लूका 10

10
द्वासप्‍ततिशिष्‍याणां प्रेषणम्‌
1ततः येशुः द्वासप्‍ततिशिष्‍यान्‌ नियुक्‍तवान्‌, यत्र सः गन्‍तुम्‌ उद्‌यतः आसीत्‌, तत्र द्वौ द्वौ कृत्‍वा पूर्वं प्रेषितवान्‌। 2येशुः तान्‌ अवदत्‌ - “शस्‍यानि सन्‍ति अनल्‍पानि, श्रमिकाः तु अल्‍पाः; अतः शस्‍यक्षेत्रस्‍य अधिनायकं प्रार्थयत यत्‌ सः अधिकाः श्रमिकान्‌ कर्तितुम्‌ प्रेषयतु। 3गच्‍छत, अहं युष्‍मान्‌ वृकाणां मध्‍ये मेषकान्‌ इव सम्‍प्रेषयामि। 4गच्‍छत, धनकोषेन विना, तथा वस्‍त्रसम्‍पुटकेन विना, तथैव पादुकाभ्‍याम्‌ विना, न मार्गे नमस्‍कारो वाच्‍यः कस्‍यै जनाय। 5यस्‍मिन्‌ गृहे युष्‍माकं प्रवेशः स्‍याद्‌, तत्‌ गृहं प्रति, “शान्‍तिः भूयाद्‌ गृहस्‍य अस्‍य इति, युष्‍माभिः कथितव्‍यम्‌।” 6ततः तस्‍मिन्‌ गृहे कश्‍चित्‌ शान्‍तिपात्रं नरोऽस्‍ति चेत्‌, तस्‍मिन्‌ सा शान्‍तिः स्‍थास्‍यति, अन्‍यथा शान्‍तिः तव पार्श्‍वे पुनः आगमिष्‍यति॥ 7युष्‍माभिः तस्‍मिन्‌ एव वेश्‍मनि स्‍थातव्‍यम्‌, तत्र यत्‌ लब्‍धं तदेव भक्षयत। यतः श्रमिकः स्‍ववेतनस्‍यैव भागी वर्तते। अतो तस्‍मात्‌ गृहात्‌ अन्‍यगृहं गन्‍तुं नैव चेष्‍टा कुरुत। 8यत्‌ किचिंत्‌ नगरं यूयं प्रविष्‍टाः, तत्र चेत्‌ नराः सत्‍कुर्वन्‍ति, तैः परिवेषितम्‌ यत्‌ स्‍यात्‌, तत्‌ भोक्‍तव्‍यम्‌। 9तत्रत्‍यान्‌ रोगग्रस्‍तान्‌ रोगमुक्‍तान्‌ कुरुत। तान्‌ कथयत, “प्रभोः राज्‍यम्‌ उपस्‍थितम्‌।” 10-11परन्‍तु कित्र्चित्‌ नगरं प्रविशथ, जनाः युष्‍माकं न सत्‍क्रियाम्‌ कुर्युः, तर्हि तत्रस्‍थविपणिं गत्‍वा यूयं सर्वान्‌ जनान्‌ ब्रूत, “युष्‍माकं नगरस्‍य धूलयः अस्‍मत्‍पादेषु संलग्‍नाः ताः अपि युष्‍माकं विरुद्धे अपमृजामः, तथापि एतत्‌ हि युष्‍माभिः अवश्‍यम्‌ स्‍मरत यत्‌ परमेश्‍वरस्‍य राज्‍यं युष्‍माकं समीपं समुपस्‍थितम्‌।” 12अहं युष्‍मान्‌ ब्रवीमि, न्‍यायस्‍य दिने सदोमस्‍य दशा तस्‍मात्‌ नगरात्‌ अधिका सह्‌या भविष्‍यति, किन्‍तु तत्‌ नगरस्‍य तादृशी दशा न भविष्‍यति।
अविश्‍वासिनगराणि धिक्‌
(मत्ती 11:21-24)
13“खुराजिन्‌! धिगस्‍तु त्‍वां, धिक्‌ त्‍वां हे बेतसैदे! यतः यानि कार्याणि कृतानि युवयोः अकरिष्‍यन्‍त, चेत्‌ तानि सीदोने सोरे अकरिष्‍यन्‍त, तदा तद्‌-वासिनः सर्वे भस्‍मानुलेपनम्‌ कृत्‍वा, शाणैः परिवार्यात्‍मनः, मनांसि च परावर्त्‍य, पश्‍चात्तापम्‌ अकरिष्‍यन्‌। 14अतो न्‍यायस्‍य दिवसे युष्‍मद्‌दशा असहनीया भविष्‍यति, सिदोनस्‍य तथा सोरस्‍य तु नैव सा दशा भविष्‍यति। 15कफरनहुम! किं त्‍वं स्‍वर्गम्‌ आरोहयिष्‍यसे? न, त्‍वम्‌ अधोलोकं यावत्‌ पातालं पातयिष्‍यसे।
