योहनः 17
17
1ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।
2त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
3यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।
4त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।
5अतएव हे पित र्जगत्यविद्यमाने त्वया सह तिष्ठतो मम यो महिमासीत् सम्प्रति तव समीपे मां तं महिमानं प्रापय।
6अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।
7त्वं मह्यं यत् किञ्चिद् अददास्तत्सर्व्वं त्वत्तो जायते इत्यधुनाजानन्।
8मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।
9तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
10ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते।
11साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।
12यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।
13किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।
14तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।
15त्वं जगतस्तान् गृहाणेति न प्रार्थये किन्त्वशुभाद् रक्षेति प्रार्थयेहम्।
16अहं यथा जगत्सम्बन्धीयो न भवामि तथा तेपि जगत्सम्बन्धीया न भवन्ति।
17तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं।
18त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं।
19तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।
20केवलं एतेषामर्थे प्रार्थयेऽहम् इति न किन्त्वेतेषामुपदेशेन ये जना मयि विश्वसिष्यन्ति तेषामप्यर्थे प्रार्थेयेऽहम्।
21हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।
22यथावयोरेकत्वं तथा तेषामप्येकत्वं भवतु तेष्वहं मयि च त्वम् इत्थं तेषां सम्पूर्णमेकत्वं भवतु, त्वं प्रेरितवान् त्वं मयि यथा प्रीयसे च तथा तेष्वपि प्रीतवान् एतद्यथा जगतो लोका जानन्ति
23तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।
24हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।
25हे यथार्थिक पित र्जगतो लोकैस्त्वय्यज्ञातेपि त्वामहं जाने त्वं मां प्रेरितवान् इतीमे शिष्या जानन्ति।
26यथाहं तेषु तिष्ठामि तथा मयि येन प्रेम्ना प्रेमाकरोस्तत् तेषु तिष्ठति तदर्थं तव नामाहं तान् ज्ञापितवान् पुनरपि ज्ञापयिष्यामि।
Currently Selected:
योहनः 17: SAN-DN
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.