लूका 24
24
पुनरुत्थानम्
(मत्ती 28:1-10; मर 16:1-8; यूह 20:1-10)
1सप्ताहस्य प्रथमदिवसे ताः अतीव प्रभाते सज्जीकृतम् सुगन्धिद्रव्यम् नीत्वा शवागारम् अगच्छन्। 2ताः शवागारद्वारात् प्रस्तरम् अपसृतम् अपश्यन् 3शवागारे गत्वा येशोः शवं न प्राप्त्वा विस्मयं गताः। 4तस्मिन् एव क्षणे श्वेतपरिच्छदौ द्वौ नरौ तासाम् समीपे आगतवन्तौ। 5तौ विलोक्य भयात् सर्वाः नतमस्तकाः बभूवुः। तौ ताः उक्तवतौ, “भवत्यः जीवितं तं मृतकेषु कथम् अनुविष्यथ? 6सः अत्र नास्ति -स जीवितः अस्ति। गलीलप्रदेशे निवसन् सः यत् उक्तवान् तत् स्मरत। 7तेनोक्तं-मानवपुत्रस्येदं नूनं भविष्यति। विरोधिभिः सः पापिनाम् हस्तेषु अर्पयिष्यते, ते तम् क्रूसमारोपयिष्यन्ति। तृतीये दिवसे तस्य पुनः उत्थानम् भविष्यति।” 8तदा ताः येशोः वचनम् अस्मरन्। 9सर्वाः शवागारात् आगतवत्यः। 10परावृत्य मेरीमग्दलेना, योअन्ना, याकूबस्य जननी मेरी तां घटनाम् एकादशेभ्यः शिष्येभ्यः, तथा अन्येभ्यः शिष्येभ्यः न्यवेदयन्।
11ताभिः सह याः अन्याः नार्यः आसन्, ताः अपि प्रेरितान् तदेव अकथयन्, किन्तु ते न विश्वासम् चक्रुः। तेषां दृष्टौ तासां कथा प्रलाप इव प्रतीयते स्म। 12तथापि पतरसः उत्थाय शवागारं प्रति अधावत्। समीपे आगत्य वस्त्रखण्डानाम् अतिरिक्तः कित्र्चित् अन्यत् न अवलोकितवान्। सः आश्चर्यचकितः भूत्वा प्रत्यागच्छत्।
इम्माउसस्य मार्गें शिष्याभ्याम् दर्शनम्
(मत्ती 16:2-13)
13-14तस्मिन् एव दिने द्वौ शिष्यौ एतासाम् घटनानां विषये वार्ताम् कुर्वन्तौ एम्मायुसं नाम ग्रामं गच्छन्तौ आस्ताम्। सः येरुसलेमात् योजने स्थितः। 15तौ मिथः वार्तालापं तथा विचारविमर्शं कुर्वन्तौ एव आस्ताम्, येशुः स्वयम् आगत्य ताभ्यां साद्र्धम् अभवत्। 16परन्तु शिष्ययोः नेत्राणि तं न परिज्ञातानि। 17येशुः तौ इत्थम् प्रत्युवाच - “भवन्तौ पथि गच्छन्तौ कस्मिन् विषये संलापं कुर्वन्तौ आस्तम्?” तौ स्थितौ। 18तयोः मुखे मलिने आस्ताम्। तयोः एकः क्लियुपासः अब्रवीत्, “येरुसलेमवासिषु एकः भवान् एव अस्ति, यः इदं न जानाति यत् एतेषु दिनेषु तत्र किं किं घटितमस्ति।” 19येशुः तौ पृष्टवान्, “किमभवत्?” तौ उक्तवन्तौ, “वृत्तं येशोः नासरिणः अस्ति। सः परमेश्वरस्य तथा सर्वलोकानां मतौ कर्मणः मनसश्च शक्तिमान् नबी आसीत्। 20अस्माकं महापुरोहिताः शासकाश्च तस्मै प्राणदण्डम् अदापयन्, क्रूसमारोपितवन्तश्च। 21अस्माकम् आशा आसीत् यत् सैव इस्राएलस्य उद्धारकः आसीत्। तस्य वृत्तस्य जातस्य गतमद्यः दिनत्रयम्। 22इदं सत्यमस्ति अस्मासु काश्चित् योषितः सन्ति, ताः अद्यः प्रत्युषे शवागारं अगच्छन्, 23तत्र शवागारे येशोः शवम् न लक्षितः। ताः प्रत्यावृत्य अस्मान् इदम् अब्रूवन्, “अस्माभिः स्वर्गदूतस्य दर्शनम् अभवत्, सः अस्मान् प्राह यद् येशुः जीवितः अस्ति। 24ततः अस्माकं संगिनां केचित् शवागारमुपागमन्। तेऽपि सर्वम् तथैव आप्तवन्तः यथा तान् स्त्रियः अवदन्। परन्तु तेऽपि येशुं शवगारे न अपश्यन्।”
25तदा येशुः तौ इदम् अब्रवीत्, - हे निर्बुद्धी ! नबिभिः यत् किंचित् कथितमस्ति तस्मिन् विश्वसितुं युवाम् मन्दमती स्थः! 26किं नु आवश्यककर्तव्यम् न आसीत् यत् मसीहः सर्वदुःखं भुक्त्वा स्वमहिमानं आविशेत्?
