मत्ति 2

2
ज्‍योतिषिनाम्‌ आगमनम्‌
1येशोः जन्‍म यहूदाप्रदेशस्‍य बेतलेहेमनगरे नृपहेरोदेसस्‍य समये अभवत्‌। तं बालकं दिदृक्षवः ज्‍योतिर्विदः समायाताः, येरुसलेमम्‌ आगत्‍य तं नराधिपं हेरोदेसं पप्रच्‍छुः, 2“यहूदिनां नवजातः नृपः कुत्र अस्‍ति? अस्‍माभिस्‍तस्‍य नक्षत्रम्‌ उदितं समदृश्‍यत। अतो वयं नमस्‍कर्तुम्‌ राजानं तं समागताः।”
3इदं श्रुत्‍वा हेरोदेसेन सह समस्‍तयेरुसलेमः उद्‌विग्‍नः अभवत्‌। हेरोदेसः यहूदिजातिविदुषां सभाम्‌ एकाम्‌ अकारयत्‌। 4तान्‌ मसीहस्‍य जन्‍मवृतान्‍तं सादरम्‌ अपृच्‍छत्‌ च। ततः शास्‍त्रज्ञानिनः सर्वे सुविचार्य बभाषिरे - 5“बेतलेहेम नामके नगरे,” यतो हि नबिना पूर्वम्‌ एतत्‌ लिखितम्‌ अस्‍ति यत्‌, 6बेतलेहेम ! यहूदाप्रदेशस्‍य नगर ! त्‍वं कथत्र्चन हि यहूदाप्रदेशस्‍य प्रमुखनगरेषु क्षोदिष्‍ठं न वर्तसे; यतः त्‍वत्तः एकः महान्‌ नेता उत्‍पत्‍स्‍यते, सः मम प्रजायाः इस्राएलस्‍य पशुचारकः भविष्‍यति।
7नबिप्रोक्‍तं तत्‌ वचनं समाकर्ण्‍य तेन पूर्वदेशात्‌ समागताः ज्‍यौतिषिकाः पृष्‍टाः - “कदा दृष्‍टं हि नक्षत्रं सत्‍यं ब्रूत मम अग्रतः। ततो राजा तान्‌ सर्वान्‌ ज्‍योतिषिकान्‌ आदिदेश - 8बेतलेहेमनगरं गत्‍वा यूयं बालं दृष्‍ट्‌वा माम्‌ विज्ञापयत येन अहम्‌ अपि तत्र एव गत्‍वा बालकं पश्‍यामि।
9नृपतेः वाक्‍यं श्रुत्‍वा ज्‍यौतिषिकाः तत्रतः प्रतस्‍थिरे। व्‍योम्‍नि यद्‌ नक्षत्रं विलोकितम्‌, तत्‌ तेषाम्‌ अग्रे अचलत्‌। बेतलेहमनगरे यस्‍मिन्‌ गृहे असौ बालकः आसीत्‌, तत्र चलत्‌ तत्‌ हि नक्षत्रम्‌ अतिष्‍ठत्‌। 10ते नक्षत्रं दृष्‍ट्‌वा अति प्रसन्‍नाः आसन्‌। 11गृहे प्रविश्‍य ते बालकं तस्‍य मात्रा मेरया सह अपश्‍यन्‌, ते भूमौ निपत्‍य दण्‍डवत्‌ प्राणमन्‌। तस्‍मै स्‍वर्णम्‌, कुंदुंरं गंधरसं च अर्पयन्‌। 12स्‍वप्‍ने निदेशं प्राप्‍य हेरोदेसस्‍य पार्श्‍वे न प्रत्‍यागच्‍छन्‌, अपरेण मार्गेण स्‍वदेशं गतवन्‍तः।
मिश्रदेशे प्रवासः
13तेषां गमनस्‍य पश्‍चात्‌ प्रभोः दूतः स्‍वप्‍ने यूसुफम्‌ अदृश्‍यत, अवदत्‌ च “निद्रां त्‍यज! मात्रा सह बालकं नीत्‍वा क्षिप्रं मिश्रदेशं प्रयाहि। यावत्‌ त्‍वां अन्‍यत्र गन्‍तुम्‌ अहं न वदामि, तावत्‌ तत्रैव तिष्‍ठ, यतः राजा हेरोदेसः एतं बालकं हन्‍तुम्‌ इच्‍छति। सः दुर्मतिः केन अपि उपायेन अन्‍वेष्‍टुं चेष्‍टते। अथ दूतस्‍य उक्‍तौ प्रत्‍ययात्‌ 14तस्‍यां रात्रौ एव यूसुफः पुत्रं पत्‍नीं च आदाय मिस्रदेशं प्रयातवान्‌। 15सः हेरोदेसस्‍य मृत्‍युं यावत्‌ तत्र एव अनिवसत्‌, - येन भविष्‍यवक्‍तुः मुखेन प्रभुना यत्‌ कथितम्‌, तत्‌ पूर्णम्‌ भवेत्‌ - “मया मिश्रदेशात्‌ स्‍वपुत्रः आहूतः।”
बालकानां हत्‍या
16अहं ज्‍यौतिषिकैः वत्र्चितोऽस्‍मि इति ज्ञात्‍वा हेरोदेसः अत्‍यन्‍तः क्रुद्धः भूत्‍वा स्‍वभृत्‍यकान्‌ आदिदेश - “बेतलेहेमनगरं गत्‍वा शीघ्रं ममाज्ञया, तत्र ये बालकाः सन्‍ति तेषां वधः विधीयताम्‌।” ते भृत्‍याः यथा आज्ञप्‍ताः बेतलेहमनगरे तथा तत्‍पार्श्‍ववर्तिषु स्‍थानेषु गत्‍वा, ज्‍यौतिषिकैः यथाप्रोक्‍तं तदवस्‍थानुसारतः, नवप्रसूतान्‌, वयद्वयवयांसि स्‍थितान्‌ अथवा अल्‍पवयस्‍कान्‌ सर्वान्‌ तान्‌ बालकान्‌ अन्‍विष्‍य जध्‍नुः। 17यिर्मयाहेन नबिना उक्‍तम्‌ इदं वचनं पूर्णम्‌ अभवत्‌ - 18“रामाहे दारुणं विलापस्‍य श्रुतिम्‌ आयातम्‌। “राहेल” इति नाम एका नारी स्‍वसुतान्‌ अनुशोचन्‍ती अनारतम्‌ रोदिति, कस्‍मै अपि सान्‍त्‍वनां दातुं न ददाति, यतः तस्‍याः सर्वे बालकाः अम्रियन्‍त।”
मिश्रदेशात्‌ प्रत्‍यावर्तनम्‌
19हेरोदेसस्‍य मृत्‍योः पश्‍चात्‌ प्रभोः दूतः मिश्रदेशे यूसुफं स्‍वप्‍ने पुनः अदृश्‍यत, 20अवदत्‌ च - “उत्तिष्‍ठ! बालकेन सह तस्‍य मातरं नीत्‍वा इस्राएलदेशं गच्‍छ; यतः बालकस्‍य प्राणहर्ता अम्रियत।” 21यूसुफः उत्‍थितवान्‌, बालकेन सह तस्‍य मातरम्‌ इस्राएलदेशम्‌ आनयत्‌। 22अरखिलाउसः स्‍व पितुः स्‍थाने यहूदाप्रदेशे राज्‍यं करोति, इति श्रुत्‍वा सः अबिभेत्‌। स्‍वप्‍ने च प्रबोधनं प्राप्‍त्‍वा गलीलप्रदेशम्‌ आगच्‍छत्‌। 23तत्र स नासरतः नाम नगरे पुत्रपत्‍नीसमन्‍वितः अवसत्‌। इत्‍थं नबिनाम्‌ इदं वचनं पूर्णम्‌ अभवत्‌ - “अयं नासरी” कथयिष्‍यते।”

하이라이트

복사

비교

공유

None

모든 기기에 하이라이트를 저장하고 싶으신가요? 회원가입 혹은 로그인하세요

मत्ति 2 동영상