लूका 23

23
1ततः परं समस्‍ता जनता उत्‍थितवती। ते येशुम्‌ पिलातुसस्‍य निकटं नीतवन्‍तः।
रोमनशासकपिलातुसस्‍य समक्षे प्रथमा प्रस्‍तुतिः
2सर्वे जनाः तस्‍यविरुद्‌धम्‌ अभियोगं प्रकुर्वाणाः भाषितुम्‌ आरभन्‍त, अस्‍माभिः लक्षितं, यत्‌ अयम्‌ अस्‍माकं जनेषु विद्रोहं प्रवर्त्तयति, सम्राजे करदान न कर्तव्‍यम्‌, इति शिक्षयति, तथा आत्‍मानं मसीहोऽस्‍मि, राजा अस्‍मि इति वदति।” 3पिलातुसः तमपृच्‍छत्‌, “किं त्‍वं यहूदिनाम्‌ राजा असि?” येशुः तमवदत्‌, “भवान्‌ सत्‍यम्‌ वदति।” 4ततः पिलातुसः महापुरोहितान्‌, जनान्‌ च उवाच, “अस्‍मिन्‌ मनुष्‍ये मया कोऽपि दोषः नैव लक्ष्‍यते।” 5ते पिलातुसं साग्रहं प्रोचुः - “अयं यहूदियाप्रदेशस्‍य कोणे कोणे परिभ्रमन्‌ गलिलियातः आरभ्‍य स्‍व शिक्षया जनान्‌ उत्तेजयति।”
6पिलातुसः इदं श्रुत्‍वा अपृच्‍छत्‌, “किम्‌ अयं गलीलनिवासी अस्‍ति। 7हेरोदेसस्‍य अधिकारक्षेत्रात्‌ अस्‍ति, इति अवगम्‍य, सः येशुम्‌ हेरोदेसस्‍यान्‍तिकं प्रेषितवान्‌। सोऽपि तेषु दिनेषु येरुसलेमे आसीत्‌।
शासकस्‍य हेरोदेसस्‍य सम्‍मुखम्‌
8असौ येशुं दृष्‍ट्‌वा परमं हर्षम्‌ आप्‍तवान्‌। सः चिरकालात्‌ येशुं द्रष्‍टुम्‌ इच्‍छति स्‍म, यतः जनेभ्‍यः येशोः चर्चाम्‌ श्रुतवान्‌ आसीत्‌। 9सः येशोः चमत्‍कारं द्रष्‍टुम्‌ उत्‍सुकः आसीत्‌। सः येशुं बहुविधान्‌ प्रश्‍नान्‌ अकरोत्‌, परन्‍तु येशुः तम्‌ उत्तरं न दत्तवान्‌। 10अस्‍मिन्‌ मध्‍ये महापुरोहिताः शास्‍त्रिणश्‍च येशुं प्राणपणेन अभियोक्‍तुम्‌ अयतन्‍त। 11अथ हेरोदेसः सैन्‍यानां साहाय्‍येन तम्‌ अवमत्‍य उपहस्‍य च शुभ्राणि वस्‍त्राणि पर्यधापयत्‌। तथा कृत्‍वा येशुं पिलातुससन्‍निधौ सम्‍प्रेषयामास। 12तस्‍मिन्‌ एव दिने उभौ मित्रत्‍वमापतुः, पूर्वम्‌ वैरमास्‍थितौ।
पिलातुसस्‍य सम्‍मुखं द्वितीया प्रस्‍तुतिः
(मत्ती 27:1-2; मर 15:6-15; यूह 18:39-40; 19:4-16)
