प्रेरिता 28
28
माल्टाद्वीपे पौलुसस्य स्वागतः
1जीवने पुनः प्राप्ते सति, इदं स्पष्टम् अभवत् यत् द्वीपस्य नाम माल्टा अस्ति। 2तत्रस्य निवासिनः अस्माभिः सह उत्तमव्यवहारं कृतवन्तः। वृष्ट्या सह शीतमपि आसीत्, अतः ते अग्निं प्रज्वलित्वा अस्माकं स्वागतं कृतवन्तः। 3पौलुसः काष्ठान् एकत्रीकृत्य अग्नौ स्थापयन् एव आसीत्, तस्मिन् एव क्षणे एकः सर्पः तापस्य कारणात् निर्गत्य तस्य हस्ते संलिप्तः भूतः। 4द्वीपस्य निवासिनः तस्य हस्ते सर्पम् दृष्ट्वा परस्परं वदन्ति स्म, “अवश्यमेव अयं जनः हन्ता अस्ति। अयं समुद्रस्य कोपात् रक्षितः, परन्तु न्यायस्य देवेन मृतः।” 5पौलुसः सर्पम् अग्नौ झटिति क्षिप्तवान् तथापि तस्मै काऽपि हानिः न अभवत्। 6ते अवगच्छन् यत् तस्य हस्तः स्फीतः भविष्यति, मरिष्यति वा। चिरस्य प्रतीक्षायाः पश्चात् पौलुसं सकुशलं दृष्ट्वा, स्व मनः परिवर्तनं कृत्वा, अवदन् “अयं देवता अस्ति।”
7तस्य स्थानस्य समीपे द्वीपस्य प्रधानस्य पुब्लियुसस्य भूमिः आसीत्। सः अस्माकं स्वागतं अकरोत्, त्रीणि दिनानि यावत् अस्माकं स्वागतं सत्कारं च अकरोत्। 8तस्मिन् एव समये पुब्लियुसस्य पिता ज्वरेण अतिसारेन च पीड़ितः भूत्वा विस्तरे आसीत्। पौलुसः तस्य समीपे गत्वा प्रार्थनां कृत्वा, तस्मिन्, हस्तं स्थापयित्वा स्वस्थम् अकरोत्। 9अस्य पश्चात् द्वीपस्य अन्याः रोगिणः अपि स्वास्थ्यलाभं प्राप्तवन्तः। 10अतः तत्रस्य जनैः वयं सम्मानिताः भूताः, यदा वयं तत्रतः चलितुम् आरब्धवन्तः, तदा तैः अस्मभ्यः आवश्यकतायाः समस्तवस्तूनि पोते स्थापितानि।
माल्टायाः रोमं प्रति प्रस्थानम्
11वयं त्रयाणाम् मासानां पश्चात् सिकन्दरियायाः “मिथनं” नाम पोते आरुह्य चलितवन्तः। सः पोतः शीतकालं यावत् द्वीपे अवरुद्धः आसीत्। 12वयं सिराकुसायां पोतं कीलैः बद्ध्वा त्रीणि दिनानि यावत् तत्र आस्म। 13वयं तत्रतः पार्श्वेन चलित्वा रिगियुयम् आगच्छाम। अन्यस्मिन् दिवसे दक्षिणी वायुः चलतिस्म, अतएव एकस्य दिनस्य पश्चात् वयं पुतियुलीम् खातम् आगच्छाम। 14तत्र भ्रातृभिः सह मेलनम् अभवत्। सप्ताहपर्यन्तं स्थातुं वयं तैः अनुरोधः कृताः। अस्माभिः अनुरोधः स्वीकृतः। तत्पश्चात् वयं रोमनगरं प्रति अचलाम। 15तत्रस्य भ्रातरः अस्माकम् आगमनस्य समाचारं श्रुत्वा अप्यियुसस्य चतुष्पथं, यावत् “त्रयसरायः” नाम स्थानं यावत् अस्माकं स्वागतं कर्तुम् आगतवन्तः। तान् दृष्ट्वा पौलुसः परमेश्वरं धन्यवादम् अददात्, तस्य उत्साहः वर्धते स्म।
16यदा वयं रोमनगरम् आगच्छाम, तदा पौलुसेभ्यः अनुमतिः प्राप्ता, यत् सः रक्षाधिकृतसैनिकैः सह स्व इच्छानुसारं स्थातुं स्वतंत्रः अस्ति।
रोमनगरे यहूदिभिः सह सम्पर्कः
17त्रयाणाम् दिनानां पश्चात् पौलुसः प्रमुखयहूदिनः आहूतवान्। तेषु एकत्रिते भूते सति तान् संबोधितवान्, “भ्रातरः! मया न तु अस्माकं जात्याः विरुद्धे, न तु पूर्वजनानां प्रथानां विरोधे अपराधः कृतः, तथापि अहं बन्दीकृतः अस्मि। येरुसलेमनगरे रोमननागरिकेभ्यः समर्पितः अस्मि। 18अनुसंधानस्य पश्चात् माम् उज्झितुम् इच्छन्ति स्म, यतः तै प्राणदंडस्य योग्यः कोऽपि अपराधः न प्राप्तः। 19परन्तु यदा यहूदिनः अस्य विरोधं कृतवन्तः, तदा मया सम्राट् पुनर्विचारप्रार्थनायै निवेदनं कृतम्, यद्यपि स्वजात्यौ कोऽपि अभियोगः मह्यम् अनुचितः आसीत्। 20अतएव मया भवदभिः सह मेलनाय, वार्तालापं कर्तुम् च निवेदनं दत्तम्, यतः इस्राएलस्य आशायाः कारणेन मया शृंखला धारिता अस्ति।” 21ते पौलुसम् अवदन्, “अस्मभ्यः यहूदियायाः भवतः विषये किमपि पत्रं न प्राप्तम्, न तु तत्रतः आगतः कश्चित् भ्राता भवतः परिचयम् अददात्, न तु कोऽपि भवतः विरुद्धे अपराधम् अकरोत्। 22परन्तु वयं भवतः विचारं श्रोतुम् इच्छामः, यतः वयं जानीमः अस्य सम्प्रदायस्य सर्वत्र विरोधः भवति।
रोमस्य यहूदिनां प्रतिक्रिया
23अतएव ते, पौलुसेन सह एकदिनं निश्चित्य, महत्यां संख्यायां तस्य समीपे एकत्रभूताः। पौलुसः प्रातःकालात्, संध्यां यावत् तान् बोधयति स्म, परमेश्वरस्य राज्यस्य विषये साक्ष्यं ददाति स्म, मूसासंहितायाः, नबिनाम् आधारे येशुमसीहं प्रति, तेषु विश्वासम् उत्पादयितुम् अयतत्। 24तेषु केचित् पौलुसस्य वचनानि स्वीकृतवन्तः, केचित् अविश्वासिनः इव अतिष्ठन्। 25यदा ते परस्परं एकमताः न बभूवः, गमनाय आरब्धवन्तः, तदा पौलुसः तान् इदम् अन्तिमवचनम् अकथयत् “पवित्रात्मना भविष्यवक्तायशाहस्य मुखेन भवतः पूर्वजाः उचितमेव कथितम् -
26एतेषां जनानां मध्ये गत्वा कथयतु;
त्वम् अवश्यमेव श्रोष्यति,
परन्तु न अवगमिष्यसि।
त्वम् अवश्यम् द्रक्ष्यसि,
परन्तु त्वं न ज्ञास्यसि;
27यतः एतेषां बुद्धिः हता।
इमे कर्णैः श्रोतुं न इच्छन्ति।
इमे स्व नेत्राणि पिहितवन्तः
कुत्रचित् एवं न भवेत् यत् इमे नेत्रैः पश्येयुः,
कर्णैः शृणुयुः,
मत्या अवगच्छेयुः,
मां प्रति प्रत्यागच्छेयुः,
मया निरोगाः भवेयुः।
28अतएव भवन्तः जानन्तु यत् परमेश्वरस्य इदं मुक्ते विधानम् अयहूदिभ्यः प्रेषितम्। ते अवहितेन श्रोष्यन्ति। 29(यदा पौलुसस्य वचनं समाप्तं, ते परस्परं तीव्रं विवादं कुर्वन्तः अगच्छन्)
उपसंहारः
30-31पौलुसः द्वे वर्षाणि यावत् अपरस्य गृहे तस्य शुल्कं दत्वा अतिष्ठत्। सः सर्वेषां आगन्तुकानां स्वागतं करोति स्म, ये तं द्रष्टुम् आगच्छन्। सः आत्मविश्वासेन सह निर्विध्नरूपेण परमेश्वरस्य राज्यस्य सन्देशं श्रावयति स्म, प्रभोः येशोः मसीहस्य विषये शिक्षयति स्म।
Currently Selected:
प्रेरिता 28: SANSKBSI
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.