Logo YouVersion
Ikona vyhledávání

यूहन्‍नः 9

9
जन्‍मान्‍धाय दृष्‍टिदानम्‌
1मार्गे येशुः एकं जन्‍मान्‍धं दृष्‍टवान्‌। 2तस्‍य शिष्‍याः येशुं पप्रच्‍छुः, “गुरो! जन्‍मान्‍ध एषः अस्‍ति,। किम्‌ अनेन पापं कृतम्‌, पितृभ्‍याम्‌ अस्‍य वा कृतम्‌?” 3येशुः तान्‌ प्रत्‍युवाच, “अयं पापस्‍य कारणात्‌ अन्‍धः न अस्‍ति, अस्‍य जन्‍मान्‍धतायास्‍तु कारणं वर्तते अस्‍य नैरुज्‍येन परमेश्‍वरस्‍य सामर्थ्‍यः प्रकटीभवेत्‌। 4येन अहं प्रेषितोऽस्‍मि तेन निर्धारिताः क्रियाः, सर्वाणि कार्याणि मया सूर्यास्‍तस्‍य पूर्वमेव कर्तव्‍यानि, रात्रिः एति यदा कश्‍चित्‌ कार्यं कर्तुम्‌ न शक्ष्‍यति। 5यावत्‌ अहं जगति वर्ते, अहं जगतः ज्‍योतिः अस्‍मि।”
6एवम्‌ उक्‍त्‍वा येशुः भूमौ अष्‍ठीवत्‌ पड्‌.कं निर्माय तेन 7असौ ष्‍ठीवेन अन्‍धस्‍य चक्षुषी लिप्‍त्‍वा तम्‌ अन्‍धं प्रोवाच, “शीलोहस्‍य सरसि याहि, तत्र स्‍नानं कुरु।” सीलोहस्‍य अर्थः वर्तते, “प्रेषितः।” सः अन्‍धः तत्र गत्‍वा स्‍नात्‍वा तत्रतः पश्‍यमानः प्रत्‍यावर्तत्‌।
8तस्‍य प्रतिवेशिनः तथा वहवः आसन्‍नस्‍थिताः जनाः, ये तम्‌ अन्‍धं भिक्षाटने रतम्‌ अपश्‍यन्‌, ते मिथः पृष्‍टवन्‍तः किं न अयम्‌ एषः जनः, यः अत्र उपविश्‍य सदा भिक्षां याचमानः व्‍यलोक्‍यत? 9अन्‍ये अवदन्‌, स एव अयम्‌, अपरे तत्‍सदृशो हि अयम्‌, इत्‍येवं भाषमाणान्‌ तान्‌ सः अब्रवीत्‌ “अहमेव सः।” 10ततः ते पर्यपृच्‍छन्‌ सः कथं दृष्‍टिम्‌ आप्‍तवान्‌? 11सः प्रत्‍युवाच, कश्‍चन पुरुषः, यः येशुः कथ्‍यते, मम उभे नेत्रे पड्‌.केन लिप्‍त्‍वा मां प्राह, शीलोहं गत्‍वा, स्‍नानं कुरु। अहं गत्‍वा, स्‍नात्‍वा च दृष्‍टिम्‌ प्राप्‍तवान्‌। 12ते तदा अपृच्‍छन्‌, “सः येशुः कुत्र वर्तते।” सः प्रत्‍युतरत्‌ “अहं न जानामि।”
फरीसिभिः कृता परीक्षा
