प्रेरिता 2

2
पवित्रात्‍मनः अवतरणम्‌
1पेन्‍तेकोस्‍तस्‍य दिने सर्वे शिष्‍याः एकस्‍मिन्‌ स्‍थाने एकत्राः अभवन्‌। 2सहसा वात्‍या इव ध्‍वनिः अंतरिक्षात्‌ श्रूयते स्‍म। सम्‍पूर्णगृहे यत्र ते उपविष्‍टाः आसन्‌, शब्‍दः अभवत्‌। 3एकप्रकारस्‍य अग्‍निः दृश्‍यते स्‍म, यः जिह्‌वासु विभाजितः भूत्‍वा प्रत्‍येकस्‍य उपरि आगत्‍य स्‍थितवान्‌। 4ते सर्वे पवित्रात्‍मना परिणूर्णाः अभवन्‌। तस्‍य प्रदत्तवरदानानुसारेण भिन्‍नां भिन्‍नां भाषां वदन्‍ति स्‍म। 5सर्वराष्‍ट्रेभ्‍यः धर्मिणः यहूदिनः तस्‍मिन्‌ समये येरुसलेमनगरे वसन्‍ति स्‍म। 6यदा इयं ध्‍वनिः अभवत्‌, तदा तत्र जननिवहः अभवत्‌। ते आश्‍चर्यचकिताः आसन्‌, यतः प्रत्‍येकः जनः स्‍व स्‍व भाषायां शिष्‍यान्‌ वदन्‍तः शृणोति स्‍म। 7ते चकिताः भूत्‍वा वदन्‍ति स्‍म - “किं इमे सर्वे वक्‍तारः गलीलीनिवासिनः न सन्‍ति? 8तदा अस्‍मासु प्रत्‍येकः स्‍व मातृभाषां कथं शृणोति। 9पारथ्‍याः, मेदयाः, एलाम्‍याः, मेसोपोतामियायाः, यहूदियायाः, कप्‍पादूकियायाः, पोंतुसस्‍य अशियायाः च, 10फ्रुगियायाः पप्‍फुलियायाः च, मिस्रस्‍य कुरेनेप्रदेशस्‍य च निकटवर्त्तिनः, लिबियायाः निवासिनः, रोमस्‍य यहूदिनः तथा दीक्षार्थिणः प्रवासिनः 11क्रेत्‍याः अरबदेशस्‍यः निवासिनः च - वयं सर्वे स्‍व स्‍व भाषायां इमान्‌ परमेश्‍वरस्‍य महाकार्याणाम्‌ वर्णनं कुर्वन्‍तः शृणुमः।” 12सर्वे आश्‍चर्यचकिताः भूत्‍वा परस्‍परं वदन्‍ति स्‍म “किम्‌ इदम्‌?” 13केचन अनादरभावेन अवदन्‌- “ते सर्वे द्राक्षारसं पीत्‍वा मत्ताः सन्‍ति।”
पतरसस्‍य भाषणम्‌
14पतरसः एकादशैः सह उत्‍थाय उपस्‍थितजनान्‌ उच्‍चस्‍वरेण संबोधितवान्‌ “यहूदिनः भ्रातरः! येरुसलेमस्‍य निवासिनः च। मम वचनानि ध्‍यायेन शृण्‍वन्‍तु,
जानन्‍तु च 15इमे मत्ताः न सन्‍ति यथा भवन्‍तः मन्‍यन्‍ते इदानीं दिवसस्‍य नव वादनमस्‍ति। 16परन्‍तु सत्‍यम्‌ एतद्‌ अस्‍ति, यस्‍य विषये नबी योएलः कथितवान्‌, 17‘परमेश्‍वरः एवं कथयति ः-
अहम्‌ अंतिमदिवसेषु सर्वेषु जनेषु
स्‍वात्‍मानम्‌ उत्‍क्षेप्‍स्‍यामि।
युष्‍माकं पुत्राः दुहिताश्‍च नबूवतं करिष्‍यन्‍ति,
युष्‍माकं नवयुवकाः दिव्‍यदर्शनं करिष्‍यन्‍ति
युष्‍माकं वृद्धाः जनाः स्‍वप्‍नं द्रक्ष्‍यन्‍ति।
18अहम्‌ तेषु दिवसेषु स्‍व दासेषु दासीसु च स्‍व
आत्‍मानम्‌ उत्‍क्षेप्‍स्‍यामि
ते नबूवतं करिष्‍यन्‍ति।
19अहम्‌ उपरि नभसि अद्‌भुतं कार्यम्‌
अधश्‍च संसारे चिह्‌नं दर्शयामि
अर्थात्‌ तेषु रक्‍तं, अग्‍निः उड्‌डयन्‌ धूम्रश्‍च।
20प्रभाेः महतः तथा प्रकाशमानदिनस्‍य
आगमनात्‌ पूर्वम्‌ एव
सूर्यः अन्‍धकारमयः भविष्‍यति
चन्‍द्रमा रक्‍तमयः च।
21तदा यः प्रभोः नाम्‍नः आह्‌वाहनं करिष्‍यति,
स उद्धारं लप्‍स्‍यते।’
22“इस्राएलिनः भ्रातरः! मम वचनानि ध्‍यानेन शृणुत!
भवन्‍तः जानन्‍ति यत्‌ परमेश्‍वरः भवतां मध्‍ये अनेकानि महानकार्याणि, चमत्‍कारान्‌ चिह्‌नानि च प्रदर्शितवान्‌। अनेन प्रमाणितमस्‍ति यत्‌ येशुः परमेश्‍वरात्‌ भवतां मध्‍ये प्रेषितः आसीत्‌। 23सः परमेश्‍वरस्‍य विधानस्‍य तथा पूर्वज्ञानानुसारेण शत्रुभिः बन्‍धने कृतः। भवदभिः विधर्मिनाम्‌ हस्‍तेषु क्रूसकाष्‍ठे आरोपितः हतः च। 24इत्‍थं सः अम्रियत। परन्‍तु परमेश्‍वरः मृत्‍योः बन्‍धनम्‌ उद्‌घाट्‌य तं पुनर्जीवितं कृतवान्‌। अयं असंभवः एव आसीत्‌ यत्‌ सः मृत्‍योः वशे तिष्‍ठेत्‌, 25यतः तस्‍य विषये दाऊदः इत्‍थं कथयति ः-
प्रभुः मम नेत्रयोः समीपे वर्तते।
सः मम दक्षिणे विराजमानः अस्‍ति,
येन अहं विचलितः न भवेयम्‌।
26अतः मम हृदयम्‌ आनन्‍दितम्‌ अस्‍ति, मम जिह्‌वा प्रफुल्‍लिता अस्‍ति ।
मम शरीरम्‌ आशायां विश्रमयिष्‍यति।
27यतः त्‍वं मम आत्‍मानम्‌ अधोलोके न मुन्न्‍चयिष्‍यसि।
त्‍वं स्‍वभक्‍तं समाधौ विगलितुं न दास्‍यसि।
28त्‍वं मां जीवनस्‍य मार्गम्‌ अशिक्षयः।
त्‍वं स्‍वमुखस्‍य दर्शनेन, माम्‌ आनन्‍दविभोरं करिष्‍यति।
29“भ्रातरः! अहं कुलपतेः दाऊदस्‍य विषये भवतः निस्‍संकोचेन इदं वक्‍तुं शक्‍नोमि यत्‌ सः मृतः समाधौ स्‍थापितः च। तस्‍य समाधिस्‍थानम्‌ अस्‍माकं मध्‍ये विद्यमानं वर्तते। 30दाऊदः जानाति स्‍म, यत्‌ परमेश्‍वरः शपित्‍वा तान्‌ कथितवान्‌, यत्‌ अहं तव वंशजेषु एकं सिंहासने उपस्‍थास्‍यामि। 31अतः सः भविष्‍यवक्‍ता भूत्‍वा भविष्‍ये भविष्‍यन्‌ मसीहस्‍य पुनरुत्‍थानम्‌ अपश्‍यत्‌। तस्‍य विषये अकथयत्‌ यत्‌ सः अधोलोके न त्‍यक्‍तः आसीत्‌, तस्‍य शरीरं न गलितं च। 32परमेश्‍वरेण सः येशुः नाम मनुष्‍यः पुनर्जीवितः च। वयं अस्‍य साक्षिणः स्‍म। 33इदानीं सः परमेश्‍वरस्‍य दक्षिणहस्‍तेन उन्‍नतः अभवत्‌। तस्‍मै सर्वप्रथमः पित्रा पवित्रात्‍मा प्राप्‍तः, यस्‍य प्रतिज्ञाकृता आसीत्‌। तेन सः उत्‍क्षेपितः यथा भवन्‍तः पश्‍यन्‍ति शृण्‍वन्‍ति च। 34दाऊदः स्‍वयं स्‍वर्गं न गतवान्‌ किन्‍तु सः वदति :-
‘प्रभुः मम प्रभुना अकथयत्‌
त्‍वं तावत्‌ मम दक्षिणे उपविश,
35यावत्‌ अहं तव शत्रुन्‌
तव पादपीठं न करवाणि।
36“इस्राएलस्‍य सम्‍पूर्णम्‌ कुलं इदं निश्‍चितरूपेण जानीयात्‌ यत्‌ यः भवद्‌भिः क्रूसे आरोपितः, परमेश्‍वरेण सः एव येशुः, प्रभुः मसीहश्‍च द्वौ निर्मितः।”
37इदं श्रुत्‍वा ते मर्माहताः भूत्‍वा पतरसम्‌ अन्‍य प्रेरितान्‌ च पृष्‍टवन्‍तः, “भो! भ्रातरः! अस्‍माभिः किं कर्तव्‍यम्‌?” 38पतरसः तान्‌ प्रत्‍युत्तरम्‌ अददात्‌, “भवन्‍तः स्‍वापराधानां कृते मनस्‍तापं कुर्युंः। भवत्‍सु प्रत्‍येकः स्‍व अपराधेभ्‍यः क्षमायै येशोः मसीहस्‍य नाम्‍नि जलसंस्‍कारं गृह्‌णातु। इत्‍थं पवित्रात्‍मानम्‌ लप्‍स्‍यन्‍ते। 39यतः या प्रतिज्ञा भवद्‌भ्‍यः, भवताम्‌ सन्‍तानस्‍य कृते च अस्‍ति, तेभ्‍यः सर्वेभ्‍यः अपि च ये अधुना दूराः सन्‍ति, यान्‌ अस्‍माकं प्रभु परमेश्‍वरः आह्‌वयति।” 40पतरसः बहुकथनैः साक्ष्‍यं दत्‍वा तान्‌ उपदिष्‍टवान्‌ अनुनयं कृतवान्‌ यत्‌ ते, स्‍वान्‌ नास्‍तिकवंशात्‌ रक्षयेयुः। 41ते पतरसस्‍य वचनं स्‍वीकृत्‍य जलसंस्‍कारम्‌ अलभन्‍त। तस्‍मिन्‌ दिने प्रायः त्रयसहस्रः जनाः शिष्‍येषु सम्‍मिलिताः अभवन्‌। 42नूतनाः विश्‍वासिनः दत्तचित्ताः भूत्‍वा प्रेरितानां शिक्षां शृण्‍वन्‍ति स्‍म। भ्रातृत्‍वस्‍य निर्वाहे ते निष्‍कपटाः आसन्‌; प्रासादवितरणे, सामूहिकप्रार्थनासु च नियमितरूपेण सम्‍मिलिताः भवन्‍ति स्‍म। 43सर्वेषु उपरि विस्‍मयः आसीत्‌, यतः प्रेरिताः अनेकान्‌ चमत्‍कारान्‌ चिन्‍हान्‌ च दर्शयन्‍ति स्‍म। 44सर्वे विश्‍वासिनः एकहृदयाः आसन्‌। तेषां पार्श्‍वे यत्‌ किन्न्‍चित्‌ आसीत्‌ तस्‍मिन्‌ सर्वेषां अंशाः भवन्‍ति स्‍म। 45ते स्‍व चलाचलसम्‍पतिं विक्रीय तस्‍याः मूल्‍यं प्रत्‍येकस्‍य आवश्‍यकतानुसारेण सर्वेषां मध्‍ये च ददति स्‍म।
46ते सर्वे मिलित्‍वा प्रतिदिनं मन्‍दिरं गच्‍छन्‍ति स्‍म। व्‍यक्‍तिगतगृहेषु प्रसाद-वितरणे सम्‍मिलिताः भूत्‍वा निष्‍कपटहृदयेन आनन्‍दपूर्वकेन सह एव भोजनं कृतवन्‍तः। 47ते सर्वे परमेश्‍वरस्‍य स्‍तुतिं कृतवन्‍तः, सर्वाभिः जनताभिः बहुमन्‍यन्‍ते स्‍म। प्रभुः प्रतिदिनं तेषां समुदाये ईदृशीन्‌ जनान्‌ मेलयति स्‍म, ये मुक्‍तिप्राप्‍तये इच्‍छुकाः आसन्‌।

های‌لایت

به اشتراک گذاشتن

کپی

None

می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید