प्रेरिता भूमिका
भूमिका
“साधोः लुकसस्य अनुसारं शुभसमाचारस्य” ग्रन्थस्य उतरार्द्धः भागः “प्रेरितानाम् कार्यकलापः” वर्तते। साधुः लूकसस्य प्रस्तुतग्रन्थे मुख्यरूपे इदम् कथ्यते स्म यत् प्रभोः येशोः शुभः संदेशः आरंभिकैः अनुयायिभिः पवित्रात्मनः मार्गदर्शने कथम्, “येरुसलेमे, समस्तयहूदाप्रदेशे, सामरीप्रदेशे संसारस्य च सीमान्तं यावत् च प्रसारितवान्” (1:8)। इदं पुस्तकं मसीहिनाम् आन्दोलनस्य क्रमवद्धविवरणम् अस्ति, यत् यहूदिषु आरब्धवान्, पश्चाते भूमध्यसागरस्य तटस्य त्रिषु महाद्वीपेषु नवीनधर्मविश्वासः नूतनपंथस्य रूपे प्रसरितः।
लेखकः साधुः लूकसः निजपाठकान् इमं विश्वासं दापयति यत् इमे मसीहिनः राजनैतिक- क्रान्तिकारिणः, राज्यविद्रोहिणः वा न आसन्, येन ते तत्कालीनस्य रोमनसाम्राज्याय संकटाः अभविष्यन्। वस्तुतः अयं मसीही विश्वासः यहूदीधर्मग्रन्थेषु निहितः प्रतिज्ञानाम् परिपूर्णता वर्तते, इदानीं अयहूदिभ्यः अपि मुक्तेः संदेशः प्राप्तः अस्ति (28:28)।
प्रस्तुतग्रन्थस्य विषयसामग्री त्रिषु भागेषु विभाजितं कर्तुम् शक्यते। प्रत्येके भागे इदं कथितम् अस्ति यत् प्रभोः येशोः शुभः संदेशः स्थानविशेषे कथम् अश्रावयत, तत्र कथं कलीसियायाः स्थापना अभवत्, इदम् आंदोलनं कथम् एकनगरात् अन्यनगरं यावत् प्रसरितम्।
प्रथमः भाग- प्रभोः येशोः स्वर्गारोहणस्य पश्चात् येरुसलेमनगरे मसीहीधर्मस्य आन्दोलनस्य प्रारंभः (प्रथमाध्यायात् पंचम अध्यायं यावत् 1 - 5 अध्यायः) ।
द्वितीयः भाग- इस्राएलदेशे, तथा प्रतिवेशिनां देशानां अन्यनगरान् प्रति मसीही धर्मान्दोलनस्य प्रसारः (षष्ठ अध्यायात् द्वादश अध्यायं यावत् 6 - 12 )
तृतीयः भाग ः- भूमध्यसागरस्य समीपवर्तिनः नगरेषु राजधानीं रोमं यावत् मसीहीधर्मस्य आन्दोलनस्य विस्तारः (त्रयोदश अध्यायात् अष्टविंशतिम् अध्यायं यावत् 13-38)।
आरंभिकद्वयोः भागेषु प्रेरितस्य साधोः पतरसस्य कार्याणि उपदेशाः च अपेक्षाकृतः महत्वपूर्णाः प्रदर्शिताः सन्ति। परन्तु “पे्ररितानां कार्यकलापस्य ग्रन्थस्य प्रमुखविशेषता अस्ति- पवित्रात्मनः कार्यकलापानां उल्लेखः। पवित्रात्मा पेन्तेकोस्तस्य पर्वणि, येरुसलेमनगरे प्रभोः येशोः अनुयायिषु सामर्थ्येन सह अवतरितवान्, इत्थम् पुस्तकस्य आद्याः अन्तं यावत् कलीसियायाः तथा तस्य नेतॄणाम् मार्गदर्शनम् अकरोत् भयंकरात्याचारस्य समये अपि तान् सबलान् अकरोत्।
प्रस्तुत ग्रन्थे अनेकानि प्रवचनानि सन्ति, यानि वास्तविकरूपे आरंभिकस्य मसीहीशुभसंदेशस्य साररूपाः वर्तन्ते। अस्मिन् ग्रन्थे यासां घटनानाम् उल्लेखः कृतः अस्ति, तासु मसीहस्य शुभसन्देशस्य सामर्थ्यः प्रकटः भवति। एतेन सह एतत् अपि यत् विश्वासिनाम् जीवनस्य, कलीसियायाः सहभागितायाम् च शुभसंदेशस्य कति अधिकः प्रभावः अभवत्। अतः पाठकेभ्यः आदर्शमसीहीजीवनस्य व्यवहारिका शिक्षा मिलति, सर्वे विश्वासिनः एकहृदयाः आसन्। “तेषां पार्श्वे यत् किंचित् आसीत्, तेषु सर्वेषां समानः अधिकारः आसीत्” (2:44; 4:32)।
विषयवस्तुनः रूपरेखा
साक्षिणः उपकल्पनम्- 1:1-26
(क) प्रभोः येशोः अन्तिमः आदेश- 1:1-14
(ख) यूदसस्य (यहूदः) इस्करियोतिनः उत्तराधिकारी- 1:15-26
येरुसलेमे साक्षी- 2:1—8:3
धर्मसेवकस्य स्तीफनुसस्य हत्यया धर्मप्रचारस्य आरंभः--6 रू 1 दृ 8 रू 3
यहूदासामरीप्रद्रेशयोः साक्षी- 8:4—12:25
प्रेरितपौलुसस्य धर्मसेवा- 13:1—28:31
(क) प्रथमा धर्मप्रचारयात्रा- 13:1—14:28
(ख) येरुसलेमे धर्मसम्मेलनम्- 15:1-35
(ग) द्वितीय धर्मप्रचारयात्रा- 15:36—18:22
(घ) तृतीया धर्मप्रचारयात्रा- 18:23—21:16
(ङ) येरुसलेमे कैसरियायां तथा रोमनगरे बन्धने पौलुसः- 21:17—28:31
انتخاب شده:
प्रेरिता भूमिका: SANSKBSI
هایلایت
به اشتراک گذاشتن
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: