मारकुस 11

11
येरुसलेमे येशोः प्रवेशः
(मत्ती 21:1-9; लूका 19:20-38; यूह 12:12-16)
1यदा ते येरुसलेमस्‍य समीपे, जैतुने गिरौ स्‍थितौ बेथफगे - बेतनियाहः ग्रामौ उपस्‍थिताः, तदा येशुः द्वौ शिष्‍यौ प्रेषयन्‌ इदम्‌ उक्‍तवान्‌, 2“सम्‍मुखस्‍थितम्‌ ग्रामं गच्‍छतम्‌। युवयोः गच्‍छतः एव एकः गर्दभशावकः बद्धः युवयोः दृक्‍पथं समुपैष्‍यति, सः शावकः अद्यावधिं यावत्‌ केनापि न अधिरूढः अस्‍ति। तम्‌ मुक्‍त्‍वा इह आनयतम्‌। 3किमर्थमेतत्‌ कुरुथः? तर्हि युवाम्‌ इदं वदतम्‌ - एतेन शावकेन प्रभोः किंचित्‌ प्रयोजनम्‌ अस्‍ति, असौ एनं शावकं द्रुतम्‌ विस्रक्ष्‍यति।” 4तौ शिष्‍यौ गतौ, पथः बहिः एकस्‍मिन्‌ गृहद्वारे बद्धमेकं शावकम्‌ विलोक्‍य तौ मुक्‍तबन्‍धनम्‌ कृतवन्‍तौ। 5तत्र स्‍थितेषु केचित्‌ तौ इदम्‌ अब्रुवन्‌, युवाम्‌ एतद्‌ किम्‌ विधत्‍थः शावकं मुत्र्चथः। 6“येशुना च यथा प्रोक्‍तम्‌ आसीत्‌ तौ तान्‌ तथा ऊदतुः। एतद्‌ आकर्ण्‍य जनाः तौ शिष्‍यौ गन्‍तुं ददिीरे। 7तौ तं शावकं येशोः अन्‍तिकम्‌ आनीत्‍वा, तस्‍य पृष्‍ठे स्‍वानि वस्‍त्राणि अस्‍थापयताम्‌। येशुः गर्दभशावकम्‌ आरुरोह। 8बहवः वर्त्‍मनि स्‍वानि वस्‍त्राणि व्‍यस्‍तारयन्‌। अन्‍ये क्षेत्रेभ्‍यः पल्‍लवान्‌ छित्त्वा विस्‍तारयामासुः। 9येशोः अग्रे, पश्‍चात्‌ च गच्‍छन्‍तः अनेके मानवाः उच्‍चस्‍वरेण उवाद, “जयतु असौ, 10सः धन्‍यो यः प्रभोः नामतः आयाति! अस्‍मत्‍पितुः दाऊदस्‍य राज्‍यं, यत्‌ इह आगामि वर्तते, तत्‌ धन्‍यं विद्‌यते। स्‍वर्गलोके जयध्‍वनिः स्‍यात्‌।” ततः सः येरुसलेमं गत्‍वा मन्‍दिरम्‌ अविशत्‌। 11तत्र सम्‍यक्‌ निरीक्ष्‍य असौ स्‍वशिष्‍यैः सह बेतनियाहं गतवान्‌, यतः तदानीं सन्‍ध्‍याकालः उपस्‍थितः अभवत्‌।
फलहीनः अत्र्जीरवृक्षः
(मत्ती 21:18-19)
12परेद्‌युः यदा येशुः बेतनियाहात्‌ आगच्‍छति स्‍म, सः क्षुधया पीडितोऽभवत्‌। 13सः कित्र्चिद्‌दूरस्‍थितम्‌ एकं सपत्रम्‌ अंजीरस्‍य वृक्षम्‌ दृष्‍ट्‌वा, अनया आशया तत्‌ समीपं जगाम, यत्‌ “फलं किम्‌ अपि लप्‍स्‍यते,“ परन्‍तु पत्रेभ्‍यो अन्‍यत्‌ न कित्र्चन तस्‍मिन्‌ अपश्‍यत्‌। यतः फलोद्‌गमस्‍यकालः तस्‍य न आसीत्‌। 14येशुः तं वृक्षम्‌ आह, “तव फलानि कदापि न भक्षयेत्‌ कोऽपि।” इदं वाक्‍यं शिष्‍याः अशृण्‍वन्‌।
मन्‍दिरात्‌ विक्रयकारिणां निष्‍कासनम्‌
(मत्ती 21:12-17; लूका 19:45-48; यूह 2:14-22)