16“यो युष्‍मान्‌ शृणोति, सः मां शृणोति। यः युष्‍मान्‌ अवमन्‍यते, सः तु माम्‌ अवमन्‍यते, तथा येन अहं प्रेषितः तम्‌ चापि सः अवमन्‍यते।”
द्वासप्‍ततिशिष्‍याणां परावर्त्तनम्‌
17ततः द्वासप्‍ततिः शिष्‍याः प्रत्‍यावृत्‍य तमब्रुवन्‌, “प्रभो! तव नाम्‍ना अपदूताः अपि वशीभवन्‍ति।” 18येशुः तान्‌ उवाच, “मया अपदूतः व्‍योम्‍नः क्षणप्रभा इव स्‍वर्गतः पतन्‌ दृष्‍टः। 19मया युष्‍मभ्‍यम्‌ सर्पाणाम्‌ वृश्‍चिकानाम्‌, शत्रूणाम्‌ च समस्‍तशक्‍तिं मर्दितुं सामर्थ्‍यः दत्तः। कोऽपि कामपि युष्‍माकं न च हानिं विधास्‍यति। 20परन्‍तु नैव मोदध्‍वं, युष्‍माकं वशे अधुना अपदूताः भवन्‍ति, परन्‍तु आनन्‍दस्‍य विषयोऽयं यत्‌ स्‍वर्गे युष्‍माकं नामानि लिखितानि।”
येशोः धन्‍यवाददानम्‌
(मत्ती 11:25-27; 13:16-17)
21तस्‍मिन्‍नेव क्षणे येशुः पवित्रात्‍मना पूर्णः आनन्‍देन अभिभूतः सन्‌ वक्‍तुम्‌ प्रचक्रमे, “हे स्‍वर्गमर्त्‍ययोः स्‍वामिन्‌! अहं तव स्‍तौमि, यतः त्‍वया एतानि सर्वाणि वृत्तानि, विज्ञेभ्‍यः तीक्ष्‍णधीभ्‍यश्‍च तानि निगूहितानि, केवलम्‌ अबोधेभ्‍यः बालकेभ्‍यः आविष्‍कृतानि। आम्‌ पितः! इदमेव तुभ्‍यम्‌ अरोचत्‌। 22मे पित्रा मह्‌यम्‌ सर्वम्‌ समर्पितम्‌। पुत्रं कः अपि अपरः न एव जानाति पितरं विना। पितरं कोऽपि न जानाति तत्‍पुत्रं विनाऽपरः। यस्‍मै तत्‌ प्रकटयितुं पुत्रोऽनुकम्‍पते, सः एव जानाति, नाऽन्‍यो ज्ञातुम्‌ अर्हति।”
23पुनः सः शिष्‍यान्‌ एकान्‍ते परावृत्‍य अकथयत्‌, “धन्‍यानि तानि नेत्राणि यानि यत्‌ पश्‍यन्‍ति, यूयमप्‍यवलोकयथ, 24यतोऽहं युष्‍मान्‌ ब्रवीमि - यद्‌ युष्‍माभिः विलोक्‍यते तद्‌ राजानः नबिनश्‍चापि द्रष्‍टुम्‌ ऐच्‍छन्‌, किन्‍तु न अशक्‍नुवन्‌। यत्‌ युष्‍माभिः श्रूयते, ते सर्वे श्रोतुम्‌ ऐच्‍छन्‌, परन्‍तु श्रोतुं न अशक्‍नुवन्‌।”
सर्वमहान्‌ आदेशः
(मत्ती 22:34-40; मर 12:28-31)
25कस्‍मिंश्‍चिद्‌ दिवसे, कश्‍चिद्‌ शास्‍त्री येशुं परीक्षितुम्‌ पृष्‍टवान्‌, “प्रभो! अनन्‍तजीवनस्‍य उत्तराधिकारस्‍य प्राप्‍तये मया किं कर्तव्‍यम्‌? 26येशुः तम्‌ अवदत्‌, “संहितायां किं लिखितमस्‍ति? त्‍वं तस्‍मिन्‌ किं पठसि?” 27असौ उक्‍तवान्‌, “स्‍वकं प्रभुम्‌ परमेश्‍वरम्‌ सर्वचित्तेन, सर्वात्‍मना, सर्वशक्‍त्‍या तथा सर्वबुद्‌धया त्‍वया प्रेमवृत्तिः विधेया, तथा सदैव आत्‍मवत्‌ प्रतिवेशिनः वर्तितव्‍याः।”