13ततः जनाः तं पूर्वान्‍धं नीत्‍वा फरीसिनः उपेयुः। 14यस्‍मिन्‌ दिने येशुः तत्‌ लोचनद्वये पड्‌कं कृत्‍वा जन्‍मान्‍धाय दृष्‍टिम्‌ प्रदत्तवान्‌, तत्‌ विश्रामस्‍य वासरम्‌ आसीत्‌। 15फरीसिनः तम्‌ इदमपि अपृच्‍छन्‌, “कथम्‌ त्‍वया दृष्‍टिः लब्‍धा?” सः पूर्वान्‍धः दृष्‍टिप्राप्‍तस्‍य वृतान्‍तः यथावत्‌ तान्‌ अश्रावयत्‌। 16एतत्‌ वृत्तं श्रुत्‍वा केचित्‌ फरीसिनः अब्रुवत, “अयं मनुष्‍यः परमेश्‍वरेण प्रेषितः नास्‍ति; यतः एषः विश्रामदिवसस्‍य नियमान्‌ न अनुपालयति।” केचित्‌ प्रोचुः, “पापी कथम्‌ इदृशम्‌ अद्‌भुत्‌कार्यं कर्तुम्‌ शक्‍नोति?” इत्‍थम्‌ तेषु मतभेदः अभवत्‌। 17ते पुनः पूर्वजन्‍मान्‍धं पृष्‍टवन्‍तः, “येन दृष्‍टिः प्रदत्ता, तमधि त्‍वं किम्‌ ब्रवीषि? सः पूर्वान्‍धः प्रत्‍युवाच, “सः नबी अस्‍ति।”
18धर्मगुरवः सर्वे इदं स्‍वीकर्तुम्‌ उद्‌यताः न आसन्‌, यत्‌ सः प्राक्‌ अन्‍धः आसीत्‌, इदानीं पश्‍यति। अतः तस्‍य पितरौ आहूय पर्यपृच्‍छन्‌, 19“किमयं युवयोः पुत्रः जन्‍मान्‍धः अजायत्‌। यद्येवं तर्हि कस्‍मात्‌ सः द्रष्‍टुम्‌ शक्‍तः अभवत्‌?” 20तस्‍य पितरौ तान्‌ प्रति अवोचताम्‌, “आवयोः एषः पुत्रः अस्‍ति, जन्‍मान्‍धः अयम्‌ अजायत्‌। 21अकस्‍मात्‌ कस्‍मात्‌ द्रष्‍टुं शक्‍तः अभवत्‌, आवां न जानीवहे। अधुना एषः वयः प्राप्‍तः अस्‍ति, अतः एनं हि पृच्‍छत। स्‍वीयां कथां अयमेव स्‍वयं युष्‍मान्‌ कथयिष्‍यति।” 22तस्‍य पितरौ धर्मगुरुभ्‍यः भयात्‌ इदम्‌ ऊचतु। धर्मगुरवः पूर्वम्‌ एव कथितवन्‍तः कश्‍चित्‌ नरः चेत्‌ येशुं मसीहं मंन्‍स्‍यते, सः सभागृहात्‌ बहिष्‍कृतः करिष्‍यते। 23अतएव तस्‍य पितरौ अवदताम्‌, “अयं वयस्‍कः, सः एव कथयिष्‍यति।”
24ततो फरीसिनः सर्वे तं पूर्वान्‍धम्‌ आहूय तम्‌ परमेश्‍वरेण शप्‍त्‍वा ईदृशम्‌ ऊचिरे, “वयं जानीमः सः मनुष्‍यः पापी वर्तते।” 25पूर्वान्‍धः तान्‌ प्रत्‍युवाच, “असौ पापात्‍मा नरः वर्तते न वा, अहम्‌ एतत्‌ न जानामि। अहं इदमेव जानामि, यत्‌ पूर्वम्‌ अहम्‌ अन्‍धः आस्‍म, अधुना पश्‍यामि’’। 26ते तं पुनः पृष्‍टवन्‍तः “तेन त्‍वां प्रति किं कृतम्‌? कथं च तव अक्षिणी अन्‍धे सुस्‍वस्‍थे अनुष्‍ठिते अधुना। 27सः पूर्वान्‍धः प्रत्‍युवाच, “मया पुरा सर्वम्‌ प्रोक्‍तम्‌। किन्‍तु युष्‍माभिः न श्रुतम्‌, पुनः किं श्रोतुम्‌ इच्‍छथ। किं यूयमपि तस्‍य शिष्‍याः भवितुम्‌ इच्‍छथ?” 28ते तं शपित्‍वा, पुनरेवं बभाषिरे, “त्‍वम्‌ एव तस्‍य शिष्‍यः भव, वयं खलु मूसाशिष्‍याः स्‍मः। 29वयं जानीमः यत्‌ मूसाः प्रभुना सह अलपत्‌, किन्‍तु एतद्‌ न विजानीमः असौ पुरुषः कुतः आयातः अस्‍ति।”