27ततः परं सः मूसातः आरभ्य, बहुन् नबिनः उदाहरत्, स्वविषये यत् कित्र्चत् धर्मग्रन्थे लिखितम्, तत् कृत्स्नं अवबोधयत्।
28इत्थं यदा सः तयोः गन्तव्यं स्थानम् उपागमत्; तथा तस्मात् स्थानात् सः अग्रे गन्तुम् इयेष च। 29शिष्यौ एवम् उक्त्वा तम् आग्रहम् अकुरुताम्, आवाभ्यां सह अत्र तिष्ठतु। सन्ध्या आसन्ना, दिनस्य अवसानं च अभवत्।” ततः ताभ्यां सह स्थातुम् येशुः तयोः गृहम् प्राविशत्। 30येशुः ताभ्यां सह भोजनाय उपविश्य रोटिकां गृहीत्वा, धन्यवादस्य प्रार्थनां कृत्वा, तां रोटिकां भड्.क्त्वा, ताभ्याम् अददात्। 31अनेन मुक्तचक्षुष्कौ तौ येशुं परिजज्ञतुः। परन्तु येशुः शिष्ययोः पश्यतः एव सद्यः अन्तर्धानोऽभवत्। 32तदा शिष्यौ परस्परम् अवदताम्, “आवयोः हृदयं कियत् उद्दीप्तम् आसीत् यदा सः पथि आवाभ्यां सह वार्तालापं कुर्वन् आसीत्, तथा आवयोः कृते धर्मग्रन्थस्य व्याख्यां कुर्वन् आसीत्।”
33तस्मिन् एव क्षणे तौ शिष्यौ समुत्थाय येरुसलेमं प्रति प्रत्यर्वतताम्। तत्र तौ एकादशशिष्यान्, तेषां सडि्.गनः च प्राप्तवन्तौ, 34ये एवं कथयन्तः आसन्, “प्रभुः पुनरुत्थितः तथा सिमोनाय दर्शनम् दत्तवान्।” 35तदा तौ अपि अकथयताम् यत् मार्गे किम् किम् अभवत्, तथा रोटिकाखण्डने कथं तस्य अभिज्ञानम् अभवत्।
येशोः बहुभ्यः शिष्येभ्यः दर्शनम्
(मत्ती 28:16-20; मर 16:14-18; यूह 20:19-23; प्रेरि 1:6-8)
36ते एतासाम् घटनानां विषये वार्ताम् कुर्वन्तः एव आसन्, तस्मिन् एव क्षणे येशुः तेषां मध्ये अकस्मात् उपस्थितः। असौ शिष्यान् अब्रवीत्, “यूयं शान्तिम् आप्नुत। 37परन्तु ते विस्मिताः तथा भीतिम् उपागताः, अचिन्तयन् यथा कश्चित् प्रेतः तैः अवलोक्यते। 38येशुः तान् उक्तवान्, “यूयं व्याकुलत्वं कथं गताः? युष्माकं मनसि कथं सन्देहाः सम्भवन्ति? 39मम हस्तौ च पादौ च पश्यत-अहमेव अस्मि। मां स्पृष्ट्वा निरीक्षध्वम् यत् प्रेतः न तादृशः अस्थि मांसविशिष्टः अस्ति यादृशं मां पश्यथ।” 40एवमुक्त्वा सः तान् हस्तौ, चरणौ च अदर्शयत्। 41परन्तु हर्षातिरेकेण शिष्याः तस्मिन् विश्वासं न कृतवन्तः, ते आश्चर्यचकिताः आसन्, तदा येशुः तान् अवदत्, किं युष्माकं पार्श्वे किमपि खाद्यम् अस्ति?” 42ते तस्मै भृष्टमीनस्य खण्डमेकं ददुः। 43येशुः मत्स्यखंडं गृहीत्वा, शिष्याणां समक्षं भुक्तवान् च।
अन्तिमः निर्देशः
44येशुः शिष्यान् अब्रवीत्, “युष्माभिः सह तिष्ठन्, युष्मान् अवदम्, यत् मूसासंहिताग्रन्थे, नबिनाम् ग्रन्थे, तथा गीतग्रन्थेषु मम विषये यत् लिखितम् अस्ति, सर्वस्य पूर्णं भवितुम् आवश्यकमासीत्।” 45अथ असौ मनसः तेषाम् अन्धकारं निवारयन् धर्मग्रन्थस्य मर्मं तान् प्रबोधयामास। 46पुनश्च तान् उवाच, “इत्थं धर्मग्रन्थे वर्णितम् अस्ति यत् मसीहः कष्टानि भोक्ष्यते, तृतीये दिवसे मृतकेषु पुनः जीविष्यति। 47तस्य नाम्नि येरुसलेमात् आरभ्य सर्वेभ्यः राष्ट्रेभ्यः पश्चात्तापस्य उपदेशः दास्यते। 48यूयम् एतासाम् घटनानां साक्षिणः स्थ। 49पश्यत, मम पिता यस्य वरदानस्य प्रतिज्ञां कृतवान् अस्ति, तत् वरदानं युष्मभ्यम् प्रेषयिष्यामि। अतः युष्माभिः तावत् अत्र नगरे स्थातव्यम्, यावत् यूयं ऊर्ध्वशक्त्या सम्पन्नाः न भविष्यथ।”
स्वर्गारोहणम्
(मत्ती 16:19-20)
50ततः येशुः तान् बेतनियाहग्रामं यावत् अनैषीत्। करौ उत्थाय तेभ्यः आशिषम् अददात्। 51आशिषं ददन् अन्तर्धानः अभवत् तथा स्वर्गे आरोहितः कृतः।
52शिष्याः भूमौ निपत्य, तं दण्डवतं कृत्वा आनन्देन सह येरुसलेमं प्रत्यागच्छन्। 53ते परमेश्वरस्य स्तुतिं कुर्वन्तः कृत्स्नं समयं मन्दिरे व्यतीतवन्तः।
اکنون انتخاب شده:
लूका 24: SANSKBSI
هایلایت
به اشتراک گذاشتن
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: