YouVersion Logo
Search Icon

प्रेरिता 25

25
रोमनसम्राजं पौलुसस्‍य पुनर्विचाराय प्रार्थना
1निजप्रदेशे आगमनस्‍य त्रयाणाम्‌ दिनानां पश्‍चात्‌, फेस्‍तुसः कैसरियायाः येरुसलेमम्‌ आगच्‍छत्‌। 2महायाजकाः यहूदिनां प्रमुखाः नेतारः च पौलुसस्‍य उपरि अभियोगं कर्तुम्‌ तस्‍य समीपे आगतवन्‍तः। 3ते फेस्‍तुसं येरुसलेमनगरम्‌ आह्‌वयितुं निवेदितवन्‍तः, यत्‌ ते मार्गे एव पौलुसं हत्‍यां कर्तुम्‌ उपजापं कुर्वन्‍तः आसन्‌। 4परन्‍तु फेस्‍तुसः उत्तरम्‌ अददात्‌, “पौलुसः कैसरियायाः बन्‍दीगृहे एव स्‍थास्‍यति। अहं स्‍वयमेव शीघ्रं येरुसलेमनगरं गन्‍तुं इच्‍छामि, 5अतः भवतां प्रमुखाः अधिकारिणः मया सह आगच्‍छन्‍तु। यदि पौलुसेन कोऽपि अपराधः कृतः, तदा तस्‍मिन्‌ उपरि अभियोगः भवेत्‌।”
6फेस्‍तुसः अष्‍टदशदिनानां पश्‍चात्‌ कैसरियां प्रत्‍यागच्‍छत्‌। अन्‍यस्‍मिन्‌ दिवसे व्‍यवहारमंडपे तेन पौलुसः आहूतः। 7पौलुसे आगते सति, येरुसलेमनगरात्‌ आगताः यहूदिनः तं परितः स्‍थित्‍वा तस्‍मिन्‌ उपरि अनेकान्‌ गंभीरान्‌ अभियोगान्‌ कुर्वन्‍ति स्‍म, वरन्‌ प्रमाणितकर्तुम्‌ असमर्थाः आसन्‌। 8पौलुसेन प्रत्‍युत्तरे कथितम्‌, “मया न यहूदिनां व्‍यवस्‍थायाः विरुद्धे, न मन्‍दिरस्‍य विरुद्धे, न रोमनसम्राजः च विरुद्धे अपराधः कृतः।” 9परन्‍तु फेस्‍तुसः यहूदिनः प्रसीदतुं पौलुसम्‌ अपृच्‍छत्‌, “किं त्‍वं येरुसलेमं गन्‍तुम्‌ इच्‍छसि? यथा तत्र मम समक्षे एतेषां वचनानां विषये तव न्‍यायः भवेत्‌?” 10पौलुसः उत्तरम्‌ अददात्‌, “अहं सम्राजः न्‍यायासनस्‍य सम्‍मुखे उपस्‍थितः अस्‍मि। मम न्‍यायः अत्रैव भवितव्‍यः। भवान्‌ सुष्‍ठु जानाति, यत्‌ मया यहूदिनां विरुद्धे कोऽपि अपराधः न कृतः। 11-12यदि अहं प्राणदंडस्‍य योग्‍यः कोऽपि अपराधम्‌ अकरिष्‍यम्‌, मृत्‍योः न अभेष्‍यम्‌। परन्‍तु एतेषाम्‌ अभियोगे काचित्‌ अपि सत्‍यता नास्‍ति, अस्‍यां परिस्‍थितौ कोऽपि नरः माम्‌ एतेषां सुपुर्दकर्तुम्‌ न अर्हः। अहं सम्राजम्‌ पुनर्विचारार्थम्‌ निवेदयामि।” परिषदेन सह परामर्शस्‍य पश्‍चात्‌ फेस्‍तुसेन कथितम्‌, “त्‍वया सम्राट्‌ पुनर्विचाराय निवेदितः, अतः सम्राजः समीपे गमिष्‍यसि।”
नृपस्‍य अग्रिप्‍पः द्वितीयस्‍य पुरतः पौलुसस्‍य उपस्‍थितिः
13-14कतिपयदिनानां पश्‍चात्‌ नृपः अग्रिप्‍पाः बेरनिसश्‍च फेलिक्‍सस्‍य अभिवादनं कर्तुम्‌ कैसरियाम्‌ आगच्‍छताम्‌। तत्र बहुदिनानि यावत्‌ स्‍थितवन्‍तौ। अस्‍मिन्‌ अवसरे फेस्‍तुसः पौलुसस्‍य विषयं नृपस्‍य समक्षे प्रस्‍तुतवान्‌, अवदत्‌ च, “फेलिक्‍सेन अत्र एकः व्‍यक्‍तिः मुन्न्‍चितः। 15यदा अहं येरुसलेमनगरे आसम्‌ तदा महायाजकैः धर्मवृद्धैः च सः अभियुक्‍तः कृतः। ते पौलुसं दण्‍डाज्ञां दातुं मां निवेदितवन्‍तः। 16मया प्रत्‍युत्तरे कथितम्‌, “यावत्‌ अभियुक्‍तः अभियोगिनां समक्षे उपस्‍थितः न भवेत्‌, तस्‍मै स्‍व अभियोगस्‍य पक्षे वक्‍तुम्‌ अवसरः न लभेत्‌, तावत्‌ कस्‍मै अपि प्रसन्‍नकर्तुम्‌ अभियुक्‍तं तेषां हस्‍ते सर्मपणम्‌, इदं रोमिनाम्‌ प्रथा नास्‍ति।” 17अतएव ते अत्र आगताः सन्‍ति। मया अन्‍यस्‍मिन्‌ दिने एव व्‍यवहारमंडपे सः जनः आहूतः। 18परन्‍तु येषाम्‌ अपराधानां मां शंका आसीत्‌, तेषां विषये तैः कोऽपि अभियोगः तस्‍मिन्‌ उपरि न कृतः। 19तेषां केवलं धर्म-विषयेषु पौलुसेन सह मतभेदः आसीत्‌, सः मतभेद्‌ः येशोः विषये आसीत्‌, यः मृतः अस्‍ति, परन्‍तु पौलुसः तस्‍य पुनरुत्‍थानस्‍य साक्षीं ददाति स्‍म। 20अहम्‌ इमं वादविवादं श्रुत्‍वा किंकर्तव्‍यविमूढः भूतोऽस्‍मि। अतः अहं पौलुसम्‌ अपृष्‍टम्‌, “किं त्‍वं येरुसलेमनगरं गन्‍तुम्‌ इच्‍छुकः असि, तत्र एतेषु विषयेषु तव न्‍यायः भविष्‍यति।” 21पौलुसः सम्राजः निर्णयं यावत्‌ बन्‍दीगृहे स्‍थातुं निवेदितवान्‌। मया अनुमतिः दत्ता। 22अग्रिप्‍पाः फेलिक्‍सम्‌ अवदत्‌, “अहमपि तस्‍य जनस्‍य वचनं श्रोतुम्‌ इच्‍छामि।” फेस्‍तुसेन कथितम्‌, “भवान्‌ श्‍वः श्रोष्‍यति।”
23अन्‍यस्‍मिन्‌ दिने अग्रिप्‍पाः भगिन्‍या सह सज्‍जीभूय, सेनानायकैः प्रतिष्‍ठितपुरवासिभिः सह सभाभवने आगतवान्‌। फेस्‍तुसस्‍य आदेशानुसारेण पौलुसः तत्र आनीतः। 24फेस्‍तुसः अवदत्‌, सम्राट्‌ अग्रिप्‍पाः! अत्र उपस्‍थिताः सज्‍जनाः! भवन्‍तः इमं जनं पश्‍येयुः यस्‍य विषये येरुसलेमनगरे, अत्रापि समस्‍त यहूदीसमुदायः माम्‌ मिलित्‍वा उच्‍चस्‍वरेण अवदत्‌, “अयं जनं प्राणदण्‍डस्‍य योग्‍यः अस्‍ति।” 25परन्‍तु प्राणदंडस्‍य योग्‍यः कोऽपि अपराधः न प्राप्‍तः। पौलुसः महाराजाधिराजम्‌ निवेदितवान्‌, तदा अहम्‌ इमं जनं प्रेषयितुं निश्‍चयम्‌ अकरवम्‌। 26सम्राजे अस्‍मिन्‌ विषये किन्न्‍चित्‌ लिखितुं काऽपि निश्‍चिता सामग्री मम पार्श्‍वे नास्‍ति, अतएव मया, अनया आशया भवतां समक्षे विशेषरूपेण भवतः समक्षे हे समाट्‌ अग्रिप्‍पाः! अयं जनः उपस्‍थितः कृतः, येन अनुसंधानस्‍य पश्‍चात्‌ मां लिखितुं आधारः मिलिष्‍यति। 27कमपि अभियुक्‍तं प्रेषणं, तस्‍मिन्‌ उपरि कृतानां अभियोगानां न उल्‍लेखनम्‌ मह्यम्‌ असंगतं प्रतीयते।”

Highlight

Share

Compare

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for प्रेरिता 25