यूहन्नः 5
5
येरुसलेमे रोगिणः स्वास्थ्यलाभः
1ततो यहूदिनां कस्मिंश्चित् पर्वणि समागते येशुः येरुसलेमं जगाम। 2येरुसलेमे ‘मेषद्वारः’ इति नामकम् गोपुरम् अस्ति यस्य निकटे पयः पूरितम् तडागः अस्ति, यद् इब्रानीभाषायां “बेतजैता” कथ्यते। तस्य पत्र्चमंडपाः सन्ति। 3तेषु द्वार मण्डपेषु रुजार्दिताः, अन्धाः, खत्र्जाश्च, शुष्काड्.गाः नैरुज्यं प्राप्तुम् इच्छया तिष्ठन्तः सरस्तोयप्रकम्पनम् प्रत्यवैक्षन्त, 4यतः कश्चित् प्रभोदूतः काले काले अवतीर्य, तस्मिन् सरसि तत् तोयं अकम्पयत्। तोयकम्पात् परं सर्वप्रथमं यः तु तस्मिन् सरसि प्राविशत्, सः केनचित् अपि व्याधिना पीड़ितः, व्याधेः मुक्तः सानन्दः गृहभ् अगच्छत्। 5तत्र अष्टत्रिंशद्वर्षाणि यावद् रोगपीड़ितः कश्चित् जनः आसीत्, 6येशुः तम् अनुग्रहीतवान्, ज्ञात्वा च तं नरं व्याधिग्रस्तः सुचिरात् इति, तं पृष्टवान् - “किं त्वं स्वस्थः भवितुम् इच्छसि?” 7रोगी तं प्रत्युवाच, “प्रभो! मम कश्चित् न अस्ति यः तोयकम्पनकाले एव मां सरसि अवतारयेत्। यावद् एव सरोवरे अवतर्तुम् अहम् इच्छामि, तावत् एव अपरेण अस्मिन् मत् पूर्वम् अवतीर्यते।” 8येशुः तम् उवाच, “त्वम् शीघ्रम् उत्थाय सुस्थितः भव खट्वाम् उत्थापय विचर।” 9तस्मिन्नेव क्षणे सः रोगी स्वस्थः अभवत् तथा स्व खट्वाम् उत्थाप्य विहर्तुम् च आरब्धवान्।
सः तु विश्रामदिवसः आसीत्। 10अतः यहूदिनः आरोग्यं प्राप्तम् नरम् ऊदुः - “अद्यः विश्रामदिवसे खट्वायाः वहनं त्वया न उचितम्, इति श्रुत्वा सः यहूदिनः अकथयत्, 11अहं येन स्वस्थः कृतः सः एव मां प्रत्युवाच, “खट्वां समादाय, यथेच्छं विचर।”
12ते तं पृष्टवन्तः, “कः सः, यः त्वाम् अभाषत्, “स्वीयां खटवां समादाय यथेच्छं विहर।” 13स्वस्थः कृतः मनुष्यः न जानाति स्म, सः कोऽस्ति इति, यतः तत्र जनानाम् समूहः आसीत् तथा येशुः तत्रतः निर्गतवान्। 14ततस्तं मन्दिरे प्राप्त्वा येशुः अब्रवीत्, “पश्य त्वं नीरुजः जातः, पुनः पापं न कुरुष्व। नो चेत्महत्तरे हि अस्मात् संकटे त्वं पतिष्यसि।” 15तदा सः मानवः गत्वा यहूदीधर्मंगुरुन् प्रत्यवादीत् - “येन अहं दुःसाध्यात् रोगात् मोचितः अस्मि, सः येशुः एव अस्ति।”
16यहूदीधर्मगुरवः येशुं बाधितुम् प्रयतन्ते स्म, यतः सः एतानि कार्याणि विश्रामदिवसे अकरोत्। 17अतः येशुः तान् प्रत्युवाच इत्थम् - “मम पिता कार्यं विदधाति, अहम् अपि कार्यं करोमि।” 18साम्प्रतम् तं हन्तुं यहूदी धर्माधिकारिणां निश्चयः सुदृढ़ः अभूत्। यतः येशुः न केवलं विश्रामवारस्य नियमान् अलंघयत्, परन्तु प्रभुम् स्वस्य पिता अमन्यत। इत्थम् स्वं परमेश्वरतुल्यम् अमन्यत।
पुत्रस्य अधिकारः
19येशुः तान् अब्रवीत्, “अहं युष्मान् ब्रवीमि, “पुत्रः स्वयं कित्र्चन कार्यं कर्तुम् न शक्नोति। सः तत् एव कर्तुम् शक्नोति, यत् पितरं कुर्वाणं पश्यति। यत् पिता करोति, तत् पुत्रः अपि करोति। 20यतः पिता पुत्रं प्रति प्रेम करोति, सश्च स्वयं यत् करोति, तत् पुत्रम् दर्शयति। सः तं महत्तराणि कार्याणि दर्शयिष्यति, यानि समालोक्य यूयं विस्मयाः वर्तिष्यध्वे। 21यथा पिता मृतकान् उत्थापयति, तत्पश्चात् जीवेन संयोजयति, तथैव पुत्रः अपि यस्मै इच्छति, जीवनं ददाति; 22पिता कस्यचित् अन्यायं न कुरुते, तेन न्यायविधानस्य सम्पूर्णः अधिकारः स्वपुत्राय समर्पितः, 23येन सर्वे यथा पितुः आदरं कुर्वन्ति, तथैव पुत्रस्यापि आदरं कुर्वन्तु। यः पुत्रम् नाद्रियते, सः पितुः, येन पुत्रः प्रेषितः, अनादरं करोति।
24अहं युष्मान् ब्रवीमि - “यः मम शिक्षां शृणोति, यः मां प्रेषितवान् तस्मिन् प्रत्ययं करोति, तस्मै अनन्तजीवनम् प्राप्तम् अस्ति। तस्मिन् दोषारोपणं न करिष्यते। सः तु मृत्युम् अतिक्रम्य जीवने प्रविष्टः अस्ति।
25अहं युष्मान् ब्रवीमि - असौ समयः आयाति, आयातः एव चास्ते, यदा मृतकाः परमेश्वरस्य पुत्रस्य वाणीं श्रोष्यन्ति, ये श्रोष्यन्ति, तस्मै जीवनं लप्स्यते, 26यथा पिता स्वयं जीवनस्य उत्पतिस्थानं वर्तते, तथैव पुत्रम् अपि जीवनस्य उत्पतिस्थानं तेन निर्मितम्, 27तथा तेन पुत्रोऽपि न्यायं कर्तुम् अधिकृतः, यतः सः मानवपुत्रः वर्तते।
28नात्र विस्मयः कार्यं, असौ समयः आयाति, यदा सर्वे शवागारस्थाः तस्य वचनम् श्रुत्वा 29बहिरेष्यन्ति। सत्कर्मिणः जीवितुं पुनरुत्थिताः भविष्यन्ति, विधर्मिणः नरकयातनाम् भोक्तुं जीविष्यन्ति। 30अहं स्वयं कित्र्चन कार्यं कर्तुम् न समर्थः अस्मि। यथैव अहम् शृणोमि तथैव निर्णयामि, मम निर्णयश्च न्यायसंगतः जायते; यतः अहं निज इच्छां न, किन्तु यः मां प्रेषितवान्, तस्य इच्छां पूर्णकर्तुम् इच्छामि।”
मसीहस्य विषये साक्ष्यम्
31यदि अहं स्वविषये साक्ष्यं ददामि, तर्हि मदीयं साक्ष्यं मान्यं न एव भविष्यति। 32अपरः चेत् साक्ष्यं ददाति, अहं च जानामि, यत् सः मम विषये यत् साक्ष्यं ददाति, तत् मान्यम् अस्ति। 33योहनं प्रति दूतान् सम्प्रेष्य यूयं तम् अपृच्छत, सश्च सत्यस्य सम्बन्धे साक्ष्यं प्रदत्तवान्। 34नाहं कस्यचित् मनुष्यस्य साक्ष्यम् इच्छामि। युष्मभ्यम् मुक्तिः लभेत्, अतः एतद् अहं वदामि। 35योहनः तु एकः ज्वलन्, समुज्जवलः दीपः आसीत्। तस्य ज्योतौ युष्मभ्यम् क्षणं यावत् प्रमोदः अरोचत, 36पित्रा मह्यम् येषां कार्याणां भारः समर्पितः, तथा यानि कार्याणि अहं करोमि, तानि एवं साक्ष्यं ददते यत् पित्रा अहम् प्रेषितः अस्मि। 37पिता अपि मम प्रेषयिता, मयि साक्ष्यं प्रदत्तवान्। युष्माभिः नैव तस्य वाणी कदाचन श्रुता, न तस्य रूपम् अवलोकितम्। 38तस्य शिक्षा युष्माकं हृदये न स्थिता, यतः तस्मिन् युष्माभिः विश्वासः न विधीयते, येन सः प्रेषितः अस्ति।
39यूयं एतत् विज्ञाय धर्मग्रन्थस्य अनुशीलनम् कुरुध्वे यत् तत्र यूयं अनन्तजीवनम् प्राप्स्यथ। तेनैव धर्मग्रन्थेन मम साक्ष्यं प्रदीयते, 40तथापि जीवनलाभार्थम् मम अन्तिकम् न आगच्छथ।
41अहं मानवेभ्यः सम्मानं न इच्छामि। 42अहं युष्मान् वेदि्म, यत् यूयं प्रभुम् प्रेम न कुरुथ। 43अहम् अत्र मत्पितुः नाम्नः कारणात् समायातः अस्मि, तथापि यूयं माम् न स्वीकुरुथ। यदि कश्चित् जनः स्वेन नाम्ना एव आयाति, यूयं तं स्वीकर्तुम् उद्यताः भविष्यथ। 44यूयम् परस्परात् सम्मानं प्राप्तुम् इच्छथ, परन्तु तत् सम्मानं न इच्छथ, यत् केवलम् प्रभोः आयाति। एवं तर्हि यूयं मयि कथं विश्वासं करिष्यथ? 45पितुरग्रे अभियोक्ताऽहम् इत्थं यूयं मा चिन्तयत। पुष्माकम् अभियोक्ता तु मूसा एव वर्तते, यस्मिन् युष्माकं विश्वासः विद्यते। 46यदि तस्मिन् युष्माकं विश्वासः अभविष्यत्, तर्हि मां प्रति युष्माकं विश्वासः अभविष्यत्, यतः तेन मम विषये लिखितमस्ति। 47तस्य लेखेषु अपि युष्माकं विश्वासः नास्ति चेत् तदा कथं मदीयशिक्षासु युष्माकं विश्वासः भविष्यति?
اکنون انتخاب شده:
यूहन्नः 5: SANSKBSI
هایلایت
به اشتراک گذاشتن
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: