लूका 19

19
शुल्‍कग्राही जकेयुसः
1येशुः येरीहोनगरं प्रविश्‍याग्रे गच्‍छन्‌ आसीत्‌। 2जके्‌युसः अभिधः एकः जनः आसीत्‌। सः धनवान्‌ आसीत्‌। 3सः येशुं द्रष्‍टुम्‌ इच्‍छति स्‍म। परन्‍तु असौ लघुकायः आसीत्‌, अतः जनसम्‍मर्दतः येशुं द्रष्‍टुम्‌ न शशाक। 4अतः अग्रे धावित्‍वा उडुम्‍बरस्‍य वृक्षम्‌ आरूढ़वान्‌। 5येशुः तत्र समागत्‍य उन्‍मुखीभूय तं जगाद, “हे जकेयुस! वृक्षतः अधः शीघ्रं आगच्‍छ, अद्‌यः मया तव गृहे स्‍थातव्‍यम्‌। 6असौ शीघ्रम्‌ अवतीर्य येशुं स्‍वगृहमानयत्‌ स्‍वागतं च कृतवान्‌। 7एतत्‌ दृष्‍ट्‌वा सकलाः लोकाः ईर्ष्‍ययेदं मिथः अवदन्‌, “असौ पापिष्‍ठस्‍य गृहं प्रविष्‍टः अस्‍ति।”
8सः दाढ्‌र्येन येशुम्‌ एतत्‌ अब्रवीत्‌, “प्रभो! पश्‍य स्‍वकीयस्‍य सर्वस्‍वस्‍यांशमदर्धकम्‌ दीनेभ्‍यः वितरिष्‍यामि, तथा यदि कस्‍यचित्‌ मृषादोषम्‌ आरोप्‍य किमप्‍यपहृतं तर्हि तस्‍मै तस्‍य चतुर्गुणम्‌ प्रत्‍यर्पयिष्‍यामि।” 9येशुः तमाह, “अद्‌यः अस्‍मिन्‌ गृहे मुक्‍तिः समागता, यतः अयमपि अब्राहमस्‍य सन्‍तानः वर्तते। 10प्रनष्‍टं समन्‍वेष्‍टुं तमेव रक्षितुम्‌ मानवपुत्रः जगतीतले अवतीर्णः वर्तते।”
स्‍वर्णमुद्रायाः दृष्‍टान्‍तः
(मत्ती 25:14-30)
11श्रोतारः एतानि वचनानि शृण्‍वन्‍तः आसन्‌, तदा येशुः एकम्‌ अन्‍यं दृष्‍टान्‍तम्‌ प्रोक्‍तवान्‌, “यतः येशुं येरुसलेमं निकषा प्राप्‍य ते अवगच्‍छन्‌ यत्‌ परमेश्‍वरस्‍य राज्‍यं शीघ्रमेव आविर्भविष्‍यति। 12येशुः जगाद, “कश्‍चित्‌ उच्‍चवंशस्‍य मानवः राज्‍यपदं प्राप्‍त्‍वा प्रत्‍यागन्‍तुम्‌ दूरदेशं गतवान्‌। 13प्रस्‍थानस्‍य पूर्वम्‌ दश दासान्‌ आहूय, तेभ्‍यः दशस्‍वर्णमुद्राः दत्त्वा अब्रवीत्‌, “यावत्‌ अहम्‌ आगच्‍छामि तावत्‌ व्‍यापारम्‌ कुरुत।”
14“तत्‍पुरवासिनः तस्‍मै द्रुह्‌यन्‍ति स्‍म, अतः दूतान्‌ प्रहित्‍य तत्‍पश्‍चादेवं ते निवेदयन्‌, असौ नरः अस्‍माकं राजा कथत्र्चन न स्‍याद्‌। यतः तस्‍य राजत्‍वम्‌ अस्‍माभिः न अभिमन्‍यते।
15“सः राजपदं प्रात्‍वा पुनरागतः। तदा सः तेषां दासानां येभ्‍यः मुद्राः अर्पयत्‌, आहवयत्, यतः केन किम्‌ अर्जितम्‌ व्‍यापारेण इति ज्ञातुम्‌ इच्‍छतिस्‍म। 16ततः प्रथमः आगत्‍य जगाद, प्रभो! मया भवतः मुद्रया अपरा दश मुद्राः अर्जिताः। 17स्‍वामी तमाह, ‘धन्‍योऽसि भद्र सेवक! क्षोदिष्‍ठेषु अपि कार्येषु विश्‍वस्‍तः, अहं नगराणां दशानां त्‍वाम्‌ अधिपत्‍ये नियुक्‍तयामि।’ 18द्वितीयः अवदत्‌, स्‍वामिन्‌! भवतः मुद्रया मया पत्र्च समर्जिताः। 19स्‍वामी तम्‌ अब्रवीत्‌, ‘तुभ्‍यं पत्र्चनगराणाम्‌ अधिकारः लप्‍स्‍यते।’ 20तृतीयस्‍तु आगत्‍य अकथयत्‌, “स्‍वामिन्‌, पश्‍य त्‍वदीयेयं मुद्रा या मह्‌यम्‌ अर्पिता, सा मया मुखमार्जन्‍या बद्‌धवा रक्षिता। 21अहं त्‍वत्तः बिभेमि स्‍म, यतः त्‍वं कठोरः नरः वर्तते। यतः यत्‌ द्रव्‍यं न निक्षिप्‍तं तत्‌ त्‍वया निष्‍कास्‍यते, क्षेत्रे अनुप्‍त्‍वा बीजानि, त्‍वं शस्‍यानि कृन्‍तसि।” 22स्‍वामी तम्‌ आह, “रे दुष्‍ट सेवक! अहं तव शब्‍दैः एव तव न्‍यायं करिष्‍यामि। त्‍वया यदि विज्ञातं, यत्‌ अहं कठोरः नरः अस्‍मि, अनिक्षिप्‍य द्रव्‍यम्‌ संग्रहम्‌ करोमि, अनुप्‍त्‍वा कृन्‍तामि च, 23तर्हि कथं मम धनं वणिजः हस्‍ते न निक्षिप्‍तम्‌। तथा कृते मया तत्‌ धनं वार्धुष्‍येन सह आप्‍तम्‌ स्‍यात्‌। 24ततः स्‍वामी समीपस्‍थान्‌ जनान्‌ एवं समादिशत्‌, ‘यूयम्‌ अस्‍मात्‌ कुभृत्‍यात्‌ तां स्‍वर्णमुद्रां गृहीत्‍वा तस्‍मै दत्त येन दशमुद्राः अर्जिताः।’ 25ते स्‍वामिनमवदन्‌, तस्‍य पार्श्‍वे तु दशमुद्राः सन्‍ति। 26अहं युष्‍मान्‌ ब्रवीमि-यस्‍य पार्श्‍वे कित्र्चन अस्‍ति, तस्‍मै अधिकम्‌ दास्‍यते; किन्‍तु यस्‍य पार्श्‍वे कित्र्चन न अस्‍ति, तस्‍मात्‌ तत्‌ अपि अपहारिष्‍यते। 27मम शत्रून्‌, ये मम राजत्‍वं न स्‍वीकुर्वन्‍ति, तान्‌ अत्र आनीत्‍वा ह्‌नन्‍तु।”
28एतां कथां कथयित्‍वा येशुः येरुसलेमं प्रति प्रतस्‍थे।
येरुसलेमे येशोः प्रवेशः
(मत्ती 21:1-11; मर 11:1-11; यूह 12:12-19)
29यदा येशुः जैतुननामपर्वतं निकषा, बेथफ़गेबेतनियाहयोः ग्रामं निकषा आगच्‍छत्‌, 30तदा द्वौ शिष्‍यौ इदम्‌ प्रोच्‍य प्रेषितवान्‌ - “सम्‍मुखस्‍थम्‌ ग्रामं युवाम्‌ गच्‍छतम्‌ तत्र गत्‍वा युवाम्‌ एकं वद्‌धं वत्‍सकं गर्दभं द्रक्षयथः, यस्‍य पृष्‍ठे कोऽपि न उपविष्‍टः अस्‍ति। 31तं गर्दभवत्‍सकं मुक्‍त्‍वा युवाम्‌ आनयतम्‌। कश्‍चित्‌ युवाम्‌ यदि पृच्‍छति, किमर्थम्‌ एतं विमुत्र्चथः, तर्हि वदतम्‌ - प्रभुः अपेक्षते।”
32तौ प्रहितौ गत्‍वा यथोक्‍तं तत्र प्रापतुः। 33अथ गर्दभवत्‍सं तं विमुत्र्चन्‍तौ विलोक्‍य, तयोः स्‍वामिनः ऊदुः, “कथमेतं विमुत्र्चथः?” 34तौ अवदताम्‌ - “एतेन वत्‍सेन प्रभोः प्रयोजनम्‌ आस्‍ते।” 35शिष्‍यौ तं गर्दभवत्‍सं येशुसन्‍निधिम्‌ आनयताम्‌, वस्‍त्रैः सुसज्‍जिते तस्‍मिन्‌ वत्‍से येशुम्‌ उपवेश्‍यताम्‌।
36यथा यथा सः यात्रायां वत्‍सेनाग्रेसरः अभवत्‌, जनाः तस्‍य मार्गे स्‍ववस्‍त्राणि विस्‍तृतवन्‍तः। 37यदा सः जैतूननाम्‍नः गिरेः उपत्‍यकाम्‌ प्राप्‍नोत्‌, कृत्‍स्‍नः शिष्‍यसमूहः आनन्‍दिताः भावविह्‌वलाः भूत्‍वा, पूर्व दृष्‍टेभ्‍यसर्वेभ्‍यः चमत्‍कारेभ्‍यः इत्‍थम्‌ परमेश्‍वरस्‍य स्‍तुतिं कर्तुम्‌ आरब्‍धवन्‍तः -
38धन्‍यः असौ राजा वर्तते,
यः प्रभोः नाम्‍नि समायाति!
स्‍वर्गे शान्‍तिः!
सर्वोच्‍चस्‍वर्गे महिमा!
39जनतायाः मध्‍ये केचित्‌ फरीसिनः आसन्‌। ते येशुम्‌ अवदन्‌, गुरो! स्‍वशिष्‍यान्‌ तर्जय। 40परन्‍तु येशुः तान्‌ प्रत्‍युवाच - “अहं युष्‍मान्‌ ब्रवीमि, यदि एते तूष्‍णीम्‌ भवन्‍ति तर्हि प्रस्‍तराः क्रोक्ष्‍यन्‍ति।”
येरुसलेमाय शोकः
41येशुः येरुसलेमनगरस्‍यान्‍तिकं गतः। नगरं निरीक्ष्‍य विलपन्‌ 42इदम्‌ अब्रवीत्‌, “हा! कियत्‌ शोभनं ते स्‍यात्‌ अस्‍मिन्‌ शुभे दिवसे यदि त्‍वया अपि अवगतं भवेत्‌, केषु वचनेषु तव शान्‍तिः अस्‍ति। परन्‍तु इदानीं तद्‌ वृत्तं तिरोहितम्‌ वर्तते। 43यतः त्‍वयि तानि दिनानि आगमिष्‍यन्‍ति, यदा तव शत्रवः सर्वतः त्‍वां वेष्‍टयिष्‍यन्‍ति, 44त्‍वां, तवान्‍तः स्‍थितान्‌ च सर्वान्‌ जनान्‌ धराशायिनः विधास्‍यन्‍ति। त्‍वयि प्रस्‍तरोपरि अपरं प्रस्‍तरं कमपि नैव शेषयिष्‍यन्‍ति; यतः त्‍वं प्रभोः आगमनस्‍य शुभकालं उपेक्षितवान्‌।”
मन्‍दिरात्‌ क्रयविक्रयकारिणां निष्‍कासनम्‌
(मत्ती 21:12-17; मर 11:15-19; यूह 2:13-22)
45येशुः मन्‍दिरे प्रविश्‍य क्रयविक्रयकारिणः एवं वदन्‌ बहिष्‍कर्तुम्‌ आरब्‍धवान्‌, 46“लिखितमस्‍ति मम गृहं प्रार्थनागृहं भविष्‍यति, किन्‍तु युष्‍माभिः तत्‌ दस्‍यूनां निवासः विनिर्मितम्‌।”
मन्‍दिरे शिक्षा
(मत्ती 11:18)
47येशुः प्रत्‍यहं सर्वान्‌ जनान्‌ शिक्षयति स्‍म। याजकाः शास्‍त्रिणः, जनानां नेतारः तस्‍य वधस्‍य उपायस्‍य अन्‍वेषणे निरताः आसन्‌। 48ते न अजानन्‌ किं कर्तव्‍यम्‌ उचितम्‌ आसीत्‌; यतः सर्वे जनाः रुच्‍या सह तस्‍य उपदेशं शृण्‍वन्‍ति स्‍म।

Podkreślenie

Udostępnij

Kopiuj

None

Chcesz, aby twoje zakreślenia były zapisywane na wszystkich twoich urządzeniach? Zarejestruj się lub zaloguj