यूहन्‍नः 8

8
व्‍यभिचारीनारयाः उद्धारः
1परन्‍तु येशुः जैतूनपर्वतम्‌ गतवान्‌। 2महति एव प्रत्‍यूषे असौ पुनः मन्‍दिरम्‌ आगतवान्‌। सर्वे जनाः तस्‍य अन्‍तिकम्‌ समाजग्‍मुः, येशुः तान्‌ उपदिशति स्‍म। 3तदानीं शास्‍त्रिणः फरीसिनश्‍च व्‍यभिचारे धृतां कात्र्चित्‌ नारीम्‌ आनीय, सभामध्‍ये तां स्‍थापयित्‍वा, 4येशुम्‌ ऊदुः, “एषा स्‍त्री अस्‍माभिः व्‍यभिचाररता धृता। 5व्‍यवस्‍थायां तु इदृशीनाम्‌ नारीणाम्‌ कृते मूसाः प्रस्‍तरघातेन प्राणदण्‍डम्‌ आदिष्‍टवान्‌ अस्‍ति। भवान्‌ किमत्र वदति?” 6ते येशुम्‌ परीक्षितुम्‌ इच्‍छन्‍तः, तस्‍य विरुद्‌धं कम्‌ अपि दोषस्‍य आधारम्‌ उपर्जितुम्‌ इत्‍थम्‌ अवदन्‌, येशुः तु अवनतः भूत्‍वा अड्‌.गुल्‍या भुवि लिखन्‌ आसीत्‌। 7शिरः ऊर्ध्‍वं कृत्‍वा तान्‌ अब्रवीत्‌, “युष्‍मासु यो निष्‍पापः अस्‍ति, सः पूर्वम्‌ प्रस्‍तरं क्षिपेत्‌।” 8एतद्‌ उक्‍त्‍वा तथैव भूमौ लिखन्‌ आसीत्‌। 9तत्‌ श्रुत्‍वा सर्वे एकैकशः सभागृहात्‌ निर्गच्‍छन्‌। येशुः तत्र एकाकी एव अतिष्‍ठत्‌। सा नारी अपि तस्‍य सम्‍मुखे अतिष्‍ठत्‌। 10ततः उर्ध्‍वं शिरः कृत्‍वा येशुः नारीम्‌ अभाषत, “हे नारि! ते जनाः कुत्र सन्‍ति? किम्‌ एकेन अपि त्‍वम्‌ न दंडिता?” 11सा अवदत्‌, “प्रभो! केनापि न दंडिता।” येशु ताम्‌ अवदत्‌, “अहमपि त्‍वां न दण्‍डयिष्‍यामि। गच्‍छ, अतः परम्‌ त्‍वया पापम्‌ न कर्तव्‍यम्‌।”
संसारस्‍य ज्‍योतिः
12येशुः पुनः तान्‌ जगाद, “अहमेव संसारस्‍य ज्‍योतिः अस्‍मि। यः मम अनुसरति, सः अन्‍धकारे न भ्रमति। असौ नरः जीवनस्‍य ज्‍योतिं लप्‍स्‍यते।”
13फरीसिनः तम्‌ अब्रुवत, “त्‍वया स्‍वार्थं साक्ष्‍यं दीयते, अतः साक्ष्‍यं न एव मान्‍यं भविष्‍यति।” येशुः तान्‌ प्रत्‍युवाच, 14“अहं स्‍व विषये साक्ष्‍यं ददामि, तथापि मम साक्ष्‍यं सर्वमान्‍यं वर्तते, यतः अहं जानामि, यत्‌ अहं कस्‍मात्‌ आगतः अस्‍मि, कुत्र गच्‍छामि। परन्‍तु यूयं न जानीथ, यत्‌ कुतो अहम्‌ आयातः, कुत्र च व्रजन्‌ अस्‍मि। 15यूयं मनुष्‍यस्‍य दृष्‍टया न्‍यायं कुरुथ। अहं कस्‍यापि न्‍यायं न करोमि, 16न्‍यायं करोमि चेत्‌, मम निर्णयः सत्‍यः भविष्‍यति; यतः अहम्‌ एकाकी नास्‍मि। यः मां प्रेषितवान्‌; सः मया सह विद्‌यते। 17युष्‍माकं व्‍यवस्‍थायां लिखितमस्‍ति यत्‌ जनद्वयकृतं साक्ष्‍यं सर्वमान्‍यं भवति। 18अहं स्‍व विषये साक्ष्‍यं ददामि, पिता अपि, यः माम्‌ अप्रेषयत्‌ मम विषये साक्ष्‍यं ददाति।” 19तदा ते येशुम्‌ पृष्‍टवन्‍तः “कुत्र तव पिता वर्तते?“ येशुः तान्‌ प्रत्‍युतरत्‌, “यूयं न तु मां जानीथ, न मम पितरम्‌। यूयं चेत्‌ माम्‌ अज्ञास्‍यत तर्हि अवश्‍यं मे पितरं च अपि अज्ञास्‍यत।
20येशुः मन्‍दिरे उपदिशन्‌ एतत्‌ सर्वम्‌ कोषागारे उवाच। कोऽपि जनः तं धर्तुम्‌ न प्रववृते, यतः तदानीं यावत्‌ तस्‍य समयः न आगतः।
अविश्‍वासिधर्मगुरुणां कृते प्रबोधवचनम्‌
21येशुः पुनः सर्वान्‌ जनान्‌ एवम्‌ अभाषत, “अहं गच्‍छन्‌ अस्‍मि। यूयं मां अन्‍वेषिष्‍यथ, परन्‍तु पापस्‍य स्‍थितौ एव मरिष्‍यथ। अहं यत्र गच्‍छामि, तत्र यूयं न यास्‍यथ।” 22येशोः वाक्‍यं श्रुत्‍वा यहूदीधर्मगुरवः मिथः अब्रुवन्‌, किम्‌ एषः आत्‍मनः हत्‍यां करिष्‍यति? अत एव एषः ब्रवीति - “अहं यत्‌ स्‍थानं गच्‍छामि तत्र यूयं न यास्‍यथ।” 23येशुः तान्‌ अब्रवीत्‌, “यूयम्‌ अधस्‍य स्‍थ अहम्‌ ऊर्ध्‍वस्‍य अस्‍मि। यूयम्‌ अस्‍य संसारस्‍य स्‍थ, अहम्‌ अस्‍य संसारस्‍य नाऽस्‍मि। 24अतएव मया कथितम्‌ “यूयं पापस्‍य स्‍थितौ मरिष्‍यथ।” 25तदा जनाः तम्‌ पृष्‍टवन्‍तः “कस्‍त्‍वम्‌ वर्तते।” येशुः तान्‌ प्रत्‍युवाच, 26“अस्‍मिन्‌ विषये युष्‍मान्‌ किं कथयामि, अहम्‌ अनकेषु वचनेषु युष्‍मान्‌ दोषिणः कर्तुम्‌ शक्‍नोमि। परन्‍तु संसारं तत्‌ एव कथयामि, यत्‌ मया तस्‍य मुखात्‌ श्रुतम्‌। यत्‌ यः माम्‌ प्रेषितवान्‌, सः सत्‍यः वर्तते।”
27स्‍वपितुः विषये येशुः यत्‌ अवदत्‌, ते न जज्ञिरे। 28अतः तेषां प्रबोधनाय सः पुनः एवम्‌ उवाच, “युष्‍माभिः यदा मानवपुत्रः उत्‍थापयिष्‍यति, तदा ज्ञास्‍यथ यत्‌ अहं सः अस्‍मि, स्‍वतश्‍च कित्र्चिद्‌ न करोमि। पित्रा यथादिष्‍टोऽस्‍मि तथैव कथयामि च। 29येन अहं सम्‍प्रेषितो, असौ मया सह वर्तते, तथा माम्‌ एकाकिनं न परित्‍यक्‍तवान्‌। यतो तस्‍मै यद्‌ रोचते तत्‌ एव अहं करोमि।” 30एवं भाषमाणः तस्‍मिन्‌ वहवः विश्‍वासं चक्रिरे।
सत्‍यं युष्‍मान्‌ स्‍वतंत्रान्‌ करिष्‍यति
31ये यहूदिनः तस्‍मिन्‌ विश्‍वासं चक्रिरे, तान्‌ असौ उवाच, “यूयं यदि मम वचने सुस्‍थिराः वर्तध्‍वे, तदा ध्रुवम्‌ मे शिष्‍याः सेत्‍स्‍यथ। 32सत्‍यं ज्ञास्‍यथ, सत्‍यं च युष्‍मान्‌ स्‍वाधीनान्‌ करिष्‍यति।” 33ते तम्‌ ऊदुः “वयम्‌ अब्राहमस्‍य सन्‍तानाः स्‍म, कस्‍यापि दासत्‍वं नैव संश्रिताः स्‍म, तत्‌ कथं भवता प्रोक्‍तम्‌ यूयं स्‍वाधीनाः सम्‍भविष्‍यथ?” 34येशुः तान्‌ प्रत्‍युवाच, “अहं युष्‍मान्‌ ब्रवीमि, यः पापं विधत्ते, असौ पापस्‍य दासः वर्तते। 35दासः सदैव गृहे न तिष्‍ठति, पुत्रस्‍तु तिष्‍ठति। 36अतएव यदि पुत्रः युष्‍मान्‌ मुक्‍तान्‌ विदधाति, यूयं वस्‍तुतः स्‍वधीनाः भविष्‍यथ।
37अहं जानामि यत्‌ यूयं सर्वे अब्राहमस्‍य कुलस्‍य उद्‌भवाः, तथापि मां हन्‍तुं स्‍थिरनिश्‍चयाः वर्तध्‍वे, यतः मम शिक्षा युष्‍माकं हृदये स्‍थानं नाप्‍नोत्‌। 38अहं पितुः पार्श्‍वे यत्‌ ददर्श तदेव युष्‍मान्‌ वदामि। यूयं स्‍वपितुः पार्श्‍वे यद्‌ दृष्‍टम्‌ तत कुरुथ।” 39तदा ते ऊदुः, “अब्राहमः अस्‍माकं पिता अस्‍ति।” येशुः तान्‌ उवाच, “अब्राहमस्‍य यूयं चेत्‌ सन्‍तानाः अभविष्‍यत, अब्राहमस्‍य इवाचारान्‌ यूयमपि अकरिष्‍यध्‍वम्‌। 40यूयं तु इदानीं मां हन्‍तुं, कृतोद्यमाः, यतः अहं युष्‍मान्‌ सत्‍यं वच्‍मि यत्‌ प्रभोः मुखतः श्रुतम्‌ तत्‌ सर्वे युष्‍मान्‌ अश्रावयम्‌। इदम्‌ आचरणम्‌ अब्राहमसदृशम्‌ नास्‍ति। 41युष्‍माभिः युष्‍मत्‍पितुः सर्वाः क्रियाः विधीयन्‍ते।” ते येशुम्‌ ऊदुः “वयं व्‍यभिचारात्‌ न उत्‍पन्‍नाः स्‍मः। अस्‍माकम्‌ एकः एव पिता परमेश्‍वरः वर्तते।”
42येशुः यहूदिनः उवाच, “युष्‍माकं चेत्‌ पितेश्‍वरः अभिवष्‍यत्‌ तदा यूयम्‌ मयि अपि प्रेमाकरिष्‍यत, यतः अहम्‌ परमेश्‍वरात्‌ एव निर्गतः आगतश्‍च अस्‍मि। अहं स्‍वतः न समायातः, तेनैव प्रेषितः अस्‍मि। 43यूयं मदीयवचनं किमर्थं न अवगच्‍छथ। यतः मया दत्तां शिक्षां यूयं श्रोतुम्‌ न शक्‍नुथ।
44यूयं युष्‍मत्‍पितुः अपदूतस्‍य वंशजाः, तस्‍यैव अभिलाषां पूर्णकर्तुम्‌ उत्‍सुकाः स्‍थ। सः तु प्रारंभात्‌ एव मम घातकः आसीत्‌। सः कदापि सत्‍येन सह न आसीत्‌, यतः तस्‍मिन्‌ सत्‍यम्‌ नास्‍ति। यदा सः स्‍वयम्‌ असत्‍यं वदति, तदा स्‍व स्‍वभावात्‌ भाषते, यतः सः मिथ्‍यावादी वर्तते, असत्‍यस्‍य पिता वर्तते च। 45अहं सत्‍यं वदामि, अतएव यूयं मयि विश्‍वासं न कुरुथ। 46अहं पापी अस्‍मि, युष्‍मासु कः प्रमाणं दास्‍यति? अहं सत्‍यं वदामि चेत्‌, तर्हि यूयं कथं मयि विश्‍वासं न कुरुथ? 47यः परमेश्‍वरस्‍य, सः परमेश्‍वरस्‍य सन्‍देशं शृणोति। यूयं न शृणुथ यतः यूयम्‌ परमेश्‍वरस्‍य सन्‍तानाः न स्‍थ।”
येशुः अब्राहमश्‍च
48यहूदीधर्मगुरवः येशुम्‌ अब्रूवत, वयं ब्रूमः, त्‍वं सामरी तथा भूताविष्‍टः असि। 49येशुः तान्‌ प्रत्‍युवाच, “भूताविष्‍टः नाहम्‌ अस्‍मि अहं स्‍वपितरं सम्‍मानयामि। यूयं तु मम अवमाननां कुरुथ। 50न अहं सम्‍मानस्‍य अन्‍वेषी अस्‍मि। तस्‍य अन्‍वेषी तु कश्‍चन, सः एव निर्णयं करोति। 51अहं युष्‍मान्‌ ब्रवीमि, यदि कश्‍चित्‌ जनः मे शिक्षायां श्रदधाति, सः कदापि न मरिष्‍यति।”
52धर्मगुरवः अब्रुवत, इदानीम्‌ अस्‍माकं विश्‍वासः दृढः जातः यत्‌ भवान्‌ भूताविष्‍टः। अब्राहमः तथा सर्वे नबिनः मम्रुः, परन्‍तु त्‍वं भाषसे - “यः मद्‌वाचि श्रद्‌धाति, असौ मृत्‍युम्‌ न अवाप्‍स्‍यति।” 53किं त्‍वं महत्तरः अस्‍माकं पितुः अब्राहमात्‌ अपि? असौ ममार, नबिनः चापि सर्वे दिवं ययुः। त्‍वम्‌ स्‍वं किम्‌ मन्‍यसे?”
54येशुः तान्‌ अब्रवीत्‌, “चेत्‌ स्‍वयम्‌ अहम्‌ स्‍वं सम्‍मानयामि, तर्हि तस्‍य सम्‍मानस्‍य किंचित्‌ महत्‍वं न विद्‌यते। मम पिता मम सम्‍मानं कुरुते। यूयं तम्‌ परमेश्‍वरं भाषध्‍वे, 55यद्यपि तं न जानीथ, परन्‍तु अहं तं जानामि। अहं तु युष्‍मान्‌ चेत्‌, ब्रवीमि, अहं परमेश्‍वरं न जानामि - तर्हि युष्‍मादृशः अहं मिथ्‍यावादी स्‍याम्‌। परन्‍तु अहं तं जानामि, तस्‍य शिक्षायां चलामि। 56युष्‍मत्‍पिता अब्राहमः मम शुभम्‌ आगमनं दिदृक्षुः मुमुदे, तं च दृष्‍ट्‌वा असौ परां प्रीतिम्‌ उपागमत्‌।”
57धर्मगुरवः प्राहुः, “इदानीम्‌ अपि तव वयः पंचाशतवर्षम्‌ अपि न अस्‍ति, त्‍वया कथम्‌ अब्राहमः दृष्‍टः? 58येशुः तान्‌ पुनः जगाद, “अहं युष्‍मान्‌ ब्रवीमि, अब्राहमजन्‍मतः प्राक्‌ एव अहं वर्ते।” 59एतत्‌ वाक्‍यं श्रुत्‍वा सर्वे जनाः प्रस्‍तरैः येशुम्‌ आहन्‍तुम्‌ उद्‌यताः अभवन्‌, परन्‍तु सः प्रच्‍छन्‍नः तेषां मध्‍यात्‌ मन्‍दिरात्‌ निर्जगाम।

Markering

Del

Kopiér

None

Vil du have dine markeringer gemt på tværs af alle dine enheder? Tilmeld dig eller log ind

Video til यूहन्‍नः 8

YouVersion bruger cookies til at personliggøre din oplevelse. Når du bruger vores hjemmeside, accepterer du vores brug af cookies som beskrevet i vores privatlivspolitik