13ततः पिलातुसः महापुरोहितान्‌, शासकान्‌, जनताम्‌ च आहूय 14इदम्‌ अब्रवीत्‌, “भवद्‌भिः एषः जनः मम अन्‍तिकम्‌ प्रेषितः अस्‍ति, यतः असौ प्रजासु विद्रोहं प्रवर्त्तयति। भवताम्‌ समक्षं तु एषः मया सुपरीक्षितः। परन्‍तु कोऽपि दोषः न विलोकितः, 15यतः अयं, तेन ससम्‍मानं मदन्‍तिकम्‌ प्रेषितः। भवन्‍तः अपि पश्‍यन्‍ति यत्‌ कश्‍चित्‌ तादृशः अपराधः तेन न कृतः, येन अस्‍मै प्राणदण्‍डः विधीयते। 16अतः अहम्‌ अस्‍य ताडनं सम्‍यक्‌ कारयित्‍वा इमं मोचयामि।” (17पर्वणः अवसरे तेषां तोषणार्थम्‌ पिलातुसः कश्‍चित्‌ काराबद्‌धं नरं मोक्‍तुम्‌ ऐच्‍छत्‌।) 18किन्‍तु सर्वे सहैवाहुः “इमम्‌ अपसरतु, अस्‍मदर्थम्‌ बराबसं मोच्‍यतु भवान्‌।” 19बराबसः नगरे समुत्‍पन्‍नात्‌ उद्‌प्‍लवात्‌, नरहत्‍यापराधात्‌ च कारायां निहितः आसीत्‌। 20पिलातुसः येशुं मोक्‍तुम्‌ इच्‍छन्‌ जनान्‌ पुनः बोधितवान्‌, 21किन्‍तु ते उच्‍चस्‍वरेण इदं व्‍याहरन्‌, “अस्‍मै क्रूसं ददातु, अस्‍मै क्रूसं ददातु।” 22पिलातुसः तृतीयं वारं तान्‌ उवाच - “किमर्थम्‌? अनेन को ऽपराधः कृतः? अस्‍मिन्‌ नरे प्राणदण्‍डोचितः कोऽपि दोषः न लक्ष्‍यते। अतोऽहम्‌ इमं ताडयित्‍वा मोचयिष्‍यामि।” 23ते तथैव उच्‍चैः आक्रोशन्‌, “अस्‍मै क्रूसं ददातु भवान्‌।” तेषां कोलाहलः वर्धते स्‍म। 24तदा पिलातुसः तेषां याचनां पूर्णकर्तुम्‌ निश्‍चितवान्‌। यः मनुष्‍यः विद्रोहनरहत्‍यापराधतः वद्‌धः आसीत्‌, तथा यस्‍य मोचनं ते ऐच्‍छन्‌, 25सः तमेव मोचितवान्‌, तथा येशुं यहूदिनाम्‌ तोषणार्थम्‌ अभीप्‍सया तेषां सैनिकेभ्‍यः समर्पितवान्‌।
क्रूसे आरोपणम्‌
(मत्ती 27:32-34; मर 15:21-32; यूह 19:17-27)
26अथः येशुं समादाय गच्‍छन्‍तः आसन्‌, तदा अध्‍वनि ग्रामात्‌ आगच्‍छन्‍तं सिमोननाम कुरेनेनिवासिनम्‌ जनं धृत्‍वा तस्‍य स्‍कन्‍धे क्रूसम्‌ स्‍थापितवन्‍तः, येन सः तं येशुम्‌ अनुब्रजेत्‌।
27जनानां महान्‌ समूहः येशुम्‌ अनुगच्‍छन्‌ आसीत्‌। तेषां मध्‍ये नारयः अपि आसन्‌। ताः उरः ताडयन्‍त्‍यः तस्‍मै विलपन्‍ति स्‍म। 28येशुः मुखं परावर्त्‍य ताः प्रत्‍यभाषत, “हे येरुसलेमपुत्रिकाः! मदर्थम्‌ मा विलपत। यूयं स्‍वार्थम्‌ स्‍वसन्‍तानर्थम्‌ च विलपत। 