प्रेरिता 23
23
1पौलुसः धर्ममहासभायां दृष्टिपातं कृत्वा अवदत्, भ्रातरः! “मया अद्यः यावत् शुद्धान्तःकरणेन परमेश्वराय जीवनं यापितम्।” 2किन्तु प्रधानमहापुरोहितः हनन्याहः, समीपवर्तिनः जनान् पौलुसं चपेटप्रहारकर्तुम् आदिष्टवान्। 3पौलुसेन सः कथितः, “परमेश्वरः त्वां ताडयिष्यति, त्वं वाह्यतः स्वच्छभित्तिः इव असि! त्वं व्यवस्थायाः अनुसारेण मम न्यायं करोषि, परं व्यवस्थायाः उल्लंघनं कुर्वन् मां ताड्यितुम् आदेशं ददासि च।” 4समीपस्थिताः जनाः तम् अवदन्, त्वं परमेश्वरस्य प्रधानपुरोहितस्य अपमानकर्तुम् साहसं करोषि? 5पौलुसः प्रत्युतरत् “भ्रातरः! मया न जानीतं, यत् अयं प्रधानमहापुरोहितः अस्ति। धर्मग्रन्थे लिखितमस्ति - “स्व प्रजायाः शासकस्य मा निन्द” ।
6पौलुसः इदं जानाति स्म यत् धर्ममहासभायां द्वे दले स्तः - एकम् सदूकिनाम् अन्यफरीसिनाम् च। अतः सः उच्चस्वरेण अवदत्, “भ्रातरः! अहं फरीसीनां सन्तानः अस्मि। मृतकानाम् पुनरुत्थानस्य आशाकारणात् मयि उपरि अभियोगः क्रियते। 7तस्य एतेषु शब्देषु विवादः मतभेदश्च अभवत्, 8यतः सदूकिनां धारणा अस्ति, यत् न तु पुनरुत्थानं अस्ति, न स्वर्गदूताः सन्ति, न आत्मा विद्यते, वरन् फरीसिनः उपरोक्तविषयेषु विश्वसन्ति। 9इत्थं महान् कोलाहलः उत्पन्नः जातः। फरीसीदलस्य केचित् शास्त्रिणः उत्थाय उच्चस्वरैः अवदन्, “अस्मिन् मनुष्ये कोऽपि दोषः नास्ति। यदा कोऽपि आत्मा, स्वर्गदूतः वा तं किन्न्चित् अवदत् तदा, .........।” 10विवादः वर्द्धते स्म, सेनानायकः भयभीतः अभवत्, यत् ते पौलुसस्य हत्यां न कुर्युः। अतः सः सैनिकान् आदिष्टवान्, यत् ते सभायां गत्वा पौलुसं तेषां मध्यतः वाह्य कृत्वा सैन्यावासे नयन्तु।
11तस्यां रात्रौ प्रभुः पौलुसं दर्शने अकथयत्, “धर्यवान् भव, त्वया येरुसलेमनगरे यथा मम विषये साक्ष्यः दत्तः, तथैव रोमनगरे अपि साक्ष्यः दातव्यः अस्ति।”
पौलुसस्य विरुद्धे यहूदिनाम् उपजापः
12सूर्ये उदिते सति केचित् यहूदिनः एकत्रीभूय इमां प्रतिज्ञां कृतवन्तः, यत् पौलुसस्य वधः यावत् न भवति, तावत् ते न खादिष्यन्ति, पास्यन्ति वा। 13-14अस्मिन् कपटप्रबन्धे चत्वारिंशतात् अपि अधिकाः जनाः सम्भिलिताः आसन्। ते महापुरोहितानां तथा धर्मवृद्धानाम् समीपे गत्वा अवदन्, “अस्माभिः प्रतिज्ञा कृता, वयं तावतं किन्न्चिद् अपि न खादिस्यामः, यावतं तस्य वधः न भवेत्।” 15भवन्तः धर्ममहासभायाः सहमत्या सेनानायकं सूचयेयुः यत् सः पौलुसम् व्याजेन भवतां समक्षे प्रेषयेत्। तस्य तत्र आगमनात् पूर्वमेव वयं तस्य वधं करिष्यामः।
16पौलुसस्य भागिनेयः इमं कपटप्रबन्धं ज्ञात्वा सैन्यावासं गत्वा पौलुसं सूचितवान्। 17पौलुसः एकं शतपतिम् आहूय कथितवान्, “इमं युवकं सेनानायकस्य अन्तिकम् नय। सः सेनानायकं सूचनां दास्यति।” 18शतपतिः युवकं सेनानायकस्य अन्तिकं नीत्वा अवदत्, “बन्दी पौलुसः माम् आह्वयत्, इमं युवकं भवतः समीपे नेतुं निवेदितवान्। अयं त्वां किन्न्चित् वदिष्यति।” 19सेनानायकः तस्य हस्तं गृहीत्वा तं रहसि नीत्वा अपृच्छत्,“ त्वं मां कि वक्तुम् इच्छसि?” 20सः उक्तवान्, “यहूदिभिः उपजापः कृतः अस्ति, ते त्वां श्वः पौलुसं व्याजेन आनेतुं निवेदिष्यन्ति। 21भवता तेषां धूर्तविचारः न स्वीकार्यः। तेषु चत्वारिंशतात् अपि अधिकजनाः पौलुसस्य वधं कर्तुम् इच्छन्ति। तैः प्रतिज्ञाकृता अस्ति यत् तावत् न खादिष्यन्ति न किन्न्चित् पास्यन्ति यावत् पौलुसस्य वधः न भवेत्। ते इदानीं सज्जीभूताः, भवतः अनुमत्याः प्रतीक्षायां सन्ति।” 22सेनानायकः आदिश्य युवकं प्रेषितवान्, यत् त्वं कमपि मा वद यत् त्वया अहं सूचितः।
पौलुसम् कैसरियां प्रेषणम्
23सेनानायकः द्वौ शतपती आहूय अवदत् च “रात्र्याः पूर्वप्रहरं यावत् द्विशतसैनिकाः, सप्ततिः अश्वरोहिनः, द्विशतकुन्ताः कैसरियां गन्तुं सज्जाः भवेयुः। 24पौलुसायापि अश्वान् उपस्थापय, येन ते पौलुसं सकुशलं प्रान्तपतेः फेलिक्सस्य समीपे उपस्थापयन्तु।
25तेन पत्रमपि लिखितम्, 26“महामहिमप्रान्तशासकाय, फेलिक्साय, कलौदियुसस्य लुसियस्य अभिवादनम्। 27यहूदिनः इमं जनं धृत्वा अस्य वधं कर्तुम् इच्छन्ति स्म; वरन् मया स्व सैनिकैः सह तत्र गत्वा अयं मुन्न्चितः; यतः ज्ञातम्, अयं रोमनपुरवासी। 28अहं ज्ञातुम् इच्छामि स्म ते अस्मिन् कस्य प्रकारस्य अभियोगं कुर्वन्ति, अतएव मया सः तेषां धर्ममहासभायां नीतः। 29तत्र अहं ज्ञातवान् यत् ते स्व व्यवस्थायाः कतिपयानां प्रश्नानां विषये अस्मिन् अभियोगं कुर्वन्ति। परन्तु अयम् आरोपः मृत्योः बन्धनस्य वा न अर्हः। 30यदा मया ज्ञातम् अस्य वधस्य कपटप्रबन्धः अपि क्रियते तदा अहम् इमं शीघ्रमेव भवतः समीपे अपे्रषम्। मया अस्य अभियोगिनः आदिष्टः यत् ते भवतः समक्षे अस्य विरुद्धे स्व प्रतिवेदनं प्रस्तुतं कुर्वन्तु।”
31आदेशानुसारेण सैनिकाः पौलुसं तस्याम् एव रात्रौ अन्तिपत्रिसं आनीतवन्तः। 32द्वितीये दिने ते अश्वरोहिणः पौलुसेन सह गन्तुम् अनुमतिम् अददुः, ते स्वयं सैन्यावासं प्रत्यावर्तन्। 33अश्वरोहिणः कैसरियाम् आगत्य प्रान्तपालकाय तत् पत्रम् अयच्छन्, पौलुसं तस्मै समर्पितवन्तः च। 34प्रान्तशासकः पत्रं पठित्वा पौलुसम् अपृच्छत् यत् सः कस्य प्रान्तस्य वर्तते? इदं ज्ञात्वा यत् सः किलिकियायाः अस्ति, 35सोऽवदत् “यदा तव अभियोगिनः आगमिष्यन्ति, तदा अहं तव अभियोगं श्रोष्यामि।” सः पौलसं हेरोदसस्य दुर्गे बन्दीकर्तुम् आदेशम् अददात्।
Currently Selected:
प्रेरिता 23: SANSKBSI
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.