यूहन्नः 10
10
मेषपालः तस्य मेषाश्च
1अहं युष्मान् ब्रवीमि, “यः नरः द्वारेण न प्रविशति, किन्तु केनचित् अन्येन मार्गेण आरुह्य प्रविशति, सः चौरः दस्युश्च अस्ति। 2यः मनुष्यः द्वारेण याति सः मेषपालः वर्तते। 3तदर्थं दौवारिकः द्वारम् उद्घाटय तिष्ठति। मेषाः अपि तस्य गिरम् आकर्ण्य अभिजानन्ति। मेषपालः निजान् मेषान् एक एकस्य च नाम्ना आहूय मेषवाटात् तान् बहिः कुरुते। 4तान् बहिः निष्कास्य तेषाम् अग्रे गच्छति। मेषाः च अपि अनुच्छन्ति तं, यतः ते तस्य गिरम् अभिजानन्ति। 5ते न एव अनभिज्ञातं कदाचन अनुयास्यन्ति, प्रत्युत तत्समीपात् ते पलायिष्यन्ति, यतः ते अपरिचितानाम् गिरम् न अभिजानन्ति।”
6येशुः तान् दृष्टान्तम् अश्रावयत्, परन्तु ते न अवबुध्यन्त, यत् असौ तान् किं कथयति?
अहं मेषवाटस्य द्वारम् अस्मि
7येशुः पुनः तान् अब्रवीत्, “अहं युष्मान् ब्रवीमि, मेषवाटस्य द्वारम् अहमस्मि। 8मत्पूर्वम् ये समायाताः ते चौराः दस्यवः च आसन्; मेषास्तु तेषां नाशृण्वन्। 9अहमेव द्वारम् अस्मि। यः मया प्रवेशम् आप्नोति असौ मुक्तिं लप्स्यते। सः एव अन्तः आयास्यति, सः एव बहिः एष्यति। चारागाहम् असौ एव अवाप्स्यति। 10चौरः केवलम् चौर्यं, हत्यां विनाशं च कर्तुम् एव आगच्छति। अहम् तु अत्र आगतः यथा मेषाः जीवनम् अवाप्नुयुः, सर्वथा पूर्णतोपेतं जीवनम् अवाप्नुयुः।”
अहम् भद्रः मेषपालः अस्मि
11“अहम् भद्रः मेषपालः अस्मि। भद्रस्तु मेषपालकः निजमेषाणां रक्षार्थं स्वप्राणान् त्यजति। 12वैतनिकः तु मेषपालः, मेषपतिः वा न विद्यते, असौ वृकम् आयान्तं दृष्ट्वा मेषान् त्यक्त्वा पलायते। वृकश्च मेषान् हरति, असौ तान् विकृणोति। 13वैतनिकः पलायते यतः असौ वैतनिकः अस्ति। मेषेषु तस्य चिन्ता न भवति।
14-15“अहं तु भद्रः मेषपालोऽस्मि, अतः तान् न जहामि। यथा मां पिता जानाति, यथा अहं पितरं जाने, तथा स्वकान् मेषकान् जाने, तेऽपि माम् जानते। अहं मेषाणाम् कृते स्वजीवनम् अर्पयामि। 16मम अन्ये अपि मेषाः सन्ति, ते अस्य मेषवाटस्य न सन्ति। मया ते अपि आनेतव्याः। ते अपि मम गिरम् श्रोष्यन्ति। इत्थम् मेषव्रजो, मेषपालः चः एकः भविष्यति।
17“पिता मयि प्रेम विदधाति, यतः अहं स्वजीवनम् अर्पयामि; पुनः तत् ग्रहीष्यामि। 18कोऽपि मत्तः मम जीवनं हर्तुं न शक्तः; अहं तु स्वयम् तत् अर्पयामि। स्व जीवनं त्यक्तुं पुनः ग्रहीतुम् च अधिकारः ममैवास्ते। अयं मम पितुः आदेशः वर्तते’’।
येरुसलेमस्य यहूदिषु मतभेदः
19येशोः अनेन वचनेन पुनः यहूदिषु मतभेदः अभवत्। 20बहवः अकथयन् “अयं भूतेन अभिविष्टः अस्ति, सः प्रलपति। यूयं कथं तं शृणुथ?” 21अन्ये ऊदुः “इमानि वचनानि अपदूतग्रस्तस्य न सन्ति। किम् अपदूतः अन्धानाम् नेत्राणि स्वस्थीकर्तुम् समर्थः?”
मन्दिरस्य प्रतिष्ठानपर्व
22तदानीं येरुसलेमे प्रतिष्ठानपर्व शीतकाले सम्पद्यते स्म। 23येशुः मन्दिरे सुलेमानस्य आलिन्दे परिभ्रमन् आसीत्। 24धर्मगुरुवः तं परितः वेष्टयित्वा पप्रच्छुः, “कियत् कालं भवान् अस्मान् संशये स्थापयिष्यति? भवान् चेत् मसीहः अस्ति, अस्मान् सत्यं ब्रवीतु।” 25येशुः तान् प्रत्युवाच इत्थम्, “मया पुरा एव यूयम् उक्ताः परन्तु यूयं विश्वासं न कुरुध्वे। अहंतु मम पितुः नाम्ना यत् कार्यं करोमि तत् एव मम विषये साक्ष्यं ददाति। 26यूयं मयि विश्वासं न कुरुथ, यतः यूयं मम मेषाः न स्थ। 27मम मेषाः मम गिरम् अभिजानन्ति। अहमपि तान् विजानामि, ते माम् अनुसरन्ति। 28अहं तेभ्यः अनन्तजीवनं ददामि, अतः ते कदापि न मरिष्यन्ति, कोऽपि तान् मम् हस्तात् अपहर्तुं न समर्थः। 29तान् मम पिता मह्यम् ददौ, असौ सर्वेभ्यः महत्तरः। तान् मत्पितुः हस्तात् अपहर्तुं न शक्नोति। 30अहत्र्च मत्पिता चैक एव स्वः’’।
31धर्मगुरुवः तम् हन्तुं पुनः प्रस्तरान् उत्थापयन्। 32येशुः तान् अब्रवीत्, “पितुः प्रभावतः युष्माकं पुरतो मया अनेकानि शुभकार्याणि कृतानि। किन्तु न जाने कस्य कर्मणः कारणात् यूयं मां प्रस्तरैः हन्तुं दृढ़निश्चयाः दृश्यध्वे’’? 33धर्मगुरुवः तं ऊदुः, “वयं शुभकर्मणः कारणात् न, परन्तु त्वम् ईशनिन्दकः असि, अतः त्वां प्रस्तरैः हन्तुमुद्यताः, यतः त्वं मनुष्यः असि, स्वं प्रभुम् मन्यसे’’। 34येशुः तान् उवाच, “किं युष्माकं व्यवस्थायाम् इदं न लिखितम् अस्ति, “मया प्रोक्तम् त्वं परमेश्वरः असि?” 35यस्मै परमेश्वरस्य सन्देशः दत्तः आसीत्, यदि व्यवस्था तम् परमेश्वरं प्राह, चेत् धर्मग्रन्थस्य वचः सत्यं वर्तते - 36तर्हि यं संसारे अधिकारं दत्वा प्रहिणोत्, तं यूयं कथं वदथ - त्वम् ईशनिन्दा करोसि यतः मया उक्तम्, “अहम् ईशपुत्रः अस्मि।”
37“यदि अहं स्व पितुः कार्यं न करोमि, तदा मयि विश्वासं मा कुरुध्वे। 38परन्तु यदि अहं तत् करोमि, तथापि यूयं चेत् मयि न विश्वासं कुरुथ, मत्कृतासु क्रियासु एव विश्वासं कुरूथ। युष्माभिः ज्ञायताम् एतद् विश्वासः च विधीयताम्, अहं पितरि तिष्ठामि, मयि च पिता तिष्ठति।”
39ततः ते तं पुनः धर्तुम् चेष्टवन्तः, किन्तु येशुः तेषां हस्तात् विनिर्गतः।
यर्दननद्याः पारम्
40ततो येशुः यर्दनपारस्थं तत् स्थानम् आगतः, यत्र योहनः जनेभ्यः जलसंस्कारम् अददात्, तत्रैव अवसत् च। 41अनेके तम् उपागच्छन्, ते मिथः अब्रुवत, “योहनेन कश्चित् चमत्कारः न प्रदर्शितः, परन्तु येशोः सम्बन्धे यद् उक्तवान्, तत्सर्वम् सत्यम् अभवत्।” 42ते च तस्मिन् विश्वासम् अकुर्वन्।
தற்சமயம் தேர்ந்தெடுக்கப்பட்டது:
यूहन्नः 10: SANSKBSI
சிறப்புக்கூறு
பகிர்
நகல்
உங்கள் எல்லா சாதனங்களிலும் உங்கள் சிறப்பம்சங்கள் சேமிக்கப்பட வேண்டுமா? பதிவு செய்யவும் அல்லது உள்நுழையவும்
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: