YouVersion Logo
Search Icon

लूका 5

5
प्रथमशिष्‍याणाम्‌ आह्‌वानम्‌
(मत्ती 4:18-22; मर 1:16-20)
1एकस्‍मिन्‌ दिने येशुः गनेसरेतस्‍य सरसः तटे आसीत्‌। जनाः परमेश्‍वरस्‍य वचनं श्रोतुम्‌ तस्‍मिन्‌ पतन्‍ति स्‍म। 2तदानीं सः सरसः तटे द्वे नावौ अपश्‍यत्‌। धीवराः ताभ्‍याम्‌ उत्तीर्य जालं प्रक्षालयन्‍ति स्‍म। 3येशुः पतरसस्‍य नावम्‌ आरुह्‌य तं प्रोवाच - “नावम्‌ अग्रे प्रचालय।” नावि उपविश्‍य जनान्‌ उपादिशत्‌। उपदेशं समाप्‍य सिमोनम्‌ अब्रवीत्‌ - 4“नावम्‌ अति गम्‍भीरे जले नीत्‍वा मत्‍स्‍यान्‌ ग्रहीतुं स्‍वकं जालं क्षिप।” सिमोनः प्रत्‍यवादीत्‌ - 5“स्‍वामिन्‌! रात्रौ कृतः श्रमः, परन्‍तु असफलः एव अभवम्‌। तवादेशात्‌ अहम्‌ क्षिपामि।” 6क्षिप्‍ते जाले मत्‍स्‍यानाम्‌ राशिः तत्र समाविशत्‌ येन जालं भग्‍नताम्‌ एतुम्‌ उद्‌यतम्‌। 7इदं दृष्‍ट्‌वा सिमोनः स्‍वान्‌ सहायकान्‌ इंगितेन आह्‌वयत्‌। तस्‍य सहायकाः आगतवन्‍तः। ते द्वे नावौ मत्‍स्‍यैः एतावत्‌ पूरयामासुः, यत्‌ भारात्‌ जले मज्‍जितुम्‌ आरब्‍धवन्‍त्‍यौ, 8इदं दृष्‍ट्‌वा सिमोनः येशोः पादयोः निपतन्‌ न्‍यवेदयत्‌ - “प्रभो! मत्‌समीपतः गच्‍छतु, अहं तु पापी मनुष्‍यः अस्‍मि।” 9जाले मत्‍स्‍यान्‌ दृष्‍ट्‌वा धीवराः विस्‍मिताः आसन्‌। 10इयमेव दशा याकूबयोहनयोः अपि आसीत्‌, तौ जेबेदिसुतौ आस्‍ताम्‌। येशुः सिमोनम्‌ अवदत्‌, “मा बिभीहि, अतः परं त्‍वं मनुष्‍यान्‌ ग्रहीष्‍यसि।” 11ततः नावः तटं नीत्‍वा सर्वम्‌ त्‍यक्‍त्‍वा येशोः अनुसरणं कृतवन्‍तः।
कुष्‍ठिनः स्‍वास्‍थ्‍यलाभः
(मत्ती 8:1-4; मर 1:40-45)
12कस्‍मिंश्‍चित्‌ नगरे एकः कुष्‍ठी, येशोः समीपे आगच्‍छत्‌। सः येशुं दृष्‍ट्‌वा मुखेन अभिपत्‍य, न्‍यवेदयत्‌ - “प्रभो! त्‍वं मे संशुद्धिं कर्तुम्‌ अर्हसि।” 13येशुः करेण संस्‍पृश्‍य अवदत्‌ - “अहम्‌ इच्‍छामि त्‍वं शुद्धः भव।” तत्‍क्षणमेव सः कुष्‍ठरोगात्‌ मुक्‍तः अभवत्‌। 14येशुः तं प्रोवाच - “त्‍वया एतस्‍मिन्‌ विषये किमपि नैव वक्‍तव्‍यम्‌। गत्‍वा स्‍वं याजकं दर्शय। अथ शुद्‌धये मूसानिर्धारितबलिम्‌ अर्पय, येन तव स्‍वास्‍थ्‍यलाभः प्रमाणितः भवेत्‌।” 15येशोः ख्‍यातिः अवर्धत। तस्‍य उपदेशान्‌ संश्रोतुं तथा रोगविमुक्‍तये जनाः तम्‌ उपयान्‍ति स्‍म। 16येशुः एकान्‍तम्‌ आश्रित्‍य प्रार्थनाम्‌ अकरोत्‌।
अद्‌र्धांगरोगी
(मत्ती 9:1-8; मर 2:1-12)
17एकस्‍मिने दिने येशौ शिक्षादाने रते सति, फरीसिनः शास्‍त्रिणश्‍च उपविष्‍टवन्‍तः। ते गलीलस्‍य तथा यहूदाप्रदेशस्‍य प्रतिग्रामात्‌ तथा येरुसलेमात्‌ अपि आगताः आसन्‌। प्रभोः सामर्थ्‍येन येशुः प्रेरितो भूत्‍वा रोगिणः रोगमुक्‍तान्‌ अकरोत्‌। 18एतस्‍मिन्‌ एव क्षणे केचित्‌ जनाः एकं खट्‌वाम्‌ आरूढम्‌ अद्‌र्धांगरोगिनम्‌ आनयन्‌। 19परमन्‍तः प्रवेशस्‍य न उपायं वीक्ष्‍य, बलभीं समारुह्‌य, खर्परान्‌ अपसार्य तेन मार्गेण रोगिणं खट्‌वया सह उत्तार्य येशोः मध्‍ये अस्‍थापयन्‌। 20तेषां विश्‍वासं विलोक्‍य येशुः अवदत्‌ - “भ्रातः! तव पापानि क्षान्‍तानि।”
21इदं श्रुत्‍वा शास्‍त्रिणः फरीसिनश्‍च अचिन्‍तयन्‌ - “ईशनिन्‍दकः अयं कोऽस्‍ति? यतः परमेश्‍वरात्‌ अतिरिक्‍तः कः पापं क्षमितुं समर्थः।” 22तेषां विचारं ज्ञात्‍वा येशुः तान्‌ अवदत्‌ - “साम्‍प्रतं यूयं किम्‌ चिन्‍तयन्‍तः स्‍थ? 23सरलतरं किं इदं कथनम्‌ - पापानि क्षान्‍तानि ते, अथवा उत्तिष्‍ठ व्रज? 24परन्‍तु यूयम्‌ एतद्‌ विजानीत यत्‌ मानवपुत्रस्‍य भूतले पापक्षमायाः अधिकारः अस्‍ति। सः अद्‌र्धांगरोगिणम्‌ अवदत्‌ - अहं त्‍वां ब्रवीमि, उत्तिष्‍ठ खट्‌वामादाय स्‍वकं गृहं गच्‍छ।” 25तत्‌ क्षणमेव सर्वेषां समक्षम्‌ उत्‍थाय, खट्‌वामादाय परमेश्‍वरस्‍य स्‍तुतिं कुर्वन्‌ गृहं गतवान्‌। 26सर्वे विस्‍मितमानसाः प्रभुम्‌ स्‍तोतुम्‌ आरब्‍धवन्‍तः। तेषाम्‌ उपरि भयम्‌ अभवत्‌, ते अकथयन्‌- “अद्यः अस्‍माभिः अद्‌भुतकार्यम्‌ दृष्‍टम्‌।”
लेबिनः आह्‌वानम्‌
(मत्ती 9:9-13; मर 2:13-17)
27ततः येशुः बहिः आगतः। लेबीतिनामकं राजपुरुषमेकं तस्‍य लेख्‍यस्‍थाने स्‍थितम्‌ अपश्‍यत्‌। तम्‌ उवाच - “माम्‌ अनुगच्‍छ।” 28सोऽपि सर्वम्‌ परित्‍यज्‍य येशुम्‌ अनुगच्‍छत्‌। 29लेबी स्‍वस्‍मिन्‌ गृहे येशोः सम्‍माने भोज्‍यं समायोजयत्‌। करसंग्रहिणः अतिथयश्‍च महत्‍याम्‌ संख्‍यायाम्‌ तेन सह भोजनाय तत्र आसन्‌। 30शास्‍त्रिणः फरीसिनश्‍च येशुं प्रति ईर्ष्‍ययोपेताः तस्‍य शिष्‍यान्‌ अकथयन्‌, “यूयं पापिभिः सह कथम्‌ अश्‍नीथ”? 31येशुः तान्‌ प्रत्‍युवाच - “रोगिणः वैद्‌यानाम्‌ अपेक्षा भवति, नैव स्‍वस्‍थजनान्। 32अहम्‌ पापिनः पुरुषान्‌ एव, न पापरहितान्‌ पश्‍चात्तापविधानार्थम्‌ आह्‌वातुम्‌ आगतोऽस्‍मि।”
उपवासस्‍य प्रश्‍नः
(मत्ती 9:14-17; मर 2:18-22)
33ते येशुं प्रत्‍यभाषन्‍त, “योहनस्‍य शिष्‍याः बारम्‍बारम्‌ उपवासं कुर्वन्‍ति तथा प्रार्थनायां सदा रताः भवन्‍ति, तथैव फरीसिनाम्‌ शिष्‍याः अपि एवं कुर्वन्‍ति, परन्‍तु भवतः शिष्‍याः उपवासं न कुर्वन्‍ति। 34येशुः तान्‌ एवम्‌ अव्रवीत्‌, “यावत्‌ वरः तैः सह वर्तते, यूयं वरयात्रिणः उपवासं कारयितुम्‌ न समर्थाः स्‍थ। 35परन्‍तु कदाचित्‌ तादृशाः दिवसाः एष्‍यन्‍ति, यदा ते वरवियुक्‍ताः भूत्‍वा उपवासं करिष्‍यन्‍ति।
36मसीहः पुनः इदं दृष्‍टान्‍तम्‌ अश्रावयत्‌ - “कश्‍चित्‌ जीर्णवस्‍त्रेषु नवीनं वस्‍त्रं न सीव्‍यति। यतः नूतनवस्‍त्रेण जीर्णवस्‍त्रं विदीर्यते। 37तथा प्रत्‍नवस्‍त्रं नूतनेन सह समानं न भविष्‍यति। कश्‍चित्‌ नूतनं द्राक्षारसं जीर्णचर्मकूपके न भरति, यत्‌ कूपकः तद्‌ विदीर्यते। निर्गच्‍छति बहिः द्राक्षारसश्‍च परिणश्‍यति। 38अतः नव्‍यः रसः नव्‍ये चर्मकूपके भर्तव्‍यः।
39“न हि प्रत्‍नं द्राक्षारसं पीत्‍वा कश्‍चित्‌ नूतनम्‌ इष्‍यते। सः तु वदति प्रत्‍नं रसं एव स्‍वदते।”

Currently Selected:

लूका 5: SANSKBSI

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in