प्रेरिता 24
24
रोमनप्रांतशासकस्य फेलिक्सस्य समक्षे उपस्थापनम्
1पन्न्चदिनस्य पश्चात् प्रधानमहापुरोहितः हनन्याहः, कतिपयधर्मवृद्धैः महापुरोहितैः च तेरतुल्लसः नाम उत्तरवादिनः सह कैसरियाम् आगतवान्। ते प्रान्तपालकस्य समक्षे पौलुसस्य विरुद्धे निवेदनपत्रं प्रस्तुतवन्तः। 2तैः पौलुसः आहूतः, तेरतुल्लुसः इदं कथयन् तस्मिन् उपरि अभियोगम् अकरोत्, “महामहिमफेलिक्स महोदय! वयं हार्दिककृतज्ञतया स्वीकुर्मः यत् भवतः कृपया अपारशान्तौ जीवनं यापयामः, भवतः दूरदर्शितया अस्माकं प्रान्ते सर्वप्रकारस्य, सर्वत्र उन्नतिः दृश्यते। अस्माकम् अनुभवः अस्ति अयं जनः उपद्रवी अस्ति। 3अयं समस्तसंसारस्य यहूदिनां मध्ये मतभेदं उत्पादयति, 4भवतः समयं नेतुं न इच्छामि 5अयं नासरीसम्प्रदायस्य एकः नेता अस्ति। 6अयं मन्दिरम् अपवित्रं कर्तुम् प्रयत्नं कुर्वन् आसीत्, तस्मिन् एव क्षणे सः अस्माभिः धृतः। 7-8व्यवस्थायाः अनुसारेण दंडं वयम् अदास्याम, परन्तु सेनानायकः लुसियसः आगत्वा इमम् अति काठिन्येन अस्माकं हस्तेभ्यः अहरत् तथा अभियोगं कर्तॄणि भवतः सम्मुखे उपस्थितुम् आदिष्टवान्। भवान् इमं पृष्टवा सर्वानां कथनानां सत्यतां ज्ञातुं अर्हसि, येषु विषयेषु वयम् अस्मिन् उपरि अभियोगं कुर्मः।” 9यहूदिनः धर्मगुरवः इदं कथयन् तेरतुल्लसस्य अभियोगस्य समर्थनं कृतवन्तः, यत् तानि कथनानि सत्यमस्ति।
10प्रान्तपालकः पौलुसं वक्तुम् इंगितवान्, सः ईदृशम् उत्तरम् अददात् ः-
“अहम् इदं ज्ञात्वा प्रसन्नतया सह स्वपक्षं प्रस्तौमि, यत् भवान् चिरकालं यावत् अस्याः जात्याः न्यायाधीशः अस्ति, परिस्थितिं पूर्णरूपेण अवगन्तुं समर्थः। 11द्वादशदिनात् न अधिकः अभवत् अहम् आराधनाय येरुसलेमम् अगच्छम्। 12अहं केनचित् सह न तु मंदिरे, न सभागृहे, न तु अन्यत्र नगरे विवादं कुर्वन्, जनैः सह कपटप्रबन्धं कुर्वन् दृष्टः। 13येषां वचनानां विषये ते इदानीं मयि अभियोगं कुर्वन्ति, तेषां कोऽपि प्रमाणं दातुम् असमर्थः।
14“अहं भवतः समक्षे एतावत् अवश्यं स्वीकरोमि, यत् ये यं “कुपन्थं” वदन्ति, अहं तस्य एव नवीनपंथस्य अनुसारेण स्व पूर्वजानां परमेश्वस्य उपासनां करोमि; यतः यत्किंचित् व्यवस्थायाम् लिखितमस्ति, तस्मिन् मम विश्वासः अस्ति, 15परमेश्वरस्य उपरि विश्वासं कुर्वन्, तेषाम् इव आशां करोमि, यत् धर्मीविधर्मिणाम् द्वयोः पुनरुत्थानं भविष्यति। 16अतएव अहं परमेश्वस्य, मनुष्यानां च दृष्टौ स्वान्तःकरणं निर्दोषं कर्तुम् निरन्तरं यते।
17“अनेकवर्षाणि यावत् विदेशे स्थित्वा, अहं स्वकीयजनेभ्यः दानं प्रापनाय, मन्दिरे उपहारम् अर्पयितुं च आगच्छम्। 18केचित् आसियायाः यहूदिनः शुद्धीकरणस्य पश्चात् मंदिरे ईदृशं कुर्वन् माम् अपश्यन्। मया सह न तु समूहः आसीत् न कोऽपि तत्र उपद्रवश्च अभवत्। 19यदि तान् मम विरुद्धे किन्न्चित् कथनमासीत्, तदा तान् अत्र भवतः सम्मुखे कथनमासीत्, 20धर्ममहासभायाः सम्मुखे मयि स्थिते सति, तैः मयि कः दोषः प्राप्तः? 21एतत् सत्यम्, मया तेषां समक्षे स्थित्वा उच्चस्वरेण कथितम् -मृतकानां पुनरुत्थानात् कारणात् अद्यः भवतः समक्षे मयि अभियोगः क्रियते।”
कैसरियायां पौलुसस्य कारावासः
22फेलिक्सः नवीनपन्थस्य विषये जानाति स्म। सः बहसं स्थगितं कृत्वा यहूदिनः अकथयत्, सेनानायके लुसियसे आगते सति, अहं भवतां अभियोगस्य निर्णयं करिष्यामि।” 23सः शतपतिम् आदिष्टवान् यत् सः पौलुसं कारागारे स्थापयेत्, कोऽपि तस्य सुश्रूषायै आगच्छेत्।
24किन्न्चित् दिनानां पश्चात् फेलिक्सः स्व यहूद्या पत्न्या द्रुसिल्लया सह आगच्छत्। सः पौलुसम् आनेतुम् आदिष्टवान्, येशुमसीहे विश्वासस्य संबंधे वार्ताम् श्रुतवान् च। 25यदा पौलुसः धार्मिकतायाः आत्मसंयमस्य, अन्तिमन्यायस्य च विषये वक्तुम् आरब्धवान्, फेलिक्सः भयभीतः भूत्वा तम् अवदत्, “त्वम् इदानीं गन्तुं शक्नोषि। अवकाशे मिलिते सति, त्वां पुनः आह्वायामि।” 26-27सः पौलुसात् रुप्यकाणि प्राप्तुम् इच्छति स्म। अस्याम् आशायां सः पौलुसेन सह बारं-बारं वार्तालापं करोति स्म। द्वयोः वर्षयोः पश्चात् पोर्कियुसः फेस्तुसः, फेलिक्सस्य उत्तराधिकारी नियुक्तः। यहूदिनः प्रसीदयितुं तेन पौलुसः कारागारे एव मुन्न्चितः।
Currently Selected:
प्रेरिता 24: SANSKBSI
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.