मत्ति 11
11
1स्वान् द्वादशशिष्यान् इमान् अनुदेशान् दत्वा येशुः यहूदिनां नगरेषु शिक्षयति स्म, शुभसमाचारस्य प्रचाराय तत्रतः अगच्छत्।
जलसंस्कारदातुः योहनस्य प्रश्नाः
(लूका 7:18-28)
2योहनः, कारागारे एव मसीहस्य कार्याणां चर्चां श्रुत्वा स्वान् शिष्यान् येशोः अन्तिकम् इदं प्रष्टुम् अप्रेषयत्, 3”किं भवान् सः एव अस्ति यः आगन्ता अस्ति, अस्माभिः कश्चित् अन्यः वा प्रतीक्ष्यताम्?” 4येशुः तान् प्रत्युवाच, “गच्छत, यूयं यत् शृणुत, पश्यत वा तत् योहनं कथयत - 5अक्षिहीनाः वीक्षन्ते, पंगवः विचरन्ति, कुष्ठिनां शुद्धिः क्रियते, बधिराः शृण्वन्ति, मृतकाः उत्थापयन्ते, द्ररिद्रेभ्यः शुभसमाचारः श्रावयते। 6सः धन्यः अस्ति यस्य विश्वासः मयि स्थिरः वर्तते।
7तेषु शिष्येषु गच्छत्सु येशुः जनसमूहं योहनस्य विषये वक्तुम् प्रचक्रमे - यूयं निर्जनस्थले किं द्रष्टुम् जग्म? वायुना धूयमानं वेतसं? 8न चेत् यूयं किं वीक्षितुं अगच्छत, उत सुवाससं परिहितं मानवं द्रष्टुम्? सुन्दरवाससः राजभवनेषु सन्ति। 9ततः विनिर्गता यूयं कि द्रष्टुं? नबिनं किम्? अवश्यमेव ! अहं युष्मान् ब्रवीमि, नबितः महत्तरं नरम्। 10अयं सः एव यस्य विषये लिखितम् अस्ति - “पश्यत, अहं स्वदूतं युष्माकम् अग्रे प्रहिणोमि। सः तव अग्रे तव मार्गं प्रशस्तं करिष्यति।” 11अहं युष्मान् वदामि - योहनात् महत्तरः न कोऽपि अजायत्, तथापि स्वर्गराज्ये यः लघीयान्, सः योहनात् महत्तरः। 12योहनस्य समारभ्य समयात् अद्य यावत् स्वर्गराजस्य प्राप्तये बहु जनाः यतन्ते, किन्तु येषां हृदये उत्साहः अधिकः वर्तते, ते एव स्वर्गराज्याधिकारं लप्स्यन्ते।
13योहनजलसंस्कारदातारं यावत् नबिनः, व्यवस्थाग्रन्थाश्च अपि, सर्वे राज्यस्य विषये केवलं भविष्यवाणीम् अकुर्वन्। 14इच्छथ चेत् मां शृणुत यत् योहनः सः एव एलियाहः अस्ति यः आगन्ता आसीत्। 15यस्य श्रोत्रे स्तः शृणुयात्।
येशोः वंशावलीं धिक्
(लूका 7:31-35)
16“अहम् अस्य कुलस्य उपमां कैः सह करवाणि? एते जनाः हट्टेषु समासीनैः बालकैः सदृशास्तु ते सन्ति, ये स्वकीयान् सहयोगिनः समाहूय कथयन्ति - 17”अस्माभिः युष्माकं कृते वंशीवादनं कृतम्, परन्तु युष्माभिः न अनृत्यत, वयं अविलपाम, यूयं स्वम् उरः न अताडयत।
18यतः योहनः जलसंस्कारदाता आगच्छत्, यः न भुंक्ते न पिबति - जनाः ब्रुवन्ति असौ भूतेन आविष्टः वर्तते। 19मानवपुत्रः आगतवान्, य भुड्.क्ते, पिबति च, ते वदन्ति - पश्यत! एषः मद्यपः औदरिकः वर्तते। पापिनां, शुल्कसंग्राहकानां मित्रम् अस्ति। किन्तु परमेश्वरस्य प्रज्ञा परिणामैः उचिता प्रमाणिता कृता अस्ति।”
अविश्वासीनगराणि धिक्
(लूका 10:13-15)
20तदा येशुः तानि नगराणि धिक्कर्तुम् आरब्धवान्, यानि तस्य चमत्कारान् अपि दृष्ट्वा पश्चात्तापं न अकुर्वन्, 21धिक् त्वां खुराजिन! धिक् त्वां बेतसैदे! युवयोः मध्ये ये चमत्काराः मया कृताः, तत् सोरे सदोने च अकरिष्यत् चेत् ते शाणेन आत्मानम् आच्छाद्य, भस्मानि अंगेषु अनुलेप्य चेत् पश्चात्तापं अकरिष्यन्। 22अतएव त्वां ब्रवीमि - न्यायस्य दिवसे युवयोः द्वयोः दशायाः सदोमस्य दशा सह्यतरा भविष्यति। 23हे कफरनहूम! किं त्वम् दिवम् यावत् उथापयिष्यते? नहि! त्वम् अधोलोके पातयिष्यते, यत् चमत्कारकार्याणि त्वयि कृतानि सन्ति, तानि अद्य यावत् अस्थास्यन्ति। 24अतएव त्वं ब्रवीमि, न्यायस्यदिने त्वत्रः सदोमस्य दशा सहनीयतरा भविष्यति।
निर्दोषहृदयस्य प्रशंसा
(लूका 10:21-22)
25तदानीं येशुः अवदत् “पितः! हे स्वर्गमर्त्ययोः स्वामिन्, अहं त्वं स्तौमि। यतः त्वया एतत् सकलं वृत्तं सुविज्ञेभ्यः ज्ञानिभ्यः च निगूह्य शिशुभ्यः प्रकटीकृतम्। 26हे पितः! तुभ्यम् एतत् एव अरोचत। 27मम पिता मह्यम् सर्वम् समर्पितवान्। पितरं विहाय कश्चित् अपि पुत्रम् न जानाति। तथैव पितरं कोऽपि न जानाति, केवलं पुत्रं वेत्ति, सैव यस्मिन् पुत्रः तं प्रकटं कर्तुम् दयते।
प्रेमपूर्णनिमन्त्रणम्
28परिश्रान्ताः, भारेण समाक्रान्ताः च जनाः ! मम पार्श्वम् आयात, युष्मभ्यं मया विश्रामः दास्यते। 29मम युगं स्वेषु अर्पयत, मया शिक्षणम् च गृह्णीत। यतो अहं नम्रः विनीतश्च अस्मि। एवं कृते युष्माभिः आत्मनि शान्तिः लप्स्यते। 30मम युगः सह्यः, मम भारः लघुः वर्तते।
Pilihan Saat Ini:
मत्ति 11: SANSKBSI
Sorotan
Bagikan
Bandingkan
Salin
Ingin menyimpan sorotan di semua perangkat Anda? Daftar atau masuk
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.