मत्ति 23
23
शास्त्रिणां फरीसिनां च पाखण्डः
(मर 12:38,39; लूका 11:43,46; 20:45,46)
1तदानीं येशुः जनानां तं समूहं स्वांश्च शिष्यकान् प्राह, 2“शास्त्रिणः फरीसिनश्च मूसामहाशयस्य आसने आसीनाः, 3अतएव यत् ते वदन्ति, सर्वम् तद् अनुतिष्ठत, पालनीयं च तद् यत् तैः पालयितुं निगद्यते। 4-7परन्तु तेषां कार्याणाम् अनुसृतिः न कर्तव्या, यतस्ते यत् भाषन्ते, तत् स्वयं न हि कुर्वते। ते तु गुरुन् भारान् बद्ध्वा मानवानां स्कन्धेषु अर्पयन्ति, किन्तु भारान् अंगुल्यापि सारयितुं न प्रयतन्ते। ते तु कर्माणि लोकानां दर्शनाय एव कुर्वन्ति। ते पृथून् स्वीयान् पट्टबन्धान् तथा प्रलम्बकानि, सुदीर्घाणि स्ववस्त्राणि निर्मायन्ति। भोज्येषु प्रथमस्थानम्, सभागृहे श्रेष्ठस्थानम्, हट्टेषु प्रणामं च श्रवणनम्, जनतया “हे गुरो” रब्बिन् इत्यादयः सम्बोधनवचनानि च श्रोतुम् इच्छन्ति। 8-9“परन्तु यूयं स्वं गुरुवराः मा वदत, यतः युष्माकम् एकः एव पिता स्वर्गे वर्तते। 10यूयं स्वं धर्म-शिक्षकाः अपि मा मन्यध्वम्। यतः युष्माकम् एकः एव धर्मशिक्षकः वर्तते, सः अस्ति मसीहः। 11युष्मासु यः सर्वश्रेष्ठः, सः युष्माकं सेवकः भवेत्। 12यः आत्मनं सर्वलोकेषु नीचं मन्यते, असौ सर्वलोकानाम् उच्चस्थानं लप्स्यते।
पाखंडस्य कृते धिक्कारः
(लूका 11:39-42,44,47-48,52)
13“कपटिनः शास्त्रिणः फरीसिनश्च ! युष्मान् धिक् ! यूयं मानवानां कृते स्वर्गराज्यस्य द्वारं पिहितं कुरुथ; यूयं स्वयं न प्रविशथ। प्रविविक्षून् जनान् रोद्धुम् एव यत्निनः स्थ।
14“कपटिनः शािस़्त्रणः फरीसिनः च ! युष्मान् धिक् ! यूयं विधवानां सम्पत्तिम् खादथ। केवलम् प्रदर्शनाय दीर्घीम् प्रार्थनां कुरुथ। अस्मात् कारणात् युष्मभ्यम् अधिकदंडः लप्स्यते।
15“कपटिनः शास्त्रिणः फरीसिनः च ! युष्मान् धिक् ! यूयम् एकं मनुष्यं स्वसम्प्रदाये आनेतुम् प्रयत्नशीलाः भवथ। तस्मिन् तव सम्प्रदाये आगते सति, तं युष्मत् अपि नारकीयं कुरुध्वे।
16“अरे मूढाः अन्धाः पथप्रदर्शकाः ! युष्मान् धिक् ! यदि कश्चित् मन्दिरस्य शपते, तस्य किंचित् महत्वम् न अस्ति; परन्तु यदि कश्चन मन्दिरस्य स्वर्णपात्रस्य शपते, तदा सः शपथेन बद्धः भवति। 17अरे मूर्खाः अन्धाः च ! कः महत् वर्तते? सुवर्णस्य पात्रम्, मन्दिरं वा, येन तत् स्वर्णपात्रम् पवित्रम् भवति? 18यूयम् इदम् अपि वदथ-यदि कश्चन वेद्याः शपते, तदा अस्य किंचित् महत्वम् न अस्ति। परन्तु यदि कश्चन वेद्यां स्थितानाम् अर्पणस्य वस्तुनः शपते, तदा सः बद्धः भवति। 19अन्धाः ! कः महान् वर्तते-अर्पणस्य वस्तु, वेदी वा, येन तत् वस्तु पवित्रम् भवति? 20अतः यः वेद्याः शपते, सः तस्याः तथा तस्यां स्थितानां वस्तूनाम् शपते। 21यः मन्दिरस्य शपते, सः तस्य तथा तत्रस्थ निवासिनाम् शपते 22यः च स्वर्गस्य शपते, सः परमेश्वरस्य सिंहासनस्य तथा तस्मिन् विराजमानस्य शपते।
23“कपटिनः शास्त्रिणः फरीसिनः च ! युष्मान् धिक् ! यूयं पोदिनायाः तथा मधुरायाः जीरकस्य दशांशान् प्रयच्छथ, परन्तु धर्म-व्यवस्थायाः महीयसः वचनानाम् -न्यायस्य, करुणायाः विश्वासस्य उपेक्षध्वे। एतेषाम् अनुष्ठानम् तव कृते उचितम् आसीत्। 24अन्धाः पथप्रदर्शकाः ! युष्माभिः वारि संशोध्य तस्मात् मशकः निःसार्यते, किन्तु उष्ट्रं गिरथ।
25“कपटिनः शास्त्रिणः फरीसिनः च ! युष्मान् धिक् ! युष्माभिः स्थालस्य चषकस्य अपि बहिः शुद्धिः विधीयते, किन्तु तौ अन्तस्तलेन तु परस्य आहरणेन, असंयमेन च पूर्णौ स्तः।
26रे अन्धाः फरीसिनः ! पूर्वम् स्थालस्य, पानपात्रस्य अन्तर्देंशं शुचीकुरुत, येन स्वयं बहिः देशः अपि शुदि्धं लप्स्यते।
27“अरे कपटिनः शास्त्रिणः फरीसिनः च ! युष्मान् धिक् ! यूयं सुधासिक्तशवस्य आगाराणां सदृशाः स्थ, यानि बहिः देशात् भान्ति, परन्तु अन्तर्देशात् तु तानि शवानाम् अस्थिभिः कुवस्तुभिः पूर्णानि सन्ति। 28यूयम् अपि बहिः एवं धार्मिकाः प्रतीयध्वे, परन्तु अन्तस्तलं तु अधर्मेण छलेन च पूर्णम् अस्ति। 29कपटिनः शास्त्रिणः फरीसिनः च ! युष्मान् धिक् ! यूयं नबिनां शवागाराणि, धर्मिणाम् स्मारकान् सुसज्जिातान् कुरुथ। 30एवं कथयथ - चेत् वयं पूर्वजानां युगे अभविष्याम तदा नबिनां वधे तेषां साहाय्यं न अकरिष्याम। 31इत्थम् यूयं स्वतः स्वविरुद्धम् साक्ष्यं प्रयच्छथ यत् यूयं नबिनां वधकारिणाम् सन्तानाः स्थ। 32अतः युष्माकं पूर्वजैः यत् कार्यम् पूर्णताम् न नीतम्, तत् पूर्णम् कर्तुम् यत्नं कुरुत।
शास्त्रिणां फरीसिनां च दण्डः
33“रे सर्पाः ! कृष्णसर्पाणाम् आत्मजाः ! यूयं नरकदण्डेभ्यः कथं निस्तारम् एष्यथ? 34पश्यत ! अहं युष्माकं समीपं नबिनः ज्ञानिनः शास्त्रिणः च प्रेषयामि। यूयं तेषु कांश्चित् हनिष्यथ। कांश्चित् क्रूसम् आरोपयिष्यथ, कांश्चित् सभागृहेषु कशाघातैः हनिष्यथ। कांश्चित् प्रतिनगरे पीडयिष्यथ, 35येन संसारे धर्मात्मानाम् रक्तम् वाहितम्, धर्मात्मनः हाबिलस्य रक्तम् आरभ्य बेरेकयाहस्य पुत्रस्य जकर्याहस्य रक्तं यावत्, यः मन्दिरस्य तथा वेद्याः मध्ये युष्माभिः हतः, तत् सर्वम् युष्माकं शिरसि एव पतेत्। 36अहम् युष्मान् सत्यं ब्रवीमि एतत् सर्वम् अस्य वंशस्य शिरसि पतिष्यति।
येरुसलेमं प्रति विलापः
(लूका 13:34-35)
37“हा येरुसलेम ! हा येरुसलेम ! त्वं नबिनां वधं करोषि। तव समीपं च प्रेषितान् संदेशवाहकान् प्रस्तरैः हंसि। अहं कति बारं इयेष तव सन्तानान् तथैव एकत्रान् करवाणि यथा कुकुट्टी स्व सन्तानान् एकत्रान् करोति, मां कर्तुम् न अददाः।
38पश्यत इदानीं युष्माकं गृहाणि विरहितानि भविष्यन्ति। 39अहं युष्मान् ब्रवीमि यूयं माम् अतः परं न द्रक्ष्यथ, यावत् एतत् न वदिष्यथ, “धन्यः असौ यः प्रभोः नाम्नि आयाति।”
Pilihan Saat Ini:
मत्ति 23: SANSKBSI
Sorotan
Bagikan
Bandingkan
Salin
Ingin menyimpan sorotan di semua perangkat Anda? Daftar atau masuk
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.