15येशुः येरुसलेमम्‌ प्राप्‍तवान्‌। मन्‍दिरे प्रविश्‍य क्रयविक्रयकारिणः बहिः कर्तुम्‌ आरब्‍धवान्‌। तेन मुद्रापरिवर्तकानां वणिजां कपोतानां विक्रयकारिणां फलकानि अधोमुखीकृतानि। 16सः कस्‍मै नराय मन्‍दिरमध्‍येन पण्‍यद्रव्‍यं नेतुम्‌ न अनुमन्‍यत। 17जनान्‌ शिक्षयन्‌ अवदत्‌, “किम्‌ इदम्‌ न लिखितम्‌ - मम गृहं सर्वराष्‍ट्राणां प्रार्थनागृहम्‌ स्‍थास्‍यति। परन्‍तु युष्‍माभिः इदं दस्‍युगह्‌वरः निर्मितोस्‍ति।” 18इदम्‌ ज्ञात्‍वा शास्‍त्रिणः महापुरोहिताः तस्‍य विनाशाय यत्‍नकारिणः अभवन्‌। किन्‍तु ते तस्‍मात्‌ अबिभयुः, यतः जनाः मन्‍त्रमुग्‍धाः भूत्‍वा तस्‍य शिक्षां शृण्‍वन्‍ति स्‍म। 19सन्‍ध्‍याकाले समायाते येशुः नगरात्‌ बहिः गच्‍छति स्‍म।
विश्‍वासस्‍य शक्‍तिः
(मत्ती 21:20-22)
20दिवसारम्‍भे नगरात्‌ बहिः गच्‍छन्‍तः शिष्‍याः तम्‌ अंजीरं समूलं शुष्‍कं व्‍यलोकयन्‌। 21पतरसः तद्‌ वृत्तं स्‍मरन्‌ येशुम्‌ उक्‍तवान्‌, “गुरो! भवतः शापेन अयं वृक्षः शुष्‍कतां गतः।” 22येशुः तान्‌ अवदत्‌, “युष्‍माभिः प्रभौ विश्‍वासः कर्तव्‍यः। 23अहं युष्‍मान्‌ ब्रवीमि, यः कश्‍चित्‌ इमं पर्वतं कथयेत्‌, यत्‌ त्‍वम्‌ उत्‍पत्‍य अस्‍मिन्‌ महोदधौ निपत। मनसि सन्‍देहं त्‍यक्‍त्‍वा यदि विश्‍वसेत्‌ तेन प्रोक्‍तं तदवश्‍यं भविष्‍यति, तर्हि तस्‍य कृते तत्‌ तथैव सम्‍भविष्‍यति। 24अतः अहं युष्‍मान्‌ ब्रवीमि यूयं प्रार्थनायां यत्‌ वस्‍तु याचध्‍वे, बुध्‍यध्‍वम्‌, लब्‍धं, तद्‌ वः दास्‍यते च।
25प्रार्थनायां यदा यूयं वर्तध्‍वे, तर्हि यं प्रति युष्‍माकं मनसि वृत्तिविरुद्धा यदि वर्तते, तं क्षमध्‍वं, येन स्‍वर्गस्‍थः युष्‍माकं पिता अपि युष्‍माकम्‌ अखिलदोषान्‌ क्षमिष्‍यति।”
येशोः अधिकारे शंका
(मत्ती 21:23-27; लूका 20:1-8)
26ते सर्वे पुनः येरुसलेमं समागताः। येशुः मन्‍दिरे भ्रमन्‌ आसीत्‌ तदा महापुरोहिताः, धर्मवृद्धाः, शास्‍त्रिणः तस्‍य अन्‍तिकं समागत्‍य तम्‌ प्रष्‍टुम्‌ आरब्‍धवन्‍तः - 27“भवान्‌ केनाधिकारेण एतद्‌ कुर्वन्‌ अस्‍ति? भवान्‌ केन सर्वम्‌ कर्तुम्‌ अधिकृतः वर्तते?” 28येशुः तान्‌ प्रत्‍युवाच, “अहमपि युष्‍मान्‌ प्रष्‍टुमिच्‍छामि, युष्‍माभिः चेत्‌ मम प्रश्‍नस्‍य उचितम्‌ उत्तरम्‌ दीयते तर्हि केन अधिकारेण एतत्‌ सर्वम्‌ करोमि, अहमपि अस्‍य प्रश्‍नस्‍य उत्तरम्‌ दास्‍यामि। 29योहनस्‍य जलसंस्‍कारः स्‍वर्गतः वा मनुष्‍येभ्‍यः प्राप्‍तः। यूयं मम प्रश्‍नस्‍य उत्तरम्‌ ददध्‍वम्‌।” 30तदा सर्वे मिथः परामृश्‍य एवं बभाषिरे - यदि वयं ब्रूमः “स्‍वर्गात्‌” तर्हि असौ अस्‍मान्‌ प्रक्ष्‍यति, युष्‍माभिः तर्हि तस्‍मिन्‌ कथं विश्‍वासः न कृतः? 31तत्‌ कथं “मनुष्‍येभ्‍यः “इति चापि ब्रुवीमहि। ते जनेभ्‍यः अबिभयुः, यतः सर्वे योहनं नबिनम्‌ अमन्‍यन्‍त। अतः ते येशुं प्रत्‍यवोचन्‌, “वयं न जानीमः।” 32-33एतत्‌ श्रुत्‍वा येशुः तान्‌ अवदत्‌, “तदा अहमपि युष्‍मान्‌ न कथयिष्‍यामि, यत्‌ केन अधिकारेण एतत्‌ सर्वम्‌ अहम्‌ करोमि।”

های‌لایت

به اشتراک گذاشتن

کپی

None

می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید