प्रेरिता 26
26
अग्रिपः सम्मुखे पौलुसस्य स्पष्टीकरणम्
1अग्रिप्पाः पौलुसम् अवदत्, “तुभ्यं स्वपक्षम् उपस्थापयितुम् अनुमतिः दीयते।” इदं श्रुत्वा पौलुसः हस्तौ प्रसारयित्वा स्वपक्षे वक्तुम् आरब्धवान् :-
2-3“सम्राट् अग्रिप्पाः! यहूदिनः मयि बहवः आरोपाः कृतवन्तः। अस्मिन् संबंधे अहम् अद्यः भवतः समक्षे स्वपक्षं प्रस्तौमि - अयं मम सौभाग्यः, विशेष रूपेण भवान् यहूदिनां प्रथां, विवदान् च पूर्णरूपेण जानाति। मम नम्रनिवेदनमस्ति यत् भवान् धर्यपूर्वकं मम वचनानि शृणुयात्।”
4“मम जीवनम् प्रारंभात् एव स्वराष्ट्रस्य जनानाम् मध्ये, येरुसलेमनगरे च व्यतीतम्, अतएव सर्वे यहूदिनः जानन्ति यत् युवावस्थायां मम आचरणं कीदृशम् आसीत्। 5ते मां चिरकालात् एव जानन्ति, यदि इच्छन्ति तदा साक्ष्यमपि दातुं समर्थाः सन्ति यत् फरीसीरूपे स्व धर्मस्य कट्टरतमः सम्प्रदायस्य अनुरूपं मया जीवनं व्यतीतम्। 6परमेश्वरेण अस्माकं पूर्वजाः या प्रतिज्ञा कृता आसीत्, तस्याः आशायाः कारणात् (येशोः मसीहस्य कारणात्) मयि अभियोगः चलति। 7अस्माकं द्वादशवंशाः रात्रौ च दिने च अस्याः प्रतिज्ञायाः पूर्त्यै उत्साहेन सह परमेश्वरस्य उपासनां कुर्वन्ति। हे राजन्! तस्याः आशायाः विषये यहूदिनः मयि अभियोगं कुर्वन्ति। 8अहं यहूदिनः प्रष्टुम् इच्छामि यत् भवतः इदं वचनं किमर्थम् अविश्वसनीयम् प्रतीयते यत् परमेश्वरः मृतकेभ्यः जीवनदानं यच्छति?”
9“अहमपि सर्वप्रकारेण येशोः नाम्नः विरोधः स्व कर्तव्यम् अमन्ये। 10मया येरुसलेमनगरे ईदृशः एव कृतः। मया महापुरोहितेभ्यः अधिकारं प्राप्त्वा बहवः सिद्धजनाः बन्दीगृहे स्थापिताः, तेभ्यः प्राणदंडाय मया सहमतिः दत्ता च। 11अहं सर्वेषु सभागृहेषु बारं-बारं दंडं दापयित्वा, येशोः निन्दायै तान् बाध्यकर्तुम् अयते। मम प्रकोपः एतावत् अवर्धत यत् वाह्यनगरेषु अपि गत्वा तेषाम् उपरि अत्याचारम् अकरवम्।”
12-13“अस्मात् कारणात् अहं कस्मिंश्चित् समये महापुरोहितानाम् अधिकारेण अनुमत्या च दमिश्कस्य यात्रां कुर्वन् आसम्। हे सम्राट्! मया दिनस्य मध्याह्नसमये मार्गे दृष्टः यत् सूर्यात् अपि अधिकदेदीप्यमाना एका ज्योतिः माम्, अनुयायिनश्च सर्वतः प्रज्वलिता। 14वयं सर्वे भूमौ अपताम, मह्यम् इब्रानीभाषायाम् एका वाणी इदृशी कथयती श्रूयते स्म, “साऊल! साऊल! त्वं मयि किमर्थम् अत्याचारं करोषि? अंकुशे प्रहारकर्तुम् तव कृते काठिन्यम्।” 15मया कथितम्, “प्रभो! कः त्वम्? प्रभुः प्रत्युतरत्, “अहं येशुः अस्मि, यस्मिन् उपरि त्वम् अत्याचारं करोषि? 16स्व पादाभ्यां उत्तिष्ठ। मम दर्शनस्य कारणमस्ति, त्वं ममसेवकः साक्षी च भव। त्वया मम विषये यत् दृष्टम् पश्चाते अपि यत् द्रक्ष्यसि, तस्य संबंधे साक्ष्यं दास्यसि। 17अहं स्वजनेभ्यः अन्यजातिभ्यः तव रक्षिष्यामि येषां समीपे त्वां प्रेषयामि। 18अहं तेषां नेत्राणि उन्मीलयितुं, तान् ज्योर्तिमुखाः कर्तुम्, दुष्टात्मनः शक्त्याः विमुखाः भूत्वा परमेश्वरं प्रति उन्मुखयितुं, त्वां तेषां समीपे प्रेषयिष्यामि, येन ते मयि विश्वासं कृत्वां स्व कुकर्मणां क्षमा, सिद्धजनानां मध्ये च स्थानं लभेरन्।”
