लूका 15
15
मार्गच्युतस्य मेषस्य दृष्टान्तः
(मत्ती 18:12-14)
1येशोः उपदेशवचनं श्रोतुम् शुल्काधिकारिणः पापिनः च तस्य अन्तिकम् आगच्छन्। 2फरीसिनः शास्त्रिणः च असन्तुष्टाः भूत्वा इदम् अवदन् - “एषः पापिनः अनुगृह्णाति, तैः सह खादति अपि।”
3ततः येशुः तान् दृष्टान्तम् इमम् अश्रावयत् - 4“यूयं यदि शतमेषाणां स्वामिनः वर्तध्वे, युष्मासु तर्हि कः तेषु एकस्मिन् मार्गतःच्युते, यः एकोनशतं मेषान् निर्जने परित्यज्य, तम् एकं मार्गभ्रष्टं मेषं यावत् न पश्यति, तावत् तस्य अनुसरणं यत्नतः न करोति? 5तं प्राप्य नितरां प्रीतः स्वस्कन्धे तं निधाय च, 6गृहम् आगत्य स्वान् बन्धून् निकटस्थान् जनान् च आहूय कथयति - मया सह आनन्दत, यतः असौ मार्गभ्रष्टः मेषः पुनः प्राप्तः। 7अतः युष्मान् बव्रीमि - “पश्चात्तापविधायिने एकस्मै पापिने स्वर्गे महान् मोदः अनुभूयते। न तु तादृग्भ्यः एकोनशत धर्मिभ्यः, येषां मनसि पश्चात्तापस्यावश्यकता न अस्ति।
नष्टा मुद्रा
8“अथवा का तादृशी योषित् यस्याः दशमुद्रासु एकस्यामपि नष्टायां, प्रदीपिकाम् प्रज्वाल्य, गृहं संमार्जयन्ती, यत्नेन अन्विष्यन्ती, तावत् न विरमति, यावत् तां नाधिगच्छति? 9तस्याम् प्राप्तायां सा सखीन् प्रतिवेशिनः च आहूय वदति, ‘मया साकं यूयमद्यः प्रहृष्यत आगच्छत, यतः नष्टा मुद्रा मया पुनः प्राप्ता।’ 10अहं युष्मान् ब्रवीमि-तथैव प्रभोः दूताः एकस्मिन् पश्चात्तापिनि पापिनि नन्दन्ति।”
मार्गच्युतः पुत्रः
11येशुः अवदत्, “कस्यचित् मानवस्य द्वौ पुत्रौ आस्ताम्। 12तयोः कनिष्ठः पितरं प्राह-मह्यम् वित्तस्य तमंशं यो मम भागः वर्तते, प्रयच्छ। तत् श्रुत्वा पिता पुत्रयोः मध्ये वित्तं विच्छिदवान्। 13स्वल्पैः एव दिवसैः सः स्वां सम्पत्तिं समादाय दूरदेशम् अगच्छत्। तत्र भोगविलासेषु जीवनं यापयन् स्वल्पेनैव कालेन सर्वम् धनं व्यनाशयत्। 14व्ययीकृते तु सर्वस्वे तत्र अति दारुणम् दुर्भिक्षम् अपतत्, येन तदा सः कष्टम् अन्वभवत्। 15अतः सः तत्प्रदेशस्य कस्यचित् सेवकः अभवत्। स्वामी तं स्वशूकरान् चारयितुं प्रेषयामास। 16सः शूकराणां भोज्यैः स्वोदरं भर्तुम् इच्छति स्म। परन्तु कश्चित् तेभ्यः उद्धृत्य कित्र्चन्नपि न ददाति स्म। 17ततः प्रबोधम् आसाद्य निजमनसि अचिन्तयत्-“मम पितुः गृहे अनेकाः भृत्याः सन्ति। ते सर्वे रोटिकाः प्राप्य सन्तृप्ताः सन्ति। अहं तु अत्र क्षुधाक्रान्तः पीडितोऽस्मि, अधुना म्रिये। 18अहम् अद्य एव उत्थाय पितुः अन्तिकम् यास्यामि, तथा तं वदिष्यामि, हे पितः! त्वं माम् क्षमस्व। परलोकविरुद्धं, भवन्तं प्रति यत् पापकर्म मया कृतम, 19तस्मात् भवतः सुतः न भवामि। त्वं स्ववेतनभृत्येषु माम् अपि अन्यतमं कुरु।” 20एवं निर्धार्य सः गृहं प्रति प्रस्थितः।
तं तु दूरात् विलोक्य तस्य पिता दयान्वितः धावित्वा कण्ठे धृत्वा तं चुम्बितवान्। 21तदा पुत्रः पितरम् अवदत् - “हे पितः ! त्वं माम् क्षमस्व, परलोकविरुद्धं, भवन्तं प्रति च मया यत् पापकर्म कृतम्, तस्मात् भवतः सुतः न अहं भवामि।” 22परन्तु पिता दासान् समादिशत् - सुवस्त्राणि सुन्दरं च अंगुलीमुद्राम्, महार्हौ उपानहौ समानीय, तैः इमम् सज्जीकुरुत। 23हृष्टपुष्टम् गोवत्सम् अस्य स्वागते ह्नन्तु। अस्माभिः सार्द्धम् भुज्जन्तु, आनन्दं च कुर्वन्तु। 24यतो हि मम पुत्रः अयं मृत्वा पुनः जीवितः। चिरात् अयं प्रनष्टः आसीत्, मया अधुना पुनः लब्धः। कुटुम्बैः भृत्यैश्च आनन्देन उत्सवः अमन्यत।
25तस्य ज्येष्ठस्तु क्षेत्रे आसीत्। क्षेत्रात् यदा प्रत्यावृत्य गृहान्तिकम् उपस्थितः, तदा नृत्य- गीतानां शब्दं श्रुत्वा अतिविस्मितवान्। 26एकं दासम् आहूय, अस्य विषये पृष्टवान्। 27भृत्यः तम् अब्रवीत्, भवद्भ्राता दूरदेशात् आगतः अस्ति। तस्य स्वागते इदानीं तव गृहे महान् उत्सवः भवति। तस्य स्वागते एकः हृष्टः गोवत्सः हतः। 28एतत् श्रुत्वा अतिक्रुद्धः स्वकं गेहे न प्रविष्टवान्। तदा पिता बहिः एत्य पुत्रम् प्रसादयत्। 29परन्तु सः पितरम् अवदत्, मया भवतः सेवायाम् एतावन्ति वर्षाणि यापितानि, मया कदापि तव आज्ञा न उल्लंघिता। तथापि भवता छागशावकोऽपि न मे अर्पितः, येन मित्रगणैः सार्द्धम् उत्सवम् अहम् मानयामि! 30परन्तु अयं तु भवतः कदाचारी पुत्रः वेश्यासु सकलं वित्तम् नष्टं कृत्वा समागतः, तस्मिन् आगते भवता पीनः गोवत्सः हतः।” 31तस्य पिता तं प्रत्युवाच - “वत्स! त्वं सततं मया सार्द्धम् वससि। मत्सर्वम् यत् चास्ते तत्तु ते अखिलम्। 32परन्तु एषः आनन्दः उत्सवश्च सर्वथोचितः वर्तते। यतः तवानुजः मृत्वा पुनरुज्जीवितः, अयं चिरात् प्रनष्टः पुनः लब्धः अस्ति।”
Valgt i Øjeblikket:
लूका 15: SANSKBSI
Markering
Kopiér
Sammenlign
Del
Vil du have dine markeringer gemt på tværs af alle dine enheder? Tilmeld dig eller log ind
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.