30पूर्वान्‍धः प्रत्‍योवचत्‌, “इदम्‌ एव आश्‍चर्यम्‌, यत्‌ तेन मे अक्षिणी दत्ते, युष्‍माभिः न ज्ञायते यत्‌ असौ कुतः समुत्‍पन्‍नः?
31वयम्‌ च एतद्‌ विजानीमः परमेश्‍वरः पापिनाम्‌ न शृणोति। किन्‍तु ये तस्‍य भक्‍ताः, तस्‍य इच्‍छाम्‌ अनुवर्तन्‍ते, तेषाम्‌ एवं सः शृणोति। 32न कदापि श्रुतं पूर्वम्‌ जन्‍मान्‍धः दृष्‍टिम्‌ आप्‍तवान्‌। 33यदि सः मनुष्‍यः परमेश्‍वरात्‌ प्रेषितः न अभविष्‍यत्‌, तदा सः इदं कर्तुम्‌ समर्थं न अभविष्‍यत्‌।” 34तेः तम्‌ अब्रुवन्‌ “त्‍वं पापी पापसंभवः, अस्‍मान्‌ शिक्षयसि इत्‍युक्‍त्‍वा तं बहिः निष्‍कासयन्‌।
आत्‍मिकी अन्‍धता
35येशुः एतत्‌ समाकर्ण्‍य यत्‌ यहूदिनः तं बहिः अकुर्वन्‌, तं नरं द्रष्‍टुम्‌ आयातः तथा तम्‌ इदम्‌ प्रोक्‍तवान्‌, “किम्‌ त्‍वं मानवपुत्रे विश्‍वासं विदधासि?” 36सः अब्रवीत्‌, मां ब्रूहि, कः सः, यत्‌ तस्‍मिन्‌ अहम्‌ विश्‍वसानि? 37येशुः तं प्रत्‍युवाच, “सः त्‍वया प्रत्‍यक्षीकृतः, यः त्‍वया सह संलापे स्‍थितः सोऽस्‍ति।” 38सः भूमौ दण्‍डवद्‌ निपत्‍य येशुम्‌ आह, “प्रभो! अहं त्‍वयि विश्‍वासं कुर्वे।”
39येशुः तदा अब्रवीत्‌, “अहं जनान्‌ पृथक्‌ कर्तुम्‌ अस्‍मिन्‌ संसारे आगतः अस्‍मि येन इदं संभवेत्‌ यत्‌ अन्‍धाः ये सन्‍ति ते द्रष्‍टुं शक्‍ताः स्‍युः। ये नराः पश्‍यन्‍ति, ते दृष्‍टिहीनाः भवेयुः। 40एतत्‌ श्रुत्‍वा फरीसिनः अब्रुवन्‌, “किं वयम्‌ अपि अन्‍धाः स्‍मः।” 41येशुः तान्‌ अब्रवीत्‌, “यदि यूयम्‌ अन्‍धाः अभविष्‍यत तर्हि यूयं पापेन आक्रान्‍ताः न अभविष्‍यत। परन्‍तु यूयं पापेन समाक्रान्‍ताः यतः “वयम्‌ पश्‍यामः” इति युष्‍माभिः निगद्‌यते।”

Zvýraznění

Sdílet

Kopírovat

None

Chceš mít své zvýrazněné verše uložené na všech zařízeních? Zaregistruj se nebo se přihlas