19“अतएव हे राजन् अग्रिप्पाः! अहं तस्य दिव्यदर्शनस्य आज्ञाम् उल्लघनं कर्तुम् न अशक्नुवम्। 20मया इदं सर्वम् सर्वप्रथमं दमिश्कस्य तथा येरुसलेमस्य जनानां मध्ये, अस्य पश्चात् यहूदाप्रदेशे तथा, अयहूदिनां च मध्ये प्रचारितम्। मया जनाः पश्चात्तापं कर्तुम्, परमेश्वरस्य अभिमुखम् आगमनाय, पश्चात्तापस्य अनुरूपम् आचरणं कर्तुम् अनुरोधः कृतः। 21इदमेव कारणमस्ति यत् यहूदिनः मां मन्दिरे निरुध्य हन्तुम् ऐच्छन्। 22अहम् परमेश्वरस्य सहायतया अद्यावधिं दृढ़ः अस्मि, अग्रजावरजनानां सर्वेषां समक्षे साक्ष्यम् अददम्। येषां वचनानां विषये भविष्यवक्तारः मूसाः आदयः भविष्यवाणीम् अकुर्वन्, तेभ्यः अधिकः किन्न्चिताधिकम् न कथयामि। 23मूलवचनमस्ति, मसीहः दुखस्य भागी भूत्वा, मृतकेषु सर्वप्रथमः पुनर्जीवितः भूत्वा अस्माकं जनतायै, अन्यजातिभ्यः च ज्योत्याः संदेशं दास्यति।”
श्रोतानां प्रतिक्रिया
24पौलुसः इत्थं स्वपक्षं स्थापयन् एव आसीत्, तत्क्षणमेव फ़ेस्तुस उच्चस्वरेण अवदत्, “पौलुस! त्वं प्रलापं करोषि। स्व पाण्डित्येन उन्मतः असि।” 25पौलुसः प्रत्युत्तरे अवदत्, “माननीय फेस्तुस! अहं प्रलापं न, वरन् सत्यं, विवेकपूर्णवचनं कथयामि। 26नृपम् एतेषां वचनानां पूर्णज्ञानमस्ति अतएव अहम् अस्य समक्षे निस्संकोचेन सह वदामि। मम विश्वासः अस्ति, यत् एतेषु वचनेषु एकमपि गुह्यं नास्ति, यत् सम्राट् न जानाति च। 27सम्राट् अग्रिप्पाः! कि भवान् नबिषु विश्वसिति? अहं जानामि भवता विश्वासः क्रियते।” 28अग्रिप्पाः पौलुसम् अवदत्, “त्वं स्वतर्कैः मां सरलतया मसीहीं कर्तुम् इच्छसि?” 29पौलुसेन कथितम्, “सरलतया काठिन्येन वा अहं परमेश्वरं प्रार्थयाभि, न केवलं भवान्, वरन् अद्यस्य मम वचनस्य श्रोतारः, सर्वे इमानि बन्धनानि त्यक्त्वा, मम सदृशः भवन्तु।”
30तदा नृपः अग्रिप्पाः, प्रान्तपतिः फ़ेस्तुसः, बेरनिसः तैः सह उपविष्टाः सर्वे जनाः उत्तिष्ठवन्तः। 31गमनस्य समये परस्परं वदन्ति स्म, “अनेन जनेन प्राणदंडस्य, बन्धनस्य वा योग्यः कोऽपि अपराधः न कृतः।” 32अग्रिप्पाः फेस्तुसम् अवदत्, “यदि अयं जनः सम्राजं विचारार्थम् निवेदनं न अकरिष्यत्, तदा अस्य मुक्तेः संभावना आसीत्।”
Currently Selected:
प्रेरिता 26: SANSKBSI
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.