प्रेरिता 27
27
रोमं प्रति प्रस्थानम्
1यदा इदं निश्चितं यत् वयं जलमार्गेण इटलीनगरं गमिष्यामः, तदा पौलुसेन सह अन्याः बन्दिनः, यूलियुसः नाम शतपतये समर्पिताः। यूलियुसः सम्राजः औगुस्तुसस्य सैन्यदलस्य आसीत्। 2वयम् आसियायाः प्रदेशस्य पोताश्रयस्थानानि गन्तृषु अद्रमुत्तियुसनगरस्य एकस्मिन् पोते आरुह्य प्रस्थानम् अकुर्म। थिस्सलुनीकेनगरस्य आरिस्तर्खुसः नाम एक विश्वासी अपि अस्माभिः सह आसीत्। 3अन्यस्मिन् दिने वयं सीदोनम् आगच्छाम। पौलुसेन सह यूलियुसस्य व्यवहारः सौहार्दपूर्णः आसीत्, अतः तेन पौलुसः मित्रेण सह मिलितुम्, मित्राणां सेवा-सत्कारं ग्रहणं कर्तुम् अनुमतिः दत्ता। 4वयं तत्रतः कुप्रुसस्य पार्श्वतः भूत्वा अगच्छाम, यतः वायुः प्रतिकूलः आसीत्। 5तत्पश्चात् वयं किलिकियायाः तथा फंफुलियायाः तटवर्तिनः सागरात् भूत्वा लुकिसियाः मुरा इति नाम पोताश्रयम् आगच्छाम। 6तत्र शतपतिना सिकन्दरियायाः एकः पोतः प्राप्तः यः इटलीनगरं गन्ता आसीत्। वयं तस्मिन् पोते आरोहितवन्तः।
7वयं अनेकानि दिनानि यावत् पुरतः गच्छन्तः काठिन्येन सह क्नीदुसम् आगच्छाम। पवनं प्रतिकूलम् आसीत्, अतः वयं सलमोनेनगरस्य पुरतः गत्वा क्रेतेद्वीपस्य दक्षिणे पार्श्वतः चलित्वा 8काठिन्येन लसैयानगरस्य समीपे “सुन्दरपोताश्रयः” नाम स्थानम् आगतवन्तः।
भूमध्यसागरे झंझावातः
9अधिकः समयः व्यतीतः आसीत्, समुद्रीयात्रा इदानीं भयावहा अभवत्। उपवासदिवसं, यत् यहूदीप्रायश्चित्तदिवसं कथ्यते स्म, तत् अपि व्यतीतम्। पौलुसेन कथितम् 10“सज्जनाः! इदं प्रतीयते इयं यात्रा संकटमयी भविष्यति। अस्माकं न केवलं मालपोतयोः हानिः भविष्यति, वरन् स्वप्राणानाम् अपि।” 11परन्तु शतपतेः पौलुसस्य वचनात् अपेक्षा पोतचालकेन सह पोतस्वामिनि उपरि अधिकः विश्वासः आसीत्। 12तत् नौबन्धनखातं शीतकालाय उपयुक्तं न आसीत्। अतः अधिकांशजनाः तत्रतः गमनपक्षे आसन्। ते, येन-केन प्रकारेण फीनिक्सं यावत् आगत्य, तत्र शीतकालं यावत् स्थातुम् इच्छन्ति स्म। फिनिक्सः क्रेतेद्वीपस्य खातम् अस्ति, यत् दक्षिणप्रतीक्षीं, उदीचीप्रतीचीं प्रति च विस्तीर्णमस्ति।
13यदा दक्षिणः वायुः मन्दं मन्दं वहति स्म, ते अवगच्छन्, यत् अस्माकं कार्यम् समाप्तम्, लांगलं नीत्वा क्रेतस्य तटतः अग्रे अगच्छन्। 14परन्तु शीघ्रमेव स्थलात्, “उत्तरीपूर्वी”, नाम चंडवातः वहति स्म। 15पोतः चंडवातस्य आक्रमणे अवशः आसीत्, अतः वयं विवशाः भूत्वा वातेन सह नीताः आस्म। 16कौदाः नाम लघुद्वीपम् आगत्य वयं येन केन प्रकारेण पोतं नियन्त्रितवन्तः। 17ते पोतं अधस्तात् उपरिं यावत् रज्जुभिः दृढं पिनिद्धवन्तः। 18-20अन्यस्मिन् दिने वयं वातेन अत्याधिकाः ताडिताः धूनिताश्च, अतएव ते पोतस्य वस्तूनि समुद्रे अक्षिपन्। तृतीये दिवसे ते स्वहस्तैः पोतस्य प्रसाधनस्य सामग्रिनः अपि क्षिप्तवन्तः। अनेकानि दिनानि यावत् सूर्यः नक्षत्राणि च न अदृश्यन्त, झंझावातः वेगेन वहति स्म, तदा अस्माकं प्राणरक्षायाः आशा अपि क्षीणा जाता।
21ते चिरकालात् किन्न्चितपि न अभक्षयन्, अतः पौलुसः तेषां मध्ये स्थित्वा अवदत्, “सज्जनाः! भवन्तः मम वचनं मत्वा क्रेतेद्वीपात् न अगमिष्यन्, तदा भवदभ्यः अयं संकटः, इयं हानिश्च न अभविष्यताम्। 22तथापि अहं भवतः धर्ये स्थातुं निवेदयामि। भवतां जीवनानि नहि, अपितु पोतः नष्टः भविष्यति; 23यतः मम परमेश्वरः यस्य अहम् उपासकः अस्मि, तस्यदूतः अद्यः रात्रौ अदृश्यत 24-25माम् अकथयत् च, “पौलुस! मा बिभीहि, भवान् रोमनसम्राजः सम्मुखे उपस्थितः भविष्यसि। अतएव परमेश्वरेण भवद्भ्यः वरदानं प्राप्तं यत् भवता सह यात्रिणः सर्वे न मरिष्यन्ति।” 26अतएव सज्जनाः! धर्ये दृढाः भवद्भिः भवितव्याः। मम परमेश्वरे विश्वासः अस्ति, यथा अहं कथितः तथैव भविष्यति, यद्यपि अस्माकं पोतः अवश्मेव केनापि द्वीपेन वेगेन आगत्य नष्टः भविष्यति।
पोतभंगः
27झंझायाः चर्तुदशीरात्रिः आगता, वयम् इदानीं यावत् अद्रियासमुद्रे इतः ततः वहामः स्म। प्रायशः मध्यरात्रौ नाविकाः अनुभवन् यत् ते स्थलस्य समीपे आगच्छन्। 28-29अनुमानं कृत्वा विंशतिः पोरसां जलं प्राप्तवन्तः। किन्न्चित् पुरः आगते सति पुनः पन्न्चदशः पोरसां जलं प्राप्तवन्तः। ते प्रस्तराणाम् आशंकया भयभीताः आसन्, अतः नावः पृष्टभागात् चत्वारः नौबन्धनकीलान् लम्बयित्वा उत्सुकया प्रातःकालस्य प्रतीक्षाम् अकुर्वन्। 30मल्लाहाः पोतात् धावितुम् इच्छन्ति स्म, अतः ते जलयानस्य पुरभागात् नौबन्धनकीलान् लम्बनस्य व्याजेन नौकां जले अवतरितवन्तः। 31-32पौलुसेन शतपतिः सैनिकाश्च कथिताः, “चेत् ते पोते न स्थास्यन्ति, तदा भवन्तः जीविताः न भविष्यन्ति।” इदं श्रुत्वा सैनिकाः नौकायाः रज्जूः कर्तयित्वा समुद्रे मुन्न्चितवन्तः।
33प्रातःकाले भविते सति, पौलुसः सर्वान् भोजनाय अनुरोधं कृतवान्। “भवद्भिः चिन्तां कुर्वन्तः, निराहारे च चतुर्दशदिनानि व्यतीतानि। भवद्भिः किन्न्चिदपि न खादितम्। 34अतएव अहं युष्मान् भोजनं कर्तुम् निवेदयामि। अस्मिन् एव भवतां कल्याणमस्ति। भवत्सु कस्यापि काचितापि हानिः न भविष्यति।” 35इदम् उक्त्वा, रोटिकां नीत्वा, सर्वेषां समक्षे परमेश्वरं धन्यवादं दत्वा, तां त्रोटयित्वा खादितुम् आरब्धवान्। 36सर्वे आश्वस्ताः भूत्वा अभक्षयन्। 37जलयाने वयं सर्वे षट्सप्तति अधिकं द्विशतम् प्राणिनः आस्म। 38यदा सर्वे खादित्वा तृप्ताः भूताः तदा ते अन्नं समुद्रे क्षिप्त्वा पोतस्य भारं लघुकर्तुम् आरब्धवन्तः।
39सूर्ये उदिते सति ते तं देशं न अजानन्, परन्तु एकं समतलं सिकतामयं तटं दृष्ट्वा परामर्शम् अकुर्वन्, यदि संभावना अस्ति, तदा पोतं तस्मिन् एव तटे स्थापयामः, 40अतः नौबन्धनकीलान् कर्तयित्वा समुद्रे अमुन्न्चन्, पतवाराणां रज्जूः अवृणवन्। पुरस्य पालं वायौ तनित्वा तटं प्रति अगच्छन्। 41बालुकामयं तटमागत्य तस्मिन् एव पोतः स्थितः। पोतस्य पुरभागः भूमौ रभसा आगत्य तस्मिनेव समाहितः अभवत्। पोतस्य पृष्टभागः तरंगैः त्रोटितः।
42कुत्रचित् एवं न भवेत् यत् बन्दिनः तृत्वा पलायिष्यन्ति, अस्याः आशंकायाः सैनिकाः तान् हन्तुम् इच्छन्ति स्म, 43परन्तु पौलुसस्य रक्षां चिन्तयित्वा शतपतिना ते वारिताः, आदिष्टाश्च, ये तरितुम् जानन्ति, ते सर्वप्रथमं समुद्रे तटे गच्छन्तु। 44अवशिष्टाः पोतस्य अन्यवस्तूनां सहायतया आगच्छन्तु। इत्थं सर्वे सकुशलाः तटे आगतवन्तः।
Currently Selected:
प्रेरिता 27: SANSKBSI
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.