29यतः तादृशानि दिनानि शीघ्रं समायान्‍ति यदा जनाः वदिष्‍यन्‍ति - धन्‍याः ताः स्‍त्र्यिः, याः बन्‍ध्‍या सन्‍ति; धन्‍याः ते स्‍तनाः सन्‍ति, यैः दुग्‍धं न हि पायितम्‌। 30तदा जनाः पर्वतान्‌ सम्‍बोध्‍य इदं कथयिष्‍यन्‍ति - अस्‍मासु पतत, शैलान्‌ च वदिष्‍यन्‍ति - अस्‍मान्‌ आच्‍छादयत; 31यतः हरितस्‍य काष्‍ठस्‍य ईदृशी दशा, तदा शुष्‍कस्‍य कीदृशी गतिः भविष्‍यति?”
32ते सर्वे येशुना सार्द्धम्‌ द्वौ दुष्‍कर्मिणौ अपि प्राणदण्‍डाय नयन्‍ति स्‍म।
33ततः ते “कलवारी इतिसंज्ञकम्‌ स्‍थानम्‌ आसाद्‌य, तत्र येशुं तथा द्वौ कुकर्मिणौ पृथकपृथके क्रूसेषु आरोपितवन्‍तः - एकं तु तस्‍य दक्षिणे, अपरं च येशोः वामे। (34येशुः अब्रवीत्‌, “हे पितः! एतान्‌ क्षमस्‍व, यतः ते न जानन्‍ति, यत्‌ किं कुर्वन्‍तः सन्‍ति।)” ततस्‍ते येशोः वस्‍त्राणां अनेकान्‌ विभागान्‌ अकुर्वन्‌, तेभ्‍यः वस्‍त्रेभ्‍यः पत्रगुटिकाः निष्‍कासितवन्‍तः च।
35प्रजाजनाश्‍च तत्रस्‍थाः सर्वम्‌ एतद्‌ व्‍यलोकयन्‌। नेतारः सोपहासमिदं वचः कथयन्‍ति स्‍म, “असौ अन्‍यान्‌ रक्षितवान्‌। यदि अयम्‌ परमेश्‍वरस्‍य मसीहः, परमप्रियः च अस्‍ति, तर्हि आत्‍मानं रक्षतु। 36सैनिकाः अपि तथैव तस्‍य उपहासम्‌ अकुर्वन्‌। ते तम्‌ उपेत्‍य तस्‍मै आम्‍लद्राक्षारसम्‌ ददन्‍तः अवदन्‌, “त्‍वं 37“चेत्‌ यहूदिनां राजा, आत्‍मनः रक्ष।” 38येशोः ऊर्ध्‍वम्‌ लिखितम्‌ आसीत्‌, “एषः यहूदिनां राजा वर्तते।”
पश्‍चात्तापी दस्‍युः
39कुकर्मिणोः तेन सह क्रूसम्‌ आरोपितयोः तयोः एकः येशुं निन्‍दन्‌ तम्‌ अब्रवीत्‌, “त्‍वं मसीहोऽसि चेत्‌ तदा आत्‍मानं स्‍वं च समुद्‌धर।” 40परन्‍तु द्वितीयस्‍तु तं भर्त्‍सयन्‌ इदमब्रवीत्‌, “किं त्‍वम्‌ परमेश्‍वरात्‌ अपि न बिभेषि? त्‍वया अपि स एव दण्‍डः उपभुज्‍यते। 41आवयोः तु एषः दण्‍डः न्‍यायसंगतः। यतः स्‍वीयापराधस्‍य एव आवाभ्‍याम्‌ फलम्‌ भुज्‍यते, परन्‍तु एतेन कश्‍चन अपराधः न विहितः।” 42तदा सः येशुम्‌ अवदत्‌, “येशो! यदा भवान्‌ स्‍वीयं राज्‍यम्‌ आयास्‍यति, तदा मम अपि स्‍मरिष्‍यति।” 43येशुः तमुवाच, “अहं त्‍वां ब्रवीमि, त्‍वम्‌ अद्‌यः एव परलोके मया सह निवस्‍यसि।”
येशोः मृत्‍युः
(मत्ती 27:45-56; मर 15:33-41; यूह 19:28-30)
44इदानीं दिवसस्‍य द्वितीयः पहरः सत्र्जायमानः आसीत्‌। सूर्ये अन्‍तर्हिते तृतीयं पहरं यावत्‌ समस्‍तप्रदेशे घोरः अन्‍धकारः आसीत्‌। 45मन्‍दिरस्‍य च मध्‍येन पटी छिन्‍ना दि्‌वधा अभवत्‌। 46येशुः उच्‍चैः स्‍वरेण उच्‍चरन्‌ इदम्‌ उक्‍तवान्‌, “हे पितः ! अहं ममात्‍मानं तव हस्‍तयोः समर्पये।” एवम्‌ उक्‍त्‍वा प्राणान्‌ अमुत्र्चत्‌।
47शतपतिः एतत्‌ सर्वम्‌ दृष्‍ट्‌वा परमेश्‍वरस्‍य स्‍तुतिं कुर्वन्‌ अब्रवीत्‌, निश्‍चयमेव अयं मनुष्‍यः धर्मात्‍मा आसीत्‌। 48बहवः जनाः एतद्‌ दृश्‍यं द्रष्‍टुम्‌ उपस्‍थिताः आसन्‌। सर्वे एतद्‌ दृश्‍यं दृष्‍ट्‌वा स्‍ववक्षांसि ताडयन्‍तः प्रत्‍यागच्‍छन्‌।
49येशोः सर्वे परिचिताः जनाः गलीलप्रदेशात्‌ तेन सह समागताः नार्यः, कित्र्चित्‌ दूरं स्‍थिताः तत्‌ दृश्‍यं पश्‍यन्‍ति स्‍म।
येशोः शवागारे निक्षेपः
(मत्ती 27:57-61; मर 15:42-47; यूह 19:38-42)
50-51धर्मसभायाः सदस्‍यः यूसुफाभिधः निष्‍कपटः धार्मिकश्‍च आसीत्‌। सः सभायाः योजनायां तथा षड्‌यन्‍त्रे सहमतः नासीत्‌। सः यहूदाप्रदेशस्‍य अरिमतियाहस्‍य नगरस्‍य निवासी आसीत्‌। सः चिरात्‌ परमेश्‍वस्‍य राज्‍यं प्रत्‍यैक्षत। 52असौ पिलातुसं येशोः शवम्‌ अयाचत। 53शवं क्रूसात्‌ अवतार्य तं सूक्ष्‍मेण शववाससा वेष्‍टयित्‍वा, तादृशे शवागारे स्‍थापितवान्‌, यः शैले निर्मितः आसीत्‌, यत्र कोऽपि पूर्वम्‌ निहितः नासीत्‌ च। 54तत्‌ शुक्रवासरम्‌ आसीत्‌, विश्रामस्‍य दिवसः आरभते स्‍म।
55-56याः नार्यः तेन सह गलीलप्रदेशात्‌ आगताः आसन्‌, यूसुफम्‌ अनुव्रज्‍य शवागारम्‌, अपश्‍यन्‌। ताः इदमपि व्‍यलोकयन्‌ येशोः शवः कथं निधीयते। परावृत्त्य ताः नार्यः सुविलेपनम्‌ तथा सुगन्‍धिद्रव्‍याणि सज्‍जीचक्रुः, विश्रामस्‍य दिवसे, नियमानुसारेण विश्रामम्‌ अकुर्वन्‌।

தற்சமயம் தேர்ந்தெடுக்கப்பட்டது:

लूका 23: SANSKBSI

சிறப்புக்கூறு

பகிர்

நகல்

None

உங்கள் எல்லா சாதனங்களிலும் உங்கள் சிறப்பம்சங்கள் சேமிக்கப்பட வேண்டுமா? பதிவு செய்யவும் அல்லது உள்நுழையவும்