YouVersion Logo
Search Icon

लूका 2

2
प्रभोः येशोः जन्‍म
(मत्ती 1:18-25)
1तेषु दिनेषु रोमनसम्राट्‌ औगुस्‍तुसः समस्‍तस्‍य जगतः गणनां कारयितुं राजाज्ञाम्‌ अददात्‌। 2इयं प्रथमा जनगणना आसीत्‌। तस्‍मिन्‌ समये क्‍विरिनियुसः सीरियायाः राज्‍यपालः आसीत्‌। 3सर्वे नाम लेखनाय स्‍वं स्‍वं नगरं प्रयाताः। 4यूसुफः दाऊदस्‍य परिवारवंशयोः च आसीत्‌; 5अतः सः गलीलियायाः नाजरेततः यहूदियायां दाऊदस्‍य नगरे बेतलेहमम्‌ अगच्‍छत्‌। 6तस्‍य पत्‍न्‍याः गर्भस्‍य दिनानि पूरितानि, 7अतः सा सुतम्‌ एकम्‌ अजनयत्‌। सा बालकं वस्‍त्रैः आच्‍छाद्‌य चरणौ (नादे) स्‍थापितवती, यतः पथिकानाम्‌ आश्रमेषु ताभ्‍याम्‌ स्‍थानं नासीत्‌।
पशुचारकाणां कृते स्‍वर्गदूतस्‍य संदेशः
8तस्‍मिन्‌ प्रान्‍ते पशुचारकाः क्षेत्रेषु अतिष्‍ठन्‌। ते रात्रौ स्‍वपशुकुलं रक्षन्‍ति स्‍म। 9प्रभोः दूतः तेषां समक्षे आगत्‍य स्‍थितः अभवत्‌। परमेश्‍वरस्‍य तेजः तान्‌ परितः प्रज्‍वलितम्‌ अभवत्‌। पशुचारकाः तं दृष्‍ट्‌वा भयभीताः अभवन्‌। 10स्‍वर्गदूतः तान्‌ प्रति अवदत्‌, मा भयम्‌ आप्‍नुत। पश्‍यत, अहं युष्‍मभ्‍यम्‌ अत्‍यानन्‍दस्‍य शुभसमाचारं श्रावयामि। 11अद्यः दाऊदस्‍य नगरे भवताम्‌ मुक्‍तिदाता प्रभुः मसीहः अजायत। 12इदं भवद्‌भ्‍यः अभिज्ञानं भविष्‍यति - भवन्‍तः एकं बालकं वस्‍त्रैः आच्‍छादितं चरणिस्‍थितम्‌ द्रक्ष्‍यन्‍ति। 13सहसा तेन स्‍वर्गदूतेन सह स्‍वर्गीयदूतानाम्‌ विशालः समूहः अदृश्‍यत, यः प्रभोः स्‍तुतिं कुर्वन्‌ आसीत्‌ -
14“सर्वोच्‍चस्‍वर्गे परमेश्‍वरस्‍य महिमा प्रकटिता भवेत्‌
पृथिव्‍यां च तस्‍य कृपापात्रेभ्‍यः
शान्‍तिः लभताम्‌, यैः सः प्रसन्‍नः अस्‍ति।
पशुचारकानाम्‌ उपहारः
15स्‍वर्गदूताः स्‍वर्गम्‌ प्रत्‍यावर्तन्‌, तत्‍पश्‍चात्‌ पशुचारकाः मिथः अवदन्‌ - वयं बेतलेहमं गत्‍वा एतां घटनां पश्‍याम;, या प्रभुना अस्‍मासु प्रकटिता अस्‍ति। 16ते शीघ्रं अगच्‍छन्‌, तथा चरणिस्‍थितं बालकं तस्‍य मातरं च पितरम्‌ प्राप्‍तवन्‍तः। 17तस्‍य दर्शनस्‍य पश्‍चात्‌ ते अकथयन्‌ यत्‌ अस्‍य बालकस्‍य विषये किं किं कथिताः सन्‍ति। 18सर्वे श्रोतारः पशुचारकानाम्‌ वचनेषु चकिताः आसन्‌। 19बालकस्‍य माता इमानि वचनानि स्‍वहृदये संचितवती। सा एतेषु वचनेषु चिन्‍तनमकरोत्‌। 20यथा पशुचारकैः कथिताः, तथैव ते सर्वम्‌ अपश्‍यन्‌, अशृण्‍वन्‌ च; अतः परमेश्‍वरस्‍य गुणगानं कुर्वन्‍तः प्रत्‍यागच्‍छन्‌।
प्रभोः नामकरणम्‌
21अष्‍टमे दिवसे प्राप्‍ते बालकस्‍य नाम “येशुः” दत्तवन्‍तौ। स्‍वर्गदूतः गर्भाधानस्‍य प्राक्‌ एव इदमेव नाम अददात्‌।
मन्‍दिरे बालकयेशोः समर्पणम्‌
22संहितायाः अनुसारं शुद्धीकरणस्‍य दिने आगते सति, पितरौ बालकस्‍य समर्पणविधिं कर्तुम्‌ येरुसलेमं नीतवन्‍तौ; 23यथा प्रभोः संहितायां लिखितमस्‍ति - प्रत्‍येकः प्रथमपुत्रं परमेश्‍वराय अर्पयेत्‌। 24प्रभोः संहितायाः अनुसारं द्वौ पंडुकौ अथवा कपोतस्‍य द्वौ शिशू अर्पणे दातव्‍यम्‌।
सिमोनस्‍य गानम्‌
25तस्‍मिन्‌ काले सिमोननाम कश्‍चित्‌ धर्मी तथा भक्‍तः पुरुषः आसीत्‌। सः इस्राएलस्‍य प्रतीक्षायाम्‌ आसीत्‌, पवित्रात्‍मना पूर्णश्‍च आसीत्‌। 26पवित्रात्‍मनः प्रेरणया सोऽपि मन्‍दिरम्‌ आयातः। 27पितरौ शिशवे येशवे संहितायाः रीतीः पूरयितुम्‌ यदा तम्‌ अभ्‍यन्‍तरम्‌ आनीतवन्‍तौ, 28तदा सिमोनः शिशुम्‌ स्‍वाड्‌.के नीत्‍वा, परमेश्‍वरस्‍य स्‍तुतिं कुर्वन्‌ अब्रवीत्‌, 29“प्रभो! साम्‍प्रतं त्‍वं स्‍वकीयं वचः पालयन्‌ एतं दासं शान्‍त्‍या सह जगद्‌बन्‍धनात्‌ मुच्‍यतु 30यतः मम नेत्रे तां मुक्‍तिम्‌ अपश्‍यताम्‌ 31या त्‍वया सर्वराष्‍ट्रेभ्‍यः प्रस्‍तुता। 32अयम्‌ इतरयहूदिनाम्‌ प्रबोधनाय ज्‍योतिः विद्‌यते, तव प्रजायै इस्राएलस्‍य गौरवश्‍च।”
33बालकस्‍य विषये सिमोनस्‍य तां स्‍तुतिम्‌ श्रुत्‍वा पितरौ अतिविस्‍मयौ जातौ। 34सिमोनः ताभ्‍याम्‌ आशीर्वादान्‌ समुच्‍चरन्‌ मेरीम्‌ एतत् अब्रवीत्‌, “पश्‍यतु अस्‍य बालकस्‍य कारणात्‌ इस्राएले अनेकानाम्‌ पतनानि उत्‍थानानि च भविष्‍यन्‍ति। अयम्‌ एकः चिह्नः विद्‌यते यस्‍य विरोधः करिष्‍यते।” 35इत्‍थम्‌ अनेकानाम्‌ गुप्‍तविचाराः प्रकटाः भविष्‍यन्‍ति। एकेन चंद्रहासेन तव हृदयं क्षिद्रितं भविष्‍यति।
अन्‍नानब्‍याः साक्षी
36-37अन्‍नानाम वृद्‌धा भविष्‍यवादिनी आशेरवंशस्‍य फनुएलस्‍य पुत्री आसीत्‌, तस्‍याः केवलं सप्‍तवर्षाणां विवाहितजीवनम्‌ आसीत्‌। सा चतुरशीतिवर्षीया आसीत्‌। सा रात्रिन्‍दिवं सोपवासं व्रतं प्रकुर्वाणा मन्‍दिरे निवसति स्‍म। 38सा तस्‍मिन्‌ क्षणे तत्र आगत्‍य प्रभोः स्‍तुतिं कुर्वन्‍ती, येरुसलेमस्‍य मुक्‍तेः प्रतीक्षारताः जनेभ्‍यः बालकस्‍य विषये अबोधयत्‌।
नासरेतनगरे येशोः बाल्‍यम्‌
39प्रभोः संहितायाः अनुसारं समर्पणविधिं कृत्‍वा तौ गलीलप्रदेशे स्‍वनगरीम्‌ नासरेतं प्रत्‍यागच्‍छताम्‌।
40बालकः अवर्धत। तस्‍मिन्‌ बलस्‍य तथा बुद्धेः विकासः अभवत्‌, तस्‍मिन्‌ परमेश्‍वरस्‍य अनुग्रहः अतिष्‍ठत्‌।
मन्‍दिरे किशोरः येशुः
41प्रतिवर्षम्‌ येशोः पितरौ पास्‍कोत्‍सवं सम्‍पादनार्थम्‌ येरुसलेमं गच्‍छतः स्‍म। 42यदा बालः द्वादशवर्षस्‍य अभवत्‌, तदा तौ विधानतः पास्‍कापर्व सम्‍पादनाय येरुसलेमं गतवन्‍तौ। 43पर्वणि समाप्‍ते सति तौ प्रत्‍यावृत्तौ; परन्‍तु किशोरः येशुः पित्रोः अलक्षितः तत्र एव येरुसलेमे अतिष्‍ठत्‌। 44तौ अचिन्‍तयताम्‌ यत्‌ बालकः यात्रिणाम्‌ दले अस्‍ति; अतः एकदिनस्‍य यात्रायाः पश्‍चात्‌ एव तं स्‍वकुटुम्‍बिनीनाम्‌ तथा परिचितजनानाम्‌ मध्‍ये अन्‍विष्‍यन्‍ताम्‌। 45तेषां मध्‍ये बालकं न प्राप्‍त्‍वा तौ पुनः येरुसलेमं प्रत्‍यगच्‍छताम्‌। 46त्रयस्‍य दिनस्‍य पश्‍चात्‌ तौ बालकं मन्‍दिरे शास्‍त्रिणाम्‌ मध्‍ये उपविष्‍टः तेषां वचनानि शृण्‍वन्‌, तान्‌ प्रश्‍नान्‌ कुर्वन्‌ प्राप्‍तवन्‍तौ। 47सर्वे श्रोतारः तस्‍य बुद्धेः, उत्तरैश्‍च आश्‍चर्यचकिताः आसन्‌। 48तस्‍य पितरौ तं दृष्‍ट्‌वा विस्‍मितौ जातौ। तस्‍य माता तम्‌ अवदत्‌ - “वत्‍स! त्‍वया आवाभ्‍याम्‌ सह ईदृशः व्‍यवहारः किमर्थम्‌ कृतः? पश्‍य, तव पिता अहं च दुःखितौ भूत्‍वा त्‍वाम्‌ अन्‍विष्‍यन्‍तौ अत्र समायातौ।”
49बालकः तौ अवदत्‌, “मम अन्‍वेषणस्‍य का आवश्‍यकता? किं भवद्‌भ्‍याम्‌ इदं न जानीतम्‌ यत्‌ अहं निश्‍चयमेव स्‍वपितुः गृहे भविष्‍यामि?” 50परन्‍तु बालकस्‍य इदं वचनं तौ न अवगच्‍छताम्‌।
51येशुः ताभ्‍याम्‌ सह नासरेतम्‌ प्रत्‍यावर्तत्‌, तयोः अधीने अतिष्‍ठत्‌ च। तस्‍य माता इमानि वचनानि हृदये संचितवती। 52येशोः बुदि्‌धः तथा शरीरस्‍य विकासः शनैः शनैः अभवत्‌। सः परमेश्‍वरमनुष्‍ययोः अनुग्रहे अवर्धत।

Currently Selected:

लूका 2: SANSKBSI

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in