लूका 12
12
पाखंडस्य विरुद्धं शिक्षा
(मत्ती 10:26-27)
1तस्मिन् काले तु लोकानाम् उपमर्द्दः तथाऽभवत्, यथा सर्वे परस्परम् मर्द्दयन्तः आसन्। तथा येशुः स्वकान् शिष्यान् वक्तुं प्रचक्रमे, “सावधानाः सदा यूयं तिष्ठत एषु फरीसिषु, यतः फरीसिनः सर्वे जिह्मवृत्तयः वर्तन्ते। 2अस्मिन् लोके तादृशं कित्र्चत् वस्तु तिरोहितम् नास्ति, यत् लोकानां समक्षम् आविर्भूतं न भविष्यन्ति। न चापि तादृशं कित्र्चिद् यत् निगूढं वर्तते। अवश्यमेव काले तल्लोकैः ज्ञातं भविष्यति। 3अतः युष्माभिः यत् वचः तमसि व्याहृतं तत् सर्वलोकानां प्रकाशे निश्चयं श्रावयिष्यते। यूयं रहसि लोकानां कर्णरन्ध्रेषु यत् वचः शनैः वदथ, तत् उच्चैः उद्घोषयिष्यते।
4“मदीयबन्धवो! अहम् युष्मान् सर्वान् एवं ब्रवीमि, “तेभ्यः मा बिभीत, ये देहं ध्नन्ति, किन्तु ततोऽधिकम् कित्र्चत् कर्तुम् सामर्थ्यः तेषु न वर्तते। 5अहं युष्मान् विबोधये, कुतस्त्विति भेतव्यम्। भेतव्यं तु ततोऽवश्यं यो हत्वा तदनन्तरम् सामर्थ्येन नरके निक्षेप्तुं विशिष्टोऽस्ति। अतो तस्मात् बिभीत, पुनश्चाहं युष्मान् ब्रवीमि, यो हन्तुं, नरके निक्षेप्तुं च शक्नोति।
6“किं ताम्रखण्डद्वयेन पत्र्च चटकाः न विक्रीयन्ते? तथापि तेषु एकमपि प्रभुः न विस्मरति? 7युष्माकं शिरसः सर्वे कचाः गणिताः सन्ति। अतः मा बिभीत, यतः युष्माकं मूल्यं चटकाधिकम्।
8“युष्मान् अहं ब्रवीमि एतद् यः नृणाम् पुरतः माम् स्वीकरोति, सः परमेश्वरस्य दूतानां सम्मुखम् मानवपुत्रेण सर्वथा स्वीकरिष्यते। 9किन्तु नृणां समक्षे यः जनः मां अस्वीकुरुते, सः परमेश्वरस्य दूतानाम् समक्षे अस्वीकरिष्यते।
10“यः मानवपुत्रस्य विरुद्धं किंचित् वदिष्यति, तस्मै क्षमा प्राप्स्यते, परन्तु पवित्रात्मनः प्रतिकूले यः वदिष्यति, तस्मै क्षमा न मिलिष्यति। 11युष्माभिः चिन्ताकुलैः नैव भवितव्यम्, इदं विचिन्त्य यत् यदा ते युष्मान् सभागृहाणां न्यायाधीशानां, तथैव प्रशासकानां समक्षं नेष्यन्ति, चेत्, तदा कथम् यूयं प्रतिभाषिष्यध्वे, किं वा स्वतः वदिस्यथ, 12यतः तदा पवित्रात्मा युष्मान् वक्तुं शिक्षयिष्यति।”
मूर्खस्य धनिनः दृष्टान्तः
13अतः कश्चन लोकानां मध्यात् येशुम् अवदत् - “मे भ्रातरं ब्रूहि, सः मह्यम् पितुः रिक्थं विभज्येत्।” 14येशुः तं प्रत्यवदीत्, “भ्रातः ! कः मां युवयोः व्यवस्थापकम् वा सम्पदां विभाजकम् नियुक्तवान्?”
15सः पुनः तान् अवोचत्, “सावधानाः यूयं भवत, तथा लोभात् सर्वथा आत्मनः रक्षत। यतः धनेन धनिनः जीवनरक्षा न भवति।” 16पुनः सः तान् दृष्टान्तम् अब्रवीत्,” कस्यचिद् धनिनः भूमिः शस्यसम्पदा सम्पन्ना आसीत्। 17सः तां भूमिं दृष्ट्वा मनसि इत्थं व्यतर्कयत्, अहं किं करोमि, भूमिसम्भूताः शस्येभ्यः मद्गेहे पर्याप्तं स्थानं न विद्यते। 18तदा सः मनसि प्रोक्तवान् अहमेवं करिष्यामि, स्वान् सर्वान् कुशूलान् भड्.क्त्वा निर्माम्येतान् महत्तरान्। ततः सर्वाणि अन्नानि, सकलानि वित्तानि च तत्रैव, 19संचित्य, आत्मानम् वक्ष्ये - भ्रातः! ते पार्श्वे बहुवर्षार्थम् वित्तं संचितम्। अतः विश्राम्य त्वं खाद, पिब मोद च सर्वथा। 20परन्तु परमेश्वरः तु तमाह, दुर्बुद्धे! रात्रावस्यां तव प्राणाः प्रतिसंहृताः ग्राहष्यिन्ते, ततस्ते सकलं वित्तं बहुयत्नेन संचितम्, त्वत्तः परं कस्य हस्तं गमिष्यति? 21इयमेव तस्य गतिः स्वार्थम् धनसंग्राहिणः, यतः सः परमेश्वरस्य दृष्टौ धनी न वर्तते।”
परमेश्वरे विश्वासः
(मत्ती 6:25-34)
22येशु स्वान् शिष्यान् अब्रवीत्, “अतएव युष्मान् ब्रवीमि - न एव जीवननिर्वाहः चिन्तनीयः कदाचन, वयं किं परिधास्यामः किंवा वयम् भोक्ष्यामहे। 23यतः जीवनं, भोजनात् श्रेष्ठं वर्तते, तथैव देहोऽपि वसनात् विशिष्यते। 24वायसान् वीक्षध्वं, तैः तु न उप्यते नापि कृत्यते, नापि तेषां कुशूलः वा भण्डारगृहः विद्यते। तथापि परमेश्वरः वायसान् नित्यं पुष्णाति। यूयं तु वायसेभ्यः कतिगुणाधिकाः श्रेष्ठाः। 25चिन्तयित्वाऽपि युष्माकं कोहि वद्र्धयितुं क्षमः स्वायुषः निश्चितात् कालात् एकम् अपि अधिकं क्षणम्? 26यूयम् एतत् लघिष्ठं कार्यम् कर्तुम् न शक्नुथ, तत् कथम् अन्य- कार्याणां चिन्तया समाकुलाः स्थ?
27“पुष्पाणि पश्यत, कथं तानि वद्र्धन्ते। तानि न श्रमं कुर्वन्ति, न कृन्तन्ति। तथापि अहं युष्मान् वच्मि - 28सुलेमानोऽपि, कृत्स्नैः स्वविभवैः अपि तेषाम् एकस्य इव आभातुं न अशक्नोत्। 29यदि क्षेत्रे तृणं तु अद्यः वर्तते किन्तु श्वः च तत् चुल्लिकायां सुनिक्षिप्तं भवेत्, तथापि तत् तृणं चापि प्रभुः परिधापयति, 30तत् कथं न हि युष्माकं देहानाम् परिधापनम् प्रभुः विधास्यते? रे अल्पविश्वासिनः जनाः! अतः भोजनपानादिचिन्ता नैव कुरुध्वम्। युष्मत्पिता तु सर्वम् जानीते युष्मदपेक्षितम्। 31अतः तस्यैव राज्यस्य अन्वेषणे यत्नम् कुरुध्वम्। एतानि सर्वाणि वस्तूनि युष्मभ्यम् अनायासेन सुलभानि भविष्यन्ति। 32हे अल्पसमूह ! मा बिभेतु, यतः युष्मत्पिता युष्मभ्यं राज्यं दातुम् इच्छति।
यथार्थधनम्
(मत्ती 6:20-21)
33स्वधनं सर्वम् बिक्रीणीत, भिक्षायां तन्मुक्तहस्तं दत्त। स्वधनकोषः ईदृशः भवेत् यः अनश्वरः भवेत्। स्वर्गे अक्षयः महान् एकः धनराशिः निविशत तत्र न चौरो व्रजति, न कीटस्तं क्षिणोति। 34यतः यत्र युष्माकं वित्तं, तत्रैव चित्तं रंस्यते।
सर्तकता
(मत्ती 24:42-44; मर 13:35)
35“युष्माकं कटयः बद्धाः, दीपकाः प्रोज्ज्वलाः स्युः च। 36यूयं च तैः सेवकैः सदृशाः स्यात, ये वरयात्रातः स्वप्रभोः प्रत्यावर्तनम् प्रतीक्षन्ते, कदा असौ समागत्य कपाटं प्रहरिष्यति। यदा सत्वरम् अस्माभिः द्वारम् उद्घाटयिष्यते, 37धन्याः भृत्याः, यान् एत्य स्वामी जाग्रतः पश्यति। अहं युष्मान् ब्रवीमि - कटिं बद्ध्वा सः सेवकान् भोजनाय उपवेश्य एतान् एकम् एकं भोजयिष्यति। 38धन्याः ते सेवकाः यान् प्रभुः एवं प्रजाग्रतः रात्रेर्यामे द्वितीये वा तृतीये अपि एत्य पश्यति! 39यूयम् एतत् विजानीत, गृहप्रभुः न जानीते, यत् तदीयं गृहं कस्मिन् काले चौरः समेष्यति, यद् अज्ञास्यत् इदम् स्वामी तदा असौ नाऽसहिष्यत् सन्धिच्छेदं स्वगेहस्य चौरेण कथंचन, 40अतः युष्माभिः सज्जैः स्थीयतां सदा। यतः यूयं न जानीथ मानवपुत्रः कस्मिन् क्षणे आयाति। युष्माकं सः क्षणः कल्पनायाः विषयः न अस्ति, तस्मिन् क्षणे मानवपुत्रः आगमिष्यति।”
विश्वस्तोऽविश्वस्तश्च प्रबन्धकः
(मत्ती 24:45-51)
41पतरसः येशुम् अपृच्छत्, “प्रभो! किं भवान् दृष्टान्तम् इमम् अस्मभ्यमेव कथयति, सर्वेभ्यः वा?” 42प् रभुः अवदत् - “को नु अस्ति एतादृशः लोके विश्वस्तः बुद्धिमान् च अर्थाधिकारी, यदीयस्तु स्वामी स्वेषु भृत्येषु नियुड्.क्ते तं यथाकालं भोजनं वितर्तुम्। 43असौ सेवकः धन्यः, यं स्वामी आगत्य तथैव समाचरन्तं प्राप्नोति। 44अहं युष्मान् ब्रवीमि, स्वामी तं सेवकं स्वसम्पूर्णसम्पत्तौ नियोक्ष्यते। 45परन्तु यदि सः सेवकः मनसि वदेत् - मे स्वामी विलम्बेन आयाति, इति विचिन्त्य सर्वान् दासान् दासीश्च ताडयति, तथा भोक्तुम् पातुं, तथा मद्यसेवनम् आरभते, 46तदा तस्य सेवकस्य स्वामी तस्मिन् क्षणे एव आगमिष्यति, यस्मिन् सः तस्य आगमनम् नापेक्षते। तस्मिन् अविज्ञाते तु क्षणे, स्वामी तं प्रमादिनं सेवकम् कशाघातैः ताडयिष्यति, विश्वासघातिनाम् दण्डं दास्यति च।
47“यः सेवकः प्रभोः इच्छां विज्ञायापि सुसज्जितः न अभूत् तथा तस्य इच्छायाः अनुरूपं न समाचरत्, असौ प्रभूतं दण्डम् आप्नोति। 48यस्मै प्रभूतं दत्तम्, सः प्रचुरं याचयिष्यते। यस्मै यदर्पितं तस्मात् अधिकं याचयिष्यते।”
विभाजनस्य कारणम्
49अहं पृथिव्याम् अनलं प्रज्वालयितुम् आगतोऽस्मि। सोऽधुना प्रज्वलितः चेत्, मे समीप्सितम् सिद्धं स्यात्। 50अहम् अत्र एकं जलसंस्कारं ग्रहीतुम् समागतः। यावत् सः पूर्णः न भवति, तावद् अहं व्याकुलः।
51“यदि एषः विश्वासः युष्माकं मनसि स्थितः, पृथिव्याम् अहम् शान्तिं नीत्वा अत्र समागतः, तर्हि युष्मान् ब्रवीमि - एषा भ्रान्तिः वर्तते। यतः लोकेषु अहं विभेदम् आधातुम् आगतः। 52अद्यप्रभृति किस्ंमश्चिद् गृहे यदि पत्र्च जनाः, तेषु विभेदः भविष्यति त्रयः द्वयोः विरुद्धाः, द्वौ त्रयाणाम् विरुद्धौ भविष्यतः। 53पिता पुत्रस्य, पुत्रश्च पितुः विरोधे स्थास्यतः। माता दुहितुः, मातुः दुहिता विरोधे स्थास्यतः। श्वश्रूश्च पुत्रवध्वाश्च, श्वश्रवाः पुत्रवधूस्तथा।”
समयस्य अभिज्ञानम्
54येशुः जनान् अब्रवीत्, “पश्चिमस्य दिशः यूयं उद्यन्तं वारिदम् च दृष्ट्वा वदथ, “वृष्टिः आयाति, तथैव च जायते। 55एवमेव दक्षिणम् वान्तं समालोक्य यूयं सर्वे कथयथ, ”ग्रीष्मवातः प्रवास्यति,” तथैव एतद् सम्पद्यते। 56दम्भिन! यदि यूयं पृथिव्याः व्योम्नश्च रूपं जानीथ, तर्हि कालस्य लक्षणं कथं न वित्थ?”
प्रतिद्वन्द्विना सह सामत्र्जस्यम्
(मत्ती 5:25-26)
57युष्माभिः कथं स्वयम् उचितं न विचार्यते? 58यदा यूयं स्वैः प्रतिद्वन्द्विभिः सह व्यवहारमंडपं प्रति प्रस्थिताः, पथि तैः सह सामत्र्जस्यं कर्तुम् यत्नं कुरुत। नो चेत् ते प्रतिपक्षाः युष्मान् बलादाकृष्य न्यायकर्तुः सम्मुखे नेष्यन्ति, तत्र सः च युष्मान् राजकीयपुरुषेभ्यः अर्पयिष्यति, राजपुरुषाः च कारागारे क्षेप्स्यन्ति। 59अहं युष्मान् ब्रवीमि-कपद्र्दकः अन्तिमोऽपि युष्माभिः न संशोधितः, तावत् तस्मात् स्थानात् युष्माकं निष्क्रमणं सुकरं न भविष्यति।”
Currently Selected:
लूका 12: SANSKBSI
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.