लूका 17

17
प्रभोः येशोः प्रमुखाः उपदेशाः-पापम्‌
(मत्ती 18:6-7; मर 9:42)
1येशुः स्‍वान्‌ शिष्‍यान्‌ अवदत्‌ - “स्‍खलनं ध्रुवम्‌। किन्‍तु स्‍खलनहेतवः ये सन्‍ति, ते धिक्‍कार्याः। 2क्षुद्राणामपि जन्‍तुनाम्‌ एकस्‍य अपि कृते नरः पापहेतुश्‍च जायते, तस्‍य कंठे तु पेषणीम्‌ वद्‌ध्‍वा सागरे तस्‍य निमज्‍जनम्‌ वरम्‌ अस्‍ति, 3अतः सावधानाः स्‍थ सर्वदा।” s क्षमाशीलता
(मत्ती 18:15,21-22)
“यदि कश्‍चित्‌ तव भ्राता त्‍वां प्रति पापं चरति, तं भर्त्‍सय, अनुतापं चेत्‌ कुरुते तर्हि क्षम्‍य। 4एकस्‍मिन्‌ दिवसे त्‍वां प्रति सप्‍तवारं पापं कृत्‍वा, पुनः सप्‍तवारं समागत्‍य वदति - “भ्रातः! अहम्‌ भृशम्‌ अनुतापेन अन्‍तज्‍वालं ज्‍वलामि, तं क्षमस्‍व।”
विश्‍वासः
(मत्ती 17:20-21; मर 11:23)
5प्रेरिताः येशुम्‌ अवदन्‌, “अस्‍माकं विश्‍वासम्‌ वार्धयेत्‌।” ततः येशुः प्रत्‍युवाच - “युष्‍माकं हृदये यदि सर्षपबीजतुल्‍योऽपि विश्‍वासः वर्तते, तर्हि पुरः स्‍थितं वृक्षम्‌ एनम्‌ नूप्‍दस्‍य वृक्षं वदत - 6“त्‍वं उन्‍मूलयित्‍वा भूत्‍वा सागरे रोपितः भव, सः युष्‍माकम्‌ एताम्‌ आज्ञाम्‌ अवश्‍यं पालयिष्‍यति।”
विनम्रता
7“युष्‍माकं कस्‍यचित्‌ दासः हलवाहनम्‌ विधाय, पशूनां चारणं वा कृत्‍वा क्षेत्रात्‌ निवर्तते, चेत्‌ तदा युष्‍मासु को इदृशः वर्तते, यः तं वदिष्‍यति, “आगच्‍छ भोजनम्‌ कर्तुम्‌ शीघ्रम्‌ अत्र उपविश? 8किं सः तं दासम्‌ एवं न वदिष्‍यति, मम आहारं शीघ्रं प्रस्‍तुतं कुरु। यावत्‌ मम भोजनं पानकं च न प्रवर्तते, तावत्‌ वद्‌धकटिस्‍त्‍वं मम परिचर्याम्‌ कुरु। ततः त्‍वमपि खादनं पानं च कुरु? 9किमसौ सेवकः, तस्‍य स्‍वामी तं यत्‌ आदिष्‍टवान्‌, तदसौ कृतवान्‌, इति हेतोः सः तं प्रति आभारं प्रदर्शयति? 10युष्‍माकं सर्वेषाम्‌ इयमेव दशा वर्तते। अतः सर्वान्‌ आदेशान्‌ अनुपाल्‍य प्रभोः अग्रे वदत, वयम्‌ अयोग्‍याः दासाः स्‍म अस्‍माभिः केवलम्‌ कर्तव्‍यमात्रं कृतम्‌।”
दश कुष्‍ठिनः
11येशुः येरुसलेमनगरं प्रति गच्‍छन्‌, 12समारियायाः तथा गलीलप्रदेशानाम्‌ सीमाक्षेत्राणाम्‌ अन्‍तरस्‍थितम्‌ कस्‍मिन्‌ ग्रामे दशकुष्‍ठिनः दृष्‍टवान्‌। 13ते कुष्‍ठिनः दूरस्‍थाः एव उच्‍चैः इदम्‌ अवदन्‌ - “हे येशो! हे गुरो! त्‍वम्‌ अस्‍मासु दयस्‍व।” 14येशुः तान्‌ अवलोक्‍य आह - “याजकान्‌ उपगच्‍छत। उपगम्‍य यूयं तान्‌ दर्शयत।” तस्‍मिन्‌ विश्‍वस्‍य कुष्‍ठिनः प्रस्‍थिताः, किन्‍तु पथ्‍येव सर्वे निरामयाः जाताः। 15तेषु एकः आत्‍मनम्‌ निरामयम्‌ अवलोक्‍य, प्रत्‍यावर्त्‍य उच्‍चस्‍वरेण येशोः अस्‍तौत्‌। 16येशवे धन्‍यवादं निवेदयन्‌ तस्‍य पादयोः न्‍यपतत्‌, असौ समारितानी आसीत्‌। 17येशुः तदा तं पप्रच्‍छ “किं दशस्‍वस्‍थाः नाभवन्‌। यदि सर्वे स्‍वस्‍थाः जाताः, कुत्र नव सन्‍ति? 18अस्‍माद्‌ विदेशिनः कश्‍चिदन्‍यः किं न लक्षितः, यः प्रत्‍यावृत्‍य परमेश्‍वरं स्‍तूयात्‌।” 19ततः परम्‌ येशुः तं प्रति प्राह - “उत्तिष्‍ठ, गच्‍छ, स्‍वकीयेन विश्‍वासेन उद्‌धृतः असि।”
परमेश्‍वरस्‍य राज्‍यस्‍यागमनम्‌
20एकदा फरीसिनः येशुम्‌ अपृच्‍छन्‌ परमेश्‍वरस्‍य राज्‍यं कदा आयास्‍यति। तदा येशुः तान्‌ जगाद - “परमेश्‍वरस्‍य राज्‍यं प्रकटरूपे न आगच्‍छति। 21जनाः वक्‍तुम्‌ न शक्ष्‍यन्‍ति - पश्‍यत! अत्र सः वर्तते, अथवा पश्‍यत! सः तत्र वर्तते, यतः प्रभो राज्‍यं युष्‍माकमेव मध्‍ये वर्तते।”
प्रभोः पुनरागमनम्‌
(मत्ती 24:23-28,34-41)
22येशुः स्‍वान्‌ शिष्‍यान्‌ जगाद - “समयः ईदृशः आयास्‍यति यदा यूयं मानवपुत्रस्‍य एकम्‌ दिनम्‌ द्रष्‍टुम्‌ उत्‍सुकाः भविष्‍यथ किन्‍तु न शक्ष्‍यथ। 23जनाः युष्‍मान्‌ वक्ष्‍यन्‍ति, पश्‍यत सः अत्र वर्तते; अथवा तत्र सोऽस्‍ति; तदा यूयं तत्र न गमिष्‍यथ, तत्र न धाविष्‍यथ। 24यथा विद्‌युत्‌ आकाशस्‍य एकभागतः निःसृत्‍य चापरं भागं विद्‌योतते, तथा मानवपुत्रः अपि स्‍वे दिने प्रतिभास्‍यति। 25प्रथमं तेन बहूनि दुःखानि सोढव्‍यानि, सर्वश्‍च लोकनिचयः एतद्‌युगसमुद्‌भवः अमन्‍यमानः तं, तस्‍य प्रत्‍याख्‍यानं करिष्‍यति।”
26“यद्‌ यद्‌ नूहकालेषु अभवत्‌, तत्‌ तत्‌ मानवपुत्रकालेऽपि सम्‍भविष्‍यति। 27नूहस्‍य पोतारोहदिनं यावत्‌ जनाः अश्‍नन्‍ति स्‍म, पिबन्‍ति स्‍म तथा उद्‌वहन्‍ति स्‍म। तदा जलप्‍लवः आगत्‍य सर्वम्‌ जगत्‌ अनश्‍यत्‌। 28लोटस्‍य दिवसेष्‍वपि तदेव सकलं जातम्‌। सर्वे आश्‍नन्‌ तथा अपिबन्‌, अक्रीणन्‌ व्‍यक्रीणन्‌ तथा वृक्षाणां रोपणं गेहनिर्माणं च अकुर्वन्‌। 29यस्‍मिन्‌ दिने लोटः सोदोमतः प्रत्‍यागच्‍छत्‌, तस्‍मिन्‌ दिने व्‍योमनः वह्निगन्‍धकौ वर्षन्‍तौ सर्वमेव चराचरम्‌ अनश्‍यताम्‌। 30मानवपुत्रस्‍य आविर्भावस्‍य दिने अपि तत्‌ सर्वम्‌ तथैव भविष्‍यति।”
31“अतः तस्‍मिन्‌ दिने यः गृहपृष्‍ठके स्‍थितः स्‍यात्‌, तथा च तस्‍य वस्‍तूनि गृहमध्‍ये स्‍थितानि चेत्‌, असौ तानि गृहीतुम्‌ अधः न आगच्‍छेत्‌। क्षेत्रस्‍थः यः, सोऽपि गृहं न आगच्‍छतु। 32यूयं लोटस्‍य पत्‍नीं स्‍मरत। 33यः स्‍वजीवनं रक्षितुं यतिष्‍यते असौ तत्‌ नशिष्‍यति, यः स्‍वजीवनं नशिष्‍यति, तस्‍य जीवनं सुरक्षितं भविष्‍यति।
34अहं युष्‍मान्‌ ब्रवीमि - “तस्‍यां रात्रौ शयानयोः, एकस्‍यां खट्‌वायामेकः उत्‍थापयिष्‍यते, अन्‍यस्‍तु तत्रैव परित्‍यक्ष्‍यते। 35-36युगपत्‌ पेषणीकार्ये रतयोः योषितयोः तयोः एका ग्रहीष्‍यते अन्‍यतरा परित्‍यक्ष्‍यते।” 37तदा शिष्‍याः तम्‌ अपृच्‍छन्‌ - प्रभो! तत्‌ कुत्र भविष्‍यति? येशुः प्रत्‍युवाच, “यत्र शवः भवन्‍ति, तत्रैव गृध्राः अपि एकत्राः भविष्‍यन्‍ति।”

Podkreślenie

Udostępnij

Kopiuj

None

Chcesz, aby twoje zakreślenia były zapisywane na wszystkich twoich urządzeniach? Zarejestruj się lub zaloguj