YouVersion Logo
Search Icon

प्रेरिता 22

22
जनसमूहस्‍य समक्षे पौलुसस्‍य भाषणम्‌
1“भातरः गुरुजनाश्‍च! इदानीं शृण्‍वन्‍तु यत्‌ स्‍व पक्षे मया किं कथनीयमस्‍ति।” 2यदा जनाः अशृण्‍वन्‌ यत्‌ सः तान्‌ इब्रानीभाषायां संबोधयति, तदा ते अधिकाः शान्‍ताः अभवन्‌। पौलुसेन कथितम्‌, 3“अहं यहूदी अस्‍मि, मम जन्‍म तु किलिकियायाः तरसुसनगरे अभवत्‌, परन्‍तु अहम्‌ अत्र पालितः अस्‍मि। गमालिएलस्‍य चरणयोः स्‍थित्‍वा, पूर्वजानां व्‍यवस्‍थायाः विधिवत्‌ अघ्‍ययनम्‌ अकरवम्‌। अहं परमेश्‍वरस्‍य तथैव उत्‍साही उपासकः आसम्‌, यथा भवन्‍तः सर्वे सन्‍ति। 4मया इमं पन्‍थं समाप्‍तं कर्तुम्‌ घोरः अत्‍याचारः कृतः। पन्‍थस्‍य योषितः पुरुषान्‌ च बद्‌ध्‍वा बन्‍दीगृहे क्षिप्‍तवान्‌। 5महायाजकाः, धर्मवृद्धानां समस्‍तमहासभा मम अस्‍य कथनस्‍य साक्षिणः सन्‍ति। तेभ्‍यः पत्रं नीत्‍वा अहं दमिश्‍कस्‍य भ्रातॄणां समक्षे गच्‍छन्‌ आसम्‌, येन तत्रस्‍य जनान्‌ अपि बद्‌ध्‍वा येरुसलेमनगरं नेष्‍यामि, दंडं दापयिष्‍यामि च।
6“यात्रा क्रमेण अहं दमिश्‍कम्‌ आगच्‍छम्‌, तदा प्रायशः मध्‍याह्‌नसमये सहसा नभसः एका प्रचंडा ज्‍योतिः मां परितः प्रज्‍वलिता। 7अहं भूमौ अपतम्‌, माम्‌ एका वाणी ईदृशी वदन्‍ती अश्रूयत- “साऊल! साऊल! त्‍वं मयि उपरि किमर्थम्‌ अत्‍याचारं करोषि?” 8अहं प्रत्‍युत्तरे अवदम्‌, “प्रभो! भवान्‌ कोऽस्‍ति?” तेन अहं कथितः, “अहं येशुः नासरी अस्‍मि, यस्‍य उपरि त्‍वंम्‌ अत्‍याचारं करोषि।” 9मम सहयोगिभिः ज्‍योतिः दृष्‍टा, वरन्‌ मया सह वार्तालापं कर्तुः, स्‍वरं न अशृण्‍वन्‌। 10मया कथितम्‌, “प्रभो! मया किं करणीयम्‌?” प्रभु उत्तरम्‌ अददात्‌, “उत्‍थाय दमिश्‍कं गच्‍छ। त्‍वया यत्‌ करणीयम्‌, तत्रस्‍य शिष्‍याः त्‍वां कथयिष्‍यन्‍ति।” 11तस्‍याः ज्‍योत्‍याः तेजस्‍य कारणात्‌ द्रष्‍टुम्‌ असमर्थः अभवम्‌, अतएव मम सहयोगिनः मम हस्‍तं धृत्‍वा अनयन्‌। इत्‍थम्‌ अहं दमिश्‍कम्‌ आगच्‍छम्‌।
12“तत्र अनन्‍याहः नाम सज्‍जनः मां मिलितुम्‌ आगच्‍छत्‌। सः व्‍यवस्‍थायाः पालनकर्ता धर्मनिष्‍ठः आसीत्‌। तत्रस्‍य यहूदिषु प्रतिष्‍ठितः आसीत्‌। 13-14सः मम समीपे स्‍थित्‍वा अवदत्‌, “भ्रातः साऊल! दृष्‍टिं लभेत।” तत्‍क्षणमेव मम नेत्रयोः ज्‍योतिः प्रत्‍यावर्तत, तम्‌ अहम्‌ अपश्‍यम्‌। तेन कथितम्‌, “अस्‍माकं पूर्वजानां परमेश्‍वरः भवन्‍तं पूर्वतः एव नियुक्‍तवान्‌, भवान्‌ तस्‍य इच्‍छां बुध्‍येत, धर्मात्‍मनः येशोः दर्शनं कुर्यात्‌, तस्‍य मुखस्‍य वाणीं शृणुयात्‌, 15यतः भवता सर्वेषां जनानां समक्षे परमेश्‍वरस्‍य वचनानां साक्ष्‍यः दातव्‍यः अस्‍ति, ये भवता दृष्‍टाः श्रुताश्‍च। 16जलसंस्‍कारं गृणीयात्‌, तस्‍य नाम्‍नः याचनां कुर्वन्‌ स्‍व पापात्‌ मुक्‍तः भूयात्‌।”
17येरुसलेमनगरं प्रत्‍यागत्‍वा, अहम्‌ एकस्‍मिन्‌, दिवसे प्रार्थनां कुर्वन्‌ आसम्‌, तस्‍मिन्‌ क्षणे एव आत्‍मना आविष्‍टः अभवम्‌। 18अहं प्रभुम्‌ अपश्‍यम्‌, सः माम्‌ कथयति स्‍म, “शीघ्रं कुरु, त्‍वं येरुसलेमात्‌ शीघ्रं गच्‍छ, कारणमस्‍ति यत्‌ ते मम विषये तव साक्ष्‍यं न स्‍वीकरिष्‍यति।” 19मया उक्‍तम्‌, “प्रभो! ते जानन्‍ति यत्‌ अहं तव शिष्‍यान्‌ बद्‌ध्‍वा प्रति सभागृहे कशाधातम्‌ 20अकारयम्‌, यदा शहीदस्‍य स्‍तीफ़नुसस्‍य रक्‍तं निर्गच्‍छति स्‍म, अहं तस्‍य वधसमये वधस्‍य समर्थनं कुर्वन्‌ वधिकजनानां वस्‍त्राणां रक्षयामि स्‍म।” 21प्रभुना अहं कथितम्‌, “गच्‍छ! अहं त्‍वां अयहूदिनां समीपे दूरम्‌ अतिदूरं प्रेषयामि।”
पौलुसस्‍य रोमनपौरत्‍वम्‌
22उपस्‍थितजनाः पौलुसस्‍य वचनं श्रुत्‍वा उच्‍चैः अवदन्‌, अस्‍य वधः भवितव्‍यः। अयं जीवितः स्‍थातुं न अर्हः। 23ते उच्‍चस्‍वरैः वक्‍तुं, स्‍व वस्‍त्राणि क्षेप्‍तुम्‌ वायौ धूलिम्‌ क्षेप्‍तुम्‌ आरब्‍धवन्‍तः। 24अतएव सेनानायकः तं सैन्‍यावासे आनयितुं कशाधातं कारयित्‍वा, तस्‍य परीक्षणं कर्तुम्‌ आदेशं अददात्‌, येन स्‍पष्‍टं भवेत्‌, जनाः तस्‍य विरोधे ईदृशं किमर्थम्‌ आक्रोशन्‍ति।
25यदा ते कशाघाताय तं वध्‍नन्‍ति स्‍म, तदा पौलुसः समीपस्‍थितः शतपतिम्‌ अपृच्‍छत्‌, “किं भवान्‌ नियमानुसारम्‌ ईदृशं जनं कशाधाताय अनुमतिं दातुम्‌ शक्‍नोति यः रोमनपुरवासी अस्‍ति, यस्‍य दोषाः अपि न प्रमाणिताः सन्‍ति?” 26इदं श्रुत्‍वा शतपतिः, सेनानायकम्‌ अस्‍य सूचनां दातुम्‌ अगच्‍छत्‌, अवदत्‌ च “भवान्‌ किं कर्तुम्‌ इच्‍छति? अयं जनः रोमननागरिकः अस्‍ति।
27सेनानायकः पौलुसस्‍य समीपे आगत्‍य अपृच्‍छत्‌, “मां सत्‍यं वद, किं त्‍वं रोमनपुरवासी असि?” तेन कथितम्‌, “आम्‌!” 28सेनानायकः अवदत्‌, “मह्यम्‌ अयं पौरत्‍वम्‌ अत्‍याधिकमुद्राभिः प्राप्‍तम्‌।” पौलुसेन कथितम्‌, “अहं तु जन्‍मात्‌ एव रोमनपुरवासी अस्‍मि।” 29अतः पौलुसं परीक्षणाय, ये जनाः नियुक्‍ताः आसन्‌, ते शीघ्रं तस्‍मात्‌ स्‍थानात्‌ दूरम्‌ अगच्‍छन्‌। सेनानायकः अपि अबिभेत्‌।
धर्ममहासभायाः समक्षे पौलुसः
30अन्‍यस्‍मिन्‌ दिने सेनानायकेन पौलुसस्‍य बन्‍धनानि मोचितानि, समस्‍तधर्मसभां, महापुरोहितान्‌ च एकत्र भवितुम्‌ आदेशम्‌ अददात्‌; यतः सः निश्‍चितरूपेण ज्ञातुम्‌ इच्‍छति यत्‌ यहूदिनः तस्‍य उपरि कम्‌ अभियोगं करिष्‍यन्‍ति। तदा सः पौलुसं नीत्‍वा धर्ममहासभायां समक्षे स्‍थापितवान्‌।

Highlight

Share

Compare

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for प्रेरिता 22