YouVersion Logo
Search Icon

लूका 5:12-13

लूका 5:12-13 SANSKBSI

कस्‍मिंश्‍चित्‌ नगरे एकः कुष्‍ठी, येशोः समीपे आगच्‍छत्‌। सः येशुं दृष्‍ट्‌वा मुखेन अभिपत्‍य, न्‍यवेदयत्‌ - “प्रभो! त्‍वं मे संशुद्धिं कर्तुम्‌ अर्हसि।” येशुः करेण संस्‍पृश्‍य अवदत्‌ - “अहम्‌ इच्‍छामि त्‍वं शुद्धः भव।” तत्‍क्षणमेव सः कुष्‍ठरोगात्‌ मुक्‍तः अभवत्‌।