मत्ति 7

7
अन्‍येषु दोषारोपणं न विधेयम्‌
(लूका 6:37-38,41-42)
1“अन्‍यस्‍मिन्‌ दोषारोपणं कदाचन मा विधत्त, येन युष्‍मासु दोषस्‍य आरोपणं न भवेत्‌। 2यथा यूयम्‌ अन्‍यस्‍मिन्‌ दोषम्‌ आरोपयथ, तथैव युष्‍मासु दोषारोपः विधास्‍यते। यूयम्‌ अन्‍येषां कृते येन मापेन मिमीध्‍वे, युष्‍मभ्‍यम्‌ चापि तेनैव मायिष्‍यते न संशयः। 3स्‍वनेत्रस्‍थं धरणकाष्‍ठं यदा न अवगच्‍छथ, तदा स्‍वभ्रातृचक्षुस्‍थं तृणकं कथं वीक्षध्‍वे? 4यदा युष्‍माकं नेत्रयोः एव धरणकाष्‍ठं विद्‌यते, तदा स्‍वभ्रातरं यूयं कथम्‌ एवं वदिष्‍यथ, भ्रातः! तव नेत्रे तृणकं विद्‌यते, कष्‍टप्रदं तव नेत्रं, तदा स्‍वभ्रातरम्‌ कथं वक्‍तुं शक्‍नोषि, तव नेत्रस्‍य तत्‌ तृणकम्‌ बहिः करोमि किम्‌? 5रे कपटिनः! पूर्वम्‌ युष्‍माकं नेत्रे स्‍थितं यत्‌ धरणकाष्‍ठं, तस्‍य एव कुरुत उद्‌धरणं द्रुतम्‌, ततः यूयं स्‍वभ्रातृचक्षुस्‍थं तृणकं समुद्‌धर्तुम्‌ अतिस्‍पष्‍टं द्रष्‍टुं शक्‍तो भविष्‍यथ।
अपवित्रीकरणम्‌
6“स्‍वीयं पवित्रं वस्‍तु कुक्‍कुराय मा प्रयच्‍छत। स्‍वमुक्‍ताः शूकरसम्‍मुखम्‌ नैव निक्षिपत। कुत्रचित्‌ एवं न भवेत्‌ यत्‌ कुक्‍कुराः शूकराश्‍च स्‍वकैः पादैः तान्‌ मदि्‌र्दष्‍यन्‍ति, परावृत्‍य च युष्‍मान्‌ ध्रुवम्‌ एव विदारयिष्‍यन्‍ति।
प्रार्थनायाः प्रभावः
(लूका 11:9-13)
7“याचध्‍वं, युष्‍मभ्‍यम्‌ अवश्‍यं सम्‍प्रदास्‍यते। अन्‍विष्‍यत, यूयम्‌ लप्‍स्‍यध्‍वे, द्वारम्‌ आहत, युष्‍मभ्‍यं तद्‌ भविष्‍यति अनावृतम्‌। 8यतो हि याचते, तस्‍मै दीयते, यः अन्‍विष्‍यति, सः लभते ध्रुवम्‌। यः कश्‍चित्‌ द्वारम्‌ आहति, तस्‍मै द्वारं उद्‌घाट्‌यते।
9यदि युष्‍माकं पुत्रः रोटिकां याचते, युष्‍मासु तादृशः कोऽस्‍ति, यः तस्‍मै प्रस्‍तरं दास्‍यति, 10अथवा यदि पुत्रः मीनं याचते, तस्‍मै सर्पम्‌ दास्‍यति? 11दुर्जनाः अपि चेद्‌ यूयं स्‍व अपत्‍येभ्‍यः शुभानि वस्‍तूनि यच्‍छथ, तर्हि युष्‍माकं स्‍वर्गिकपिता स्‍वयाचकेभ्‍यः कथं शुभानि वस्‍तूनि न वितरिष्‍यति?
स्‍वर्णिमनियमः
(लूका 6:11)
12“यादृशम्‌ आचारं यूयम्‌ अपरैः इच्‍छथ, यूयम्‌ अपि तेषां प्रति तथैव कुरुथ; इयम्‌ एव व्‍यवस्‍थायाः नबिनां शिक्षा अस्‍ति।
मार्गद्वयम्‌
(लूका 13:24)
13“संकीर्णद्वारेणैव सदा प्रविशत। मार्गः यः च विशालः अस्‍ति, यस्‍य हि गोपुरं विस्‍तृतमस्‍ति, सः विनाशं प्रति नयति। तेन प्रवेशकर्त्रृणां संख्‍या अवर्धत। 14यः संकुचितः मार्गः अस्‍ति, तस्‍य गोपुरम्‌ संकीर्णमस्‍ति सः मार्गः जीवनं प्रति नयति। ये तं लभन्‍ते तेषां संख्‍या अल्‍पा अस्‍ति।
असत्‍यभाषिणः नबिनः
(लूका 6:43-44)
15“असत्‍यभाषिभ्‍यः नबिभ्‍यः अवहिताः स्‍थ। ते सर्वे युष्‍माकम्‌ अंतिकं मेषवेशाः समायान्‍ति। अन्‍तरे ते तु वर्तन्‍ते वृकाः दुष्‍टाः ग्रसिष्‍णवः। 16फलैरेव हि तेषां यूयं तान्‌ परिचेष्‍यथ। अवचिन्‍वन्‍ति किं लोका द्राक्षाः कण्‍टकगुल्‍मतः स्‍वादूनि गोक्षुरकेभ्‍यः उडूम्‍बरफलानि च। 17एवं सर्वे सुतरवो ददते सुफलानि। जनयन्‍ति कुवृक्षास्‍तु कुफलान्‍येव सर्वदा, 18प्रदातुं नैव शक्‍नोति कुफलानि सुवृक्षकः, तथा कुवृक्षकः सुफलानि दातुं न शक्‍नोति। 19यश्‍च दत्ते न सुफलं सर्वः वृक्षः तादृशः तथा उच्‍छिद्‌यते, जनैः अग्‍नौ ध्रुवं प्रक्षिप्‍यते। 20अतः तेषां फलैः यूयं तान्‌ यथार्थतः परिज्ञातुं शक्ष्‍यथ।
कथनं करणं च
(लूका 13:26-27)
21“ये जनाः मां प्रभो! प्रभो! इति उक्‍त्‍वा आह्‌वयन्‍ति, ते सर्वे स्‍वर्गराज्‍ये न प्रवेक्ष्‍यन्‍ति। यः मम पितुः अभीष्‍टम्‌ आचरति, स्‍वर्गराज्‍ये तस्‍य एव प्रवेशः सम्‍भविष्‍यति। 22अमुष्‍मिन्‌ दिवसे अनेके मां वक्ष्‍यन्‍ति, प्रभो! अस्‍माभिः किं भवतः नाम्‍ना भविष्‍योक्‍तिं न घोषिता? भवतः नाम्‍ना किम्‌ अस्‍माभिः अपदूताः न बहिष्‍कृताः? किं भवतः नाम्‍ना अस्‍माभिः चमत्‍काराः न प्रदर्शिताः। 23तदा अहं स्‍पष्‍टं वदिष्‍यामि मया यूयं सर्वे नैव कदाचन अभिज्ञाताः, यूयं स्‍वर्गराज्‍ये न प्रविष्‍यथ। कुकर्मिणः मत्तः दूरम्‌ अपसरत।
शिला बालुकाभित्तिश्‍च
(लूका 6:47-49; 4:32; मर 1:22)
24“यः मम इमानि वाक्‍यानि श्रुत्‍वा तस्‍मिन्‌ चलति, सः चतुरमनुष्‍यसदृशः वर्तते, येन स्‍वभवनं शिलायाः उपरि निर्मितम्‌। 25तुमुलवृष्‍टिः अभवत्‌, नदीषु ओघः आगतः, प्रचंडवायुः अवहत्‌, तथापि तत्‌ गृहं न पतितम्‌, यतः तत्‌ शिलायाः उपरि दृढेन भित्तिमूलेन स्‍थितम्‌ आसीत्‌। 26मद्‌वाक्‍यानि निशम्‍य अपि यः न तथा वर्तयते, सः तु मूढसदृशः अस्‍ति, यः स्‍वगेहं सिकतायाः उपरि निर्मितवान्‌, 27तत्‌ धराशायितां गतम्‌, तस्‍य सर्वनाशः च अभवत्‌।”
28येशोः उपदेशे सम्‍प्राप्‍ते गते, जनाः आश्‍चर्यचकिताः आसन्‌, 29यतः सः तेषां शास्‍त्रिणाम्‌ सदृशः नहि अपितु साधिकारं तेभ्‍यः शिक्षाम्‌ अददात्‌।

Sorotan

Salin

Bandingkan

Bagikan

None

Ingin menyimpan sorotan di semua perangkat Anda? Daftar atau masuk

Video untuk मत्ति 7