लूका 18
18
व्यवस्थापकस्य तथा विधवायाः दृष्टान्तः
1सर्वदा प्रार्थना कार्या, त्यक्तव्या उत्साहहीनता। एतत् बोधयितुं येशुः तान् इमं दृष्टान्तम् अश्रावयत् - 2“कस्मिंचित् नगरे कश्चन व्यवस्थापकः आसीत्। सः न प्रभोः बिभेति स्म, न कत्र्चन अगण्यत्। 3तत्रैव काचित् विधवा वसति स्म। सा व्यवस्थापकम् एत्य, प्रतिदिनं प्रार्थयामास, त्वं प्रतिपक्षात् विरुद्धं मह्यम् न्यायं दापय। 4किन्तु तस्याः प्रार्थना तेन दीर्घकालं न संश्रुता। अथासौ व्यवस्थापकः स्वे मनसि एवम् अभाषत, परमेश्वरात् मे भयं नास्ति, मानवस्य तु का कथा, 5किन्तु मां पतिहीनेयं दीना क्लिश्नाति प्रत्यहम् अतो अन्यायं निराकृत्य इमां समुद्धारयामि। नोचेदियं समागत्य भूयः भूयः निरन्तरम् अभ्यर्थयन्ती नितरां मां व्याकुलं करिष्यति।”
6येशुः अवदत् - “शृणुथ सः अधर्मी व्यवस्थापकः किं वदति? 7तर्हि परमेश्वरः किं तस्य ये जनाः वरिताः सन्ति, तदा रात्रिन्दिवं तस्य स्तुतिं कर्तुम् उद्यताः, तेषाम् अभ्यर्थनां श्रुत्वा औदासीन्यं ग्रहीष्यति? 8अहं ब्रवीमि सः तेभ्यः शीघ्रं न्यायं विधास्यति। किन्तु मानवपुत्रः यदा भूमिम् एष्यति, किं तदा सोऽत्र विश्वासमवशिष्टमवाप्स्यति?”
फरीसिनः शुल्कसंग्रहकस्य च दृष्टान्तः
9केचित् आत्मविश्वासेन सह आत्मानम् धर्मिणः अमन्यन्त, अपरान् अधर्मिणः। तादृशान् मानवान् येशुः इत्थम् उदाहरत् - 10“द्वौ नरौ प्रार्थनां कर्तुम् मन्दिरं जग्मतुः। एकः फरीसी आसीत्, अपरः शुल्कग्राहकः। 11फरीसी तु समुत्थाय स्वमनसि प्रार्थनाम् अकरोत्, हे प्रभो! तुभ्यं धन्यवादान् अहं ददामि। यतोऽहं नान्यैः सदृशः परस्वापहारी, अन्यायी, व्यभिचारी अस्मि, नाप्यहम् अनेन शुल्क-संग्राहकेण सदृशः अस्मि। 12अहं सप्ताहे द्विवारम् उपवासं करोमि। कृत्स्नस्य आयस्य दशमांशं ददामि। 13शुल्कदायी ततः कित्र्चित् दूरम् अवस्थितः उर्ध्वम् स्वर्गम् प्रति द्रष्टुं साहसं नाकरोत्। केवलं स्वोरः ताडयन् वदति स्म, हे प्रभो! मयि पापिनि त्वं दयस्व। 14ततः असौ पापमुक्तः सानन्दः स्वं गृहं ययौ। यतो यः आत्मानं सर्वेषां गुरुम् मन्यते, सः अस्मिन् लोके लघुः विधीयते। किन्तु यः आत्मानं लघिष्ठं मन्यते सः अस्मिन् लोके गरिष्ठत्वेन गण्यते।”
शिशुभ्यः येशोः आर्शीवादः
(मत्ती 19:13-15; मर 10:13-16)
15जनाः स्वान् शिशून् येशोः समीपे आनयन्ति स्म, प्रत्ययात् सः तान् स्वहस्तस्य संस्पर्शेन अनुकम्पेत। शिष्याः तु तद् दृष्ट्वा तान् अभर्त्सयन्। 16किन्तु येशुः बालकान् समाहूय अवदत् च, “शिशवः ये मत्समीपं समायातुं समुत्सुकाः तेभ्यः अवरोधं मा कुरुत। यतः प्रभोः राज्यम् ईदृशानां बालकसदृशानां जनानाम् अस्ति। 17अहं ब्रवीमि यः कश्चन् शिशोः यथा, प्रभोः राज्यं न गृह्णाति, असौ तत्र न वेक्ष्यति।”
धनवान् युवा
(मत्ती 19:16-22; मर 10:17-25)
18कश्चित् अभिजातः येशुम् अपृच्छत्, “सद्गुरो! मया अनन्तजीवनं प्राप्तुं किं कर्तव्यम्?” 19येशुः तमुवाच, “मां भद्रं कथम् भाषसे? केवलः परमेश्वरः भद्रः वर्तते। 20त्वं प्रभोः आज्ञाः जानासि, व्यभिचारम्, हत्याम्, चौर्यं, मृषा साक्ष्यं तु यत् सर्वमेतत् परित्यज्य, मातरं पितरं च मन्यस्व।” 21सः अब्रवीत्, “एतत् सर्वम् मया बाल्यात् सुपालितम्।” 22एतत् श्रुत्वा येशुः प्रत्युवाच, “एका तु न्यूनता त्वयि वर्तते। स्वं सर्वस्वं विक्रीय दरिद्रेभ्यः देहि। तथा कृते त्वदर्थम् तत् स्वर्गे रक्षितम् स्थास्यति। ततः परं समागत्य माम् अनुयाहि।” 23तत् श्रुत्वा सः अतिखिन्नः अभूत् यतः सः महाधनी आसीत्।
धनेन संकटम्
(मत्ती 19:23-26; मर 10:23-27)
24येशुः तम् अतिशोकार्त्तम् दृष्ट्वा अब्रवीत्, “धनिकानां प्रभोः राज्ये प्रवेशः कियत् दुष्करः अस्ति। 25सूचीच्छिद्रेण उष्ट्रस्य निर्गमः सुसाध्यः वर्तते, किन्तु धनिकानां प्रभोः राज्ये प्रवेशः तु अति दुष्करः वर्तते।” 26श्रोतारः तदा तम् अपृच्छन्, “तर्हि को मुक्तिम् आप्स्यति?” 27येशुः तान् प्रत्युवाच, “मनुष्याणां कृते यत् तु संभवं न वर्तते, परमेश्वरस्य कृते तत् सर्वम् संभवं वर्तते।”
स्वैच्छिकी निर्धनता
(मत्ती 19:27-29; मर 10:28-30)
28तदा पतरसः प्रोक्तवान्, “वयं सर्वम् विहाय भवन्तम् अनुगच्छामः।” 29येशुना कथितम्, “अहं युष्मान् ब्रवीमि, न कश्चित् तादृशः जनः, यस्तु प्रभोः राज्यं प्राप्तुं, गृहं पत्नीं च बान्धवान्, जनकौ, पुत्रपौत्रान् च त्यक्त्वान्, 30तेभ्यः अधिकम् अस्मिन् लोके, स्वर्गे चानन्तजीवनम् न लप्स्यते।”
दुःखभोगस्य तृतीया भविष्यवाणी
(मत्ती 20:17-19; मर 10:32-34)
31ततः द्वादशशिष्यान् पृथगाहूय येशुः कथितवान्, “पश्यत, वयं येरुसलेमं गच्छामः। मानवपुत्रसम्बन्धे नबिभिः यत् किंचित् लिखितं, तत् तु सर्वम् परिपूर्णम् भविष्यति। 32असौ अन्यजातीनाम् अधीनः विधास्यते। ते तस्य तिरस्कारं उपहासं च करिष्यन्ति। 33ते तस्मिन् निष्ठीवन्तः, कशाभिः समाध्नन्तः तं हनिष्यन्ति। तृतीये तु दिवसे सः पुनरुज्जीवितः भविष्यति।” 34किन्तु द्वादशशिष्यैः तस्य वचः न कित्र्चन् ज्ञातम्। यतः एतेषां शब्दानाम् अर्थः तेभ्यः तिरोहितः आसीत्। अतः ते ज्ञातुम् न अशक्नुवन्।
अन्धजनाय दृष्टिदानम्
(मत्ती 20:29-34; मर 10:46-52)
35यदा असौ येरीहोनगरं निकषा समुपस्थितः, एकम् अन्धं पथः पार्श्वे भिक्षमाणं व्यलोकयत्। 36अन्धः, जनसमूहस्य स्वसान्निध्यात् गच्छन्तं शब्दम् आकर्ण्य पृष्टवान् किं भूतमिति। 37लोकाः तम् अब्रूवन्, येशुः नासरी गच्छन् अस्ति। 38ततः सः क्रोशन् अवदत्, “हे येशो! दाऊदात्मज! मयि दयस्व।” 39अग्रगामिनः तं तूष्णीं तिष्ठेति तर्जयन्तवन्तः। किन्तु असौ ततः अपि अधिकम् क्रोशन् उच्चैः उवाच, “दाऊदपुत्र! मयि दयस्व।” 40येशुः स्थित्वा तं स्वसमीपम् आनेतुम् आदिष्टवान्। तस्मिन् उपागते येशुः पृष्टवान्, 41“किम् इच्छसि? मया तुभ्यम् किं कर्तव्यम्?” अन्धः प्रत्युतरत्, “प्रभो! मम द्रष्टुं पुनः शक्तिः भवेत्।” 42येशुः तम् आह, “स्वेन एव विश्वासेन त्वम् उद्धृतः।” 43तत्क्षणादेव अन्धस्तु द्रष्टुं शक्तः बभूव। सः परमेश्वरस्य च प्रशंसन् येशुम् अनुयातवान्। उपस्थिताः जनाः एतत् दृष्ट्वा प्रभुम् स्तुतिम् चक्रुः।
Valgt i Øjeblikket:
लूका 18: SANSKBSI
Markering
Kopiér
Sammenlign
Del
Vil du have dine markeringer gemt på tværs af alle dine enheder? Tilmeld dig eller log ind
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.