यूहन्नः 21
21
तिबेरियसस्य सरोवरतरे दर्शनम्
1ततः येशुः, तिबेरियसस्य सरोवरतटे पुनः स्वकीयशिष्याणां दृष्टिगोचरतां गतः।
वृत्तमेतदभूदित्थम् - 2सिमोनपतरसः, थोमसः यः यमकः कथ्यते स्म, कानानिवासी नतनएलः, जेबेदीपुत्रौ, येशोः अन्यौ द्वौ शिष्यौ, एते सहैवासन्। 3सिमोनपतरसः सर्वान् प्रत्यभाषत - “मत्स्यान् धर्तुम् अहं गच्छामि।” ते तम् अब्रुवन् - “वयं चापि व्रजिष्यामः।” एवम् उक्त्वा सर्वे नावमारुह्य अव्रजन्। किन्तु तस्यां रजन्यां तैः नैव कित्र्चन लब्धम्।
4प्रत्युषे च भवत्येव तटे येशुः दृष्टः अभवत्, किन्तु शिष्याः तं ज्ञातुं नाशकन्। 5येशुः तान् अब्रवीत् “वत्साः! कित्र्चन खाद्यं लब्धम्? ते तं प्रत्यभाषन्त “नैव लब्धं कित्र्चिन।” 6येशुः तान् उवाच, “नावः दक्षिणपार्श्वतः जालं क्षिपत, यूयमवश्यं लपस्यध्वे।” ततः ते चिक्षिपुर्जालमियन्तः तत्र मत्स्यकाः अपतन्, येन तज्जालम् आक्रष्टुं न अशक्नुवन्।
7तदा येशोः असौ शिष्यः यः तस्यातिप्रियः आसीत्, पतरसम् इत्थम् उवाच - “एष प्रभुः एव अस्ति।” पतरसः एतत् समाकर्ण्य “असौ प्रभुः एव अस्ति“, तूर्णम् वस्त्रम् पर्यदधात्, यतः सः नग्नः आसीत्, ततः परं सरोवरे सहसा निपपात। 8अन्ये शिष्याः मत्स्यैः पूरितम् जालम् आकर्षन्तः नावं समारुह्य तटमुपागमन्। ते प्रायेण तटात् दि्वशतहस्तकम् दूरम् आसन्।
9तटमुर्त्तीय तत्राड्.गारीयाग्न्युपरि रक्षितम् भृष्टं मीनं, रोटिकाम् च प्रत्यक्षीकृतवन्तः। 10येशुः तान् अब्रवीत्, “युष्माभिः अधुना ये मत्स्याः धृताः, तेषां कतिपयान् यूयं मामुपानयत।” 11सिमोन पतरसः मत्स्यैः पूरितम् जालं समाकृष्य तटमानयत्। तस्मिन् जाले त्रिपत्र्चाशदधिकं शतम् महान्तः मत्स्याः आसन्, तथापि तज्जालं नैव व्यदीर्यत। 12येशुः तान् अब्रवीत् - “आयात, अत्स्यामश्च।” शिष्येषु कोऽपि तं प्रष्टुम् नोत्सेहे को भवान् इति। ते जानन्ति स्म यत् असौ प्रभुः अस्ति इति। 13येशुः तेभ्यः मत्स्यरोटिके वितरितुमारेभे। 14इत्थं येशुः मृतकानाम् मध्यतः उत्थाय तृतीयं वारं शिष्याणां प्रत्यक्षतां गतः।
पतरसाय अन्तिमः आदेशः
15प्रातराशात् परं येशुः सिमोनपतरसं जगाद, “सिमोन! योहनस्य पुत्र! किं त्वम् एभ्यः अधिकं मयि प्रेम कुरुषे? सः तं प्रत्यवादीत्, “प्रभो! भवान् जानाति यत् त्वयि मम प्रेम अविचलः वर्तते। येशुः तमब्रवीत् - “मम मेषशावकान् चारय।” 16येशुः पुनः द्वितीय वारं तमभाषत - “सिमोन! योहनात्मजः, किं मयि प्रेम कुरुषे? सिमोनपतरसः येशुम् पुनः तथा प्रत्यवोचत् - “प्रभो! भवान् जानाति यत् त्वयि मे प्रेम दृढ़म्।” येशु तम् आह - ”मे मेषान् चारय।” 17येशुः पुनः तृतीयवारं सिमोनमभाषत - “सिमोन! योहनसुतः किम् मयि प्रेम करोषि?” एवं तृतीयवारं स पृष्टः अतिदुखितः अभवत्। पतरसं तं जगाद - “भवान् सर्वज्ञः वर्तते। भवान् जानाति यत् मम भवति प्रेम सुदृढ़म् वर्तते।” येशुः पुनः तथैवाह - “मम मेषान् चारय।”
18अहं त्वां ब्रवीमि यदा त्वं तरुणः अभवः, तदा त्वं स्वां कटिम् वद्ध्वा यत्रैच्छया स्वयम् अचलः; यदा त्वं जराक्रान्तः भविष्यसि, हस्तौ विस्तारयिष्यसि कश्चित् अन्यश्च तव कटिम् बद्ध्वा त्वां चालयिष्यति, यत्र त्वं गन्तुं न वात्र्छसि।” 19एतै शब्दैः येशुः संकेतं दत्तवान् यत् केन प्रकारेण पतरसः परमेश्वरस्य महिमानं करिष्यसि। अन्ते येशुः पतरसं जगाद, “मम अनुसरणं कुरु।”
प्रियशिष्यस्य भविष्यः
20पतरसः अनुव्रजन् प्रत्यावृत्य येशोः प्रियतरं शिष्यम् अनुगच्छन्तम् ददर्श, यः येशोः वक्षसि नत्वा तम् पृष्टवान् आसीत्, “प्रभो! कोऽसौ य भवन्तं शत्रुहस्ते अर्पयिष्यति?”
21पेत्रुसः तं समालोक्य येशुं सादरम् प्रपच्छ - “प्रभो! किमस्य शिष्यस्य भविष्य इति वदतु।” 22येशुः तं प्रत्युवाच - ”यदि एतत् मेऽभिरोचते तर्हि यावद् अहं पुनः आगमिष्यामि, तावत् एषः अवतिष्ठेत्, तर्हि तव किम् भवति? त्वं मामनुव्रज।”
23ततः एतैः शब्दैः शिष्यमण्डले एषः प्रवादो प्रसूतः अभूत् यत् असौ शिष्यः न मरिष्यति। परन्तु येशुस्तु नाब्रवीत् इत्थम् “यदसौ न मरिष्यति। प्रत्युतासौ जगादेदं - “यावद् अहं पुनः आगमिष्यामि तावत् मे रोचते, तस्य स्थितिः, तत्र तवास्ति किम्?”
उपसंहारः
24एषः असौ एव शिष्यास्ति यः एतेषां वचनानाम् साक्ष्यं ददाति, तथा एतत् वृतम् लिखितवान्। वयं जानीमः तस्य साक्ष्यं सत्यमस्ति। 25येशुना बहुनि अन्यानि कार्याणि कृतानि। तानि कार्याणि यदि सर्वाणि एकैकशो लिख्यन्ते, तर्हि मन्ये, लिखितानां संख्यानाम् अति भूयसी संख्या सत्र्जास्यते, तान् धारयितुं कृत्स्नम् जगत् अपर्याप्तं भविष्यति।
Currently Selected:
यूहन्नः 21: SANSKBSI
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.