प्राणतां ब्रजिष्‍यन्‍ति। यतः नभसः शक्‍तयः विचलिष्‍यन्‍ति। 27तदा जनाः मानवपुत्रं महासामर्थ्‍यसंयुतम्‌, अपारमहिमापेतं च मेघोपरि आयान्‍तं द्रक्ष्‍यन्‍ति। 28एवंविधे व्‍यतिकरे यूयम्‌ उत्‍थाय शिरः उच्‍चीकुरुत, यतः तव मुक्‍तिः उपागता।”
इदं कदा भविष्‍यति
(मत्ती 24:32-35; मर 13:28-31)
29येशुः तान्‌ प्रति इमं दृष्‍टान्‍तम्‌ अश्रावयत्‌, “यूयम्‌ उडुम्‍बरं वृक्षमन्‍यान्‌ च पश्‍यत। 30यदा तेषु नवपल्‍लवाः विलोकयन्‍ते, तदा यूयं स्‍वयं वित्‍थ ग्रीष्‍मस्‍य मासः समुपस्‍थितः। 31तथैव सर्वमेतत्‌ समारब्‍धं विलोक्‍य यूयं वेत्‍स्‍यथ प्रभोः राज्‍यं प्रत्‍यासन्‍नम्‌।
32“अहं युष्‍मान्‌ ब्रवीमि, अस्‍यां वंशपरंपरायां समाप्‍तेः पूर्वमेव एतत्‌ सर्वम्‌ घटिष्‍यते। 33द्‌यावापृथ्‍व्‍यौ विचलेतां कदाचित्‌ इति संभवेत्‌, किन्‍तु मद्‌वचनं नैव कदापि विचलिष्‍यति।
जागरुकतायाः आवश्‍यकता
34“यूयं सावधानतया सदा वर्तध्‍वम्‌। नो चेत्‌ युष्‍माकं मनांसि जीविकाजन्‍यचिन्‍तया, भोगैः विलासैः, मद्‌येन व्‍यसनेन च जड़वत्‌ समाक्रान्‍तानि सम्‍भविष्‍यन्‍ति, सः दिवसश्‍च युष्‍मासु सहसा कूटपाशवत्‌ आपतिष्‍यति। 35यतः सः दिवसः भूतले निवासिनाम्‌ सर्वेषां जनानाम्‌ उपरि आपतिष्‍यति। 36अतः सर्वकालं यूयं जाग्रताः तिष्‍ठत, प्रभुं नित्‍यं प्रार्थयध्‍वम्‌, येन भविष्‍यतः सर्वस्‍मात्‌ संकटात्‌ आत्‍मनः त्रातुम्‌, अथ मानवपुत्रस्‍य सम्‍मुखं स्‍थातुम्‌ अर्हत।”
प्रभोः येशोः अन्‍तिमदिवसानां कार्यक्रमः
37येशुः दिने मन्‍दिरे शिक्षयति स्‍म, परन्‍तु नगरस्‍यबहिः निर्गत्‍य जैतूनपर्वते रात्रिम्‌ अनैषीत्‌। 38सर्वे मनुष्‍याः तस्‍योपदेशं श्रोतुम्‌ प्रातःकाले आगच्‍छन्‍ति स्‍म।

Podkreślenie

Udostępnij

Kopiuj

None

Chcesz, aby twoje zakreślenia były zapisywane na wszystkich twoich urządzeniach? Zarejestruj się lub zaloguj