28येशुः तम्‌ आह, “त्‍वं सुनृतं वचः भाषसे। एवमेव वर्तस्‍व, जीवनं लप्‍स्‍यसे च।”
भद्रसमारितानिनः दृष्‍टान्‍तः
29परन्‍तु सः शास्‍त्री स्‍वस्‍य प्रश्‍नस्‍य सार्थक्‍यं परिदर्शयन्‌ येशुम्‌ अकथयत्‌, “कोऽसौ मम प्रतिवेशी?” 30येशु तम्‌ उत्तरन्‌ प्राह, “एकदा एकः मनुष्‍यः येरुसलेमात्‌ यरीहोनगरं प्रति प्रस्‍थितः। पथि दस्‍युभिः गृहीतः। दस्‍यवः अस्‍त्रैः आहत्‍य, तस्‍य धनं लुण्‍ठयित्‍वा, तं मृतप्रायं च त्‍यक्‍त्‍वा प्रतस्‍थिरे। 31दैवात्‌ कश्‍चिद्‌ याजकः तेन पथा गच्‍छन्‌ आसीत्‌। तं दृष्‍ट्‌वा, उपेक्ष्‍य च विनिर्गतः। 32तथैव कश्‍चित्‌ उपयाजकः तस्‍मिन्‌ स्‍थले समागतः, किन्‍तु पान्‍थम्‌ उपेक्ष्‍य सोऽपि गतवान्‌। 33ततः कश्‍चित्‌ समारितानी यात्री तत्रागतः। भूमौ निपतितं पान्‍थं दृष्‍ट्‌वा अन्‍वकम्‍पत। 34ततः तदन्‍तिकं गत्‍वा क्षतेषु तैलं निषिक्‍तवान्‌। क्षतस्‍थानं कार्पासेन पटेन स बबन्‍ध। अथ असौ तं समुत्‍थाप्‍य निजवाहनम्‌ आरोह्‌य पान्‍थशालां समानीय अशुश्रूषत। 35अन्‍येद्‌युः असौ दीनारद्वयम्‌ अर्पयन्‌ पान्‍थशालापतिं प्राह, एतं पान्‍थं सेवताम्‌। चेद्‌ भवतः व्‍ययोऽधिकः भवति, अहं प्रत्‍यागच्‍छन्‌ समये दास्‍यामि।” 36एवमुक्‍त्‍वा येशुः तं शास्‍त्रिणं पप्रच्‍छ, “भवतः मतौ कस्‍तेषु त्रिषु पान्‍थस्‍य निकटस्‍थः?” 37सोऽब्रवीत्‌ - “यः तस्‍मिन्‌ अन्‍वकम्‍पत।” येशुः तमाह “गच्‍छ त्‍वम्‌ अपि एवं समाचर।”
मर्था मेरी च
38येशुः यात्रां कुर्वन्‌ एकं ग्रामम्‌ आगच्‍छत्‌। मर्थानामा महिला तस्‍य आतिथ्‍यम्‌ अकरोत्‌। 39तस्‍याः मेरीनामा भगिनी आसीत्‌, या येशोः पादयोः निपत्‍य तस्‍य शिक्षाम्‌ अशृणोत्‌। 40परन्‍तु मर्था सेवायां सत्‍कारे च व्‍यस्‍ता आसीत्‌। सा प्रभोः पार्श्‍वम्‌ आगत्‍य उवाच, “प्रभो! किम्‌ इदं भवान्‌ साधु मन्‍यते यत्‌ भवतः आतिथ्‍यस्‍य भारं मे भगिनी मयि सर्वम्‌ न्‍यस्‍तवती? तां वदतु भवान्‌, सा मम कार्येषु साहाय्‍यं करोतु।” 41येशुः ताम्‌ आह, “मर्थे! त्‍वं बहुवस्‍तुषु व्‍यापृता चिन्‍तिता च असि; 42तथापि एकं वचनम्‌ आवश्‍यकम्‌ अस्‍ति। मेरी सर्वेषु उत्तमम्‌ अंशम्‌ गृहीतवती, तत्‌ तस्‍याः न हरिष्‍यते।”

اکنون انتخاب شده:

लूका 10: SANSKBSI

های‌لایت

به اشتراک گذاشتن

کپی

None

می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید