लूका 11
11
आदर्श प्रार्थना
(मत्ती 6:9-13)
1एकस्मिन् दिवसे येशुः प्रार्थनां कुर्वन् आसीत्। प्रार्थनायाः समाप्तौ तस्य कश्चित् शिष्यः तम् उवाच, “प्रभो! अस्मान् सर्वान् प्रार्थनायाः विधिं शिक्षय, यथा योहनः स्वकान् शिष्यान् अशिक्षयत्।” 2येशुः तम् उवाच, इत्थं प्रार्थय -
“हे पितः! ते पवित्रं नाम पूज्येत्।
ते राज्यम् आयातु।
ते सदच्छिा पृथिव्याम् अपि स्यात्
यथा स्वर्गराज्ये वर्तते।
3अस्मभ्यम् प्रतिदिनस्य आहारम् ददातु।
4अस्माकम् अपराधान् क्षाम्येत्,
यथा वयम् अपि स्वान् अपराधिनः क्षाम्यामः
परीक्षायाम् अस्मान् न पातयतु।”
आग्रहपूर्णा प्रार्थना
5पुनः येशुः तान् अवदत् - “युष्मासु यदि कश्चन अर्द्धरात्रौ कस्यचित् मित्रस्य गृहं गत्वा वदति, मित्र! त्वं साम्प्रतम् मित्रस्य भक्षणार्थम् तिस्र रोटिकां मे ऋणं देहि, 6यतः यात्रां प्रकुर्वाणं मे मित्रं गृहमागतम् तस्मै तु भोजनं दातुं मद्गृहे कित्र्चन नास्ति। 7एवं श्रुत्वा तस्य मित्रम् गृहाभ्यन्तरसंस्थितः वदिष्यति, साम्प्रतम् न क्लिश्नातु, यतः द्वारम् अर्गलवद्धम्। बालकाश्च मया सार्द्धम् सर्वे शय्यामधिश्रिताः। 8अहं युष्मान् ब्रवीमि - सः मित्रम् अस्ति इति हेतुना यद्यपि उत्थाय दातुं न उद्यतः अस्ति, तथापि सः तस्य आग्रहात् समुत्थाय यावत् तदपेक्षिताः रोटिकाः सन्ति, तावती रोटिकाः तस्मै दास्यते।
प्रार्थनायाः प्रभावः
(मत्ती 7:7-11)
9अहं युष्मान् वदामि - “याचध्वम् प्राप्स्यथ, अन्विष्यत यूयम् आप्स्यथ, द्वारम् आहत, युष्मभ्यं द्वारम् उद्घाटयिष्यते। 10यतः यः याचते, तस्मै दीयते यः च अन्विष्यति तस्मै प्राप्यते, यः कश्चिद् द्वारम् हन्ति, तस्मै तत् उद्घाट्यते।”
11“यदि त्वदीयः पुत्रः त्वां रोटिकां याचते, तदा युष्मासु कः पिता तस्मै प्रस्तरं दास्यति, मीनं याचते वा, तस्मै सर्पम् प्रदास्यति? 12अण्डं वा याचितस्तेन पुत्रेणासौ पिता किम् नु तस्मै वृश्चिकम् दास्यति? 13दुर्जना अपि यूयं, स्वसन्तानेभ्यः स्वभावतः साधूनि वस्तूनि दातुं जानीथ, तथा कथं स्वर्गस्थः पिता याचकेभ्यः पवित्रम् आत्मानं न प्रदास्यति?”
येशुः बेलज़ेबुलश्च
(मत्ती 12:22-30; मर 3:22-27)
14एकदा येशुः एकस्मात् मूकात् अपदूतं बहिः अपसारितवान्। अपदूतेन सः मूकः आसीत्। निष्कासनात् पश्चात् मूकः वक्तुम् प्रचक्रमे। इदं दृष्ट्वा जनाः विस्मिताः जाताः। 15परन्तु तेषु केचित् अवदन्, “असौ अपदूतानाम् नायकस्य बेलजेबुलस्य साहाय्येन अपदूतान् निष्कासयति।”
16केचित् तं परीक्षमाणाः कस्यचित् स्वर्गीयस्य अभिज्ञानविशेषस्य प्रदर्शनम् अयाचन्त। 17येशुः तेषाम् अभिप्रायं ज्ञात्वा तान् इदम् अब्रवीत्, “यत् राज्यं समूहे भिनक्ति, तत् समूलं विनश्यति। 18यदि शैतानस्य राज्यं समूहे भिनक्ति, तदा तस्य राज्यं कथं स्थायी भवेत्? 19यूयं वदथ यदहं बेलजे़बुलस्य शक्त्या अपदूतान् निःसारयामि, युष्माकं वंशजाः कस्य शक्त्या तान् निःसारयन्ति? अतः ते युष्माकं न्यायं करिष्यन्ति। 20परन्तु प्रभोः शक्त्या अपदूतान् निःसारयामि चेत्, नूनं युष्मत्समीपं प्रभोः राज्यम् उपस्थितम्।
21“यदि कश्चित् बलवान् अस्त्रसंयुतः स्वगेहस्य रक्षणे तत्परः तस्य सम्पत्तिः रक्षिता। 22परन्तु कश्चित् अपरः ततोऽपि बलवत्तरः बलादाक्रम्य युद्ध्वा यदि तं पराजयते, तदा स तस्य विश्वासस्थानम् अस्त्रादिकं ग्रहीष्यते, धनं चापि सर्वम् हृत्वा विभक्ष्यति।
23“यः मया सह नास्ति, असौ मम विरोधी, यश्च मया साकं नास्ति संचये, असौ वितरति।”
अशुद्धात्मनः आक्रमणम्
(मत्ती 12:43-45)
24“यदा कश्चित् अशुद्धात्मा मानवात् निःसरति, असौ पर्यटन् निर्जनस्थाने विश्रामं लब्धुम् ईहते। विश्रामस्थानं न लब्ध्वा वदति, “पुनः तदेव स्व गेहं गच्छामि, यस्मात् निर्गतः अहम्।” 25प्रत्यागत्य तद्गेहं मार्जितम् सज्जितम् च दृष्ट्वा, 26असौ गत्वा स्वतोऽपि बलवत्तरान् सप्त दुष्टतरान् अपदूतान् आनयति। सर्वे तस्मिन् गृहे प्रविश्य निवसन्ति। एतेन तस्य मनुष्यस्य वर्तमाना दशा पूर्वस्या अपि अवस्थायाः अधिका निकृष्टा जायते।”
वास्तविकं सुखम्
27येशुः एवं भाषमाणः एव आसीत्, जनमध्यात् काचन स्त्री उच्चैः इदं वचः अब्रवीत्, “धन्यः अस्ति सः गर्भः, यः भवन्तम् अधारयत्। धन्यं स्तनद्वयम् ययोः दुग्धं भवान् पीतवान्।” 28येशुः ताम् उवाच, “साधु ! किन्तु ततोऽधिकाः धन्यास्ते ये प्रभोः वाक्यं शृण्वन्ति पालयन्ति च।”
नबिनः योनः अभिज्ञानम्
(मत्ती 12:38-42; मर 8:12)
29ततः लोकसमूहेषु समागच्छत्सु सर्वतः, येशुः तान् सम्बोध्य वक्तुं प्रचक्रमे, “अयं दुष्टात्मनः वंशः अस्ति। मत्तः अभिज्ञानम् इच्छति। योनः अभिज्ञानात् अन्यत् तस्मै न दास्यते। 30यथा योना नीनवेवासिनां कृते अभिज्ञानं जातः, तथैवायं मानवपुत्रः अपि एतस्य वंशस्य कृते अभिज्ञानं भविष्यति। 31न्यायस्य दिवसे दक्षिणस्य दिशः राज्ञी एतैः जनैः साकं उत्थाय, एतान् दोषीकरिष्यति। यतः सा सुलेमानस्य प्रज्ञावचः श्रोतुं भुवः सीमान्तभागेभ्यः समागता। 32पश्यत अत्र सोऽस्ति यः सुलेमानाद् अपि अवश्यं महत्तरः वर्तते। न्यायस्य दिने सर्वे नीनवेनिवासिनः एतेन वंशेन सह उत्थास्यन्ति तथा एतं वंशं दोषीकरिष्यन्ति। यतः ते योनः वाक्यानि श्रुत्वा पुरा पश्चात्तापम् अकुर्वन्, पश्यत च अत्र सोऽस्ति यः योनः अपि महत्तरः वर्तते!
दीपकस्य दृष्टान्तः
(मत्ती 5:15; 6:22-23; मर 4:21)
33“दीपिकां प्रज्वाल्य लोकाः गुप्तां ताम् न स्थापयन्ति। द्रोणस्य अपि न नीचैः किन्तु तां दीपाधारोपरि, येन तद्गृहान्तः प्रवेशिनः तस्य प्रकाशं पश्यन्तु। 34तव चक्षु देहस्य दीपकः अस्ति। नेत्रे स्वस्थे ते कृत्स्नम् शरीरं प्रकाशवत् अस्ति। तयोः अस्वस्थे सति देहस्ते असौ तमोमयः वर्तते। 35अतः त्वया अप्रमत्तेन वर्तितव्यं, तव अन्तर्ज्योतिः अन्धकारमया न भवेत्। 36यदि त्वदीयदेहः अयं कृत्स्नः दीप्तिमयो अस्ति, न कश्चिदपि तस्य अंशः तिमिरः अस्ति, तदा सः देहः सर्वांगः सुप्रकाशवान् भविष्यति, यथा प्रदीपः स्वया प्रभया त्वां प्रकाशयति।”
फरीसिनाम् शास्त्रिणाम् च भर्त्सना
(मत्ती 23:4-36)
37उपदेशात् परं येशुः केनापि फरीसिना निमन्त्रितः तस्य गृहं तेन साकम् आगतवान्। तद् दृष्ट्वा असौ फरीसी तु विस्मतः जातः यतः येशुः भोजनतः पूर्वम् हस्तौ न प्रक्षालयत्। 38प्रभुः तम् अवदत्, 39“युष्माभिः फरीसिभिः पानपात्रस्य स्थलस्य बहिः शुदि्धः क्रियते। युष्माकम् अन्तः तु लोभेन दुर्वृत्त्या च पूर्णः। 40दुर्बुद्धयः! किम् एकेन बहिरन्तः न निर्मिते। 41युष्माकं यत् अन्तः आस्ते, तस्मात् यथाशक्तिम् दरिद्रेभ्यः दत्त, पश्यत युष्मदर्थम् सर्वम् वस्तु शुद्धं भविष्यति।
42“फरीसिनः धिक् युष्मान्! “यूयं शाकस्य, राशनस्य, दशमांशन्तु प्रयच्छथ, परन्तु न्यायम् परमेश्वरस्य च प्रेम च उपेक्षध्वे। एतदेव समीचीनम् आसीत् युष्मत्कृते, तस्य पूर्त्तिः तु कार्यस्य, न उपेक्षा अपि च अनयोः द्वयोः। 43यूयं समाजगेहेषु श्रेष्ठम् आसनम्, हट्टेषु अभिवादम् इच्छथ, 44अतः धिक्कारम् अर्हथ। यतः यूयं शवागारैः आच्छन्नैः सदृशाः स्थ, ये जनैः नैव दृश्यन्ते, न ज्ञायन्ते तथा अजानन्तः जनाः पादाक्रान्तान् प्रकुर्वन्ति, अतः धिक्कारम् अर्हथ।”
45एवं भाषमाणं तं कश्चित् शास्त्री प्रोवाच, “गुरो! त्वम् एवं व्याहृत्य अस्मान् अपि अपमन्यसे।” 46येशुः प्रत्युवाच, “यूयं शास्त्रिणः जनाः, अन्यान् तु दुर्वहैः भारैः भारिणः कर्तुम् इच्छथ, किन्तु यूयं महाभारेण एकया अंगुल्या अपि तान् स्वयम् न एव स्प्रष्टुं समीहध्वे, 47अतो धिक्कारमर्हथ ! यतः यूयं शवागारान् नबिनां कृते निर्मीथ, युष्माकं पूर्वपुरुषैः पूर्वम् ये हताः। 48इत्थं तानि कुकर्माणि विहितानि स्वपूर्वजैः अनुमोदध्वे, अतः धिक्कारमर्हथ। युष्माकं पूर्वपुरुषाः नबिनां वधं कृतवन्तः। यूयं च नबिनां कृते शवागारान् निर्मिमीध्वे।
49“अतः परमेश्वरस्य प्रज्ञा अपि इदं वचः अकथयत् तान् प्रति, “अहं नबिनः प्रेरितान् च प्रेषयिष्यामि। ते च कांश्चिद् हनिष्यन्ति। तथैव केषुचित् अत्याचारांश्च विधास्यन्ति। 50-51यतः सृष्टेः आरंभात् यत् शोणितं प्रवाहितम्, नबिनां सर्वेषाम् अहाबिलस्य शोणितात्, जकर्याहरक्तं, यावत् यः वेद्याः मन्दिरगर्भस्य अन्तराले हतः, तस्य सर्वस्य पापस्य कर्मणः प्रतिशोधनम् अधुनातनवंश्यानां शिरसि एव पतिष्यति। 52अहं युष्मान् ब्रवीमि एतत् निश्चितं तस्य शोधनम् अधुनातनवंश्यानां विधातव्यं भविष्यति। यूयं शास्त्रिणः ज्ञानस्य कुत्र्जिकाम् अपाहरन्, यूयं नैव प्रविशथ स्वयम्, तथा युष्माभिः सर्वे प्रविविक्षवः निवारिताः, अतः धिक्कारमर्हथ।”
53यदा येशुः गृहात् बहिः अगच्छत् ततः अखिलाः फरीसिनः शास्त्रिणः च व्यग्रीभूय तम् अनुगच्छन्। 54परस्परं मिलित्वा च प्रत्युत्तरम् आकस्मिकम् बहूनां प्रश्नानां तं याचितुम् आरब्धवन्तः।
Valgt i Øjeblikket:
लूका 11: SANSKBSI
Markering
Kopiér
Sammenlign
Del
Vil du have dine markeringer gemt på tværs af alle dine enheder? Tilmeld dig eller log ind
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.