YouVersion Logo
Search Icon

प्रेरिता 5

5
अनन्‍याहः सफीरा च
1परन्‍तु अनन्‍याहः नाम एकः जनः स्‍व पत्‍न्‍या सह परामर्शम्‌ कृत्‍वा एकं क्षेत्रं विक्रीय 2तस्‍य मूल्‍यस्‍य एकम्‌ अशं स्‍वपार्श्‍वे अस्‍थापयत्‌, इदं तस्‍य पत्‍नी जानाति स्‍म। द्वितीयाशंम्‌ आनयित्‍वा शिष्‍यानां चरणेषु अर्पितवान्‌। 3पतरसः सर्वम्‌ ज्ञात्‍वा अवदत्‌ - “अनन्‍याह! किमर्थम्‌ दुष्‍टात्‍मा तव हृदयस्‍य स्‍वामी अभवत्‌, यत्‌ त्‍वं पवित्रात्‍मानम्‌ असत्‍यं वक्‍त्‍वा क्षेत्रस्‍य मूल्‍यस्‍य अर्धम्‌ न ददासि? 4विक्रयपूर्वम्‌ किं इदं क्षेत्रं तव स्‍वामीत्‍वे न आसीत्‌? पश्‍चादपि किं तस्‍य मूल्‍यं, तव नासीत्‌? ईदृशं निन्‍दनीयं कार्यम्‌ कर्तुम्‌ बुद्धिः तव हृदये कथम्‌ अभवत? त्‍वं जनान्‌ प्रति नहि, अपितु परमेश्‍वरं प्रति असत्‍यं अकथयः।” 5अनन्‍याहः इदं कथनं श्रुत्‍वा अपतत्‌ अभ्रियत च। श्रोतारः भयभीताः संजाताः। 6केचित्‌ नवयुवकाः उत्‍थाय, मृतकवस्‍त्रेण आच्‍छाद्‌य, बहिः नीत्‍वा च श्‍मशानभूमौ अस्‍थापयन्‌।
7प्रायः तिसॄणाम्‌ घंटिकायाः पश्‍चात्‌ तस्‍य पत्‍नी अपि अभ्‍यन्‍तरम्‌ आगता! इमां घटनां सा न जानाति स्‍म। 8सा पतरसेन पृष्‍टा - “माम्‌ कथय क्षेत्रस्‍य मूल्‍यं किमासीत्‌? किम्‌ मूल्‍यम्‌ ईयतम्‌ एव आसीत्‌?” सा प्रत्‍युत्तरवती - “आम्‌ ईयतमेव।” 9पेत्रुसः ताम्‌ पृष्‍टवान्‌ “युवां पवित्रात्‍मनः परीक्षां किमर्थम्‌ कुरुथः? ये जनाः तव पतिं श्‍मशानभूमौ नीत्‍वा अस्‍थापयन्‌, ते द्वारे आगच्‍छन्‍ति, त्‍वामपि च नेष्‍यन्‍ति।” 10सा तत्‌ क्षणमेव तस्‍य चरणयोः अपतत्‌, तस्‍याः प्राणान्‌ बहिः गताः च। नवयुवकाः अभ्‍यन्‍तरम्‌ आगत्‍य तां नीत्‍वा तस्‍याः पत्‍युः पार्श्‍वे श्‍मशानभूमौ अस्‍थापयन्‌। 11समस्‍तकलीसियायां ये तयोः चर्चाम्‌ अशृण्‍वन्‌ तेषु सर्वेषु हृदयेषु भयम्‌ अभवत्‌।
चिह्‌नानि चमत्‍काराः च
12शिष्‍यैः जनतायां मध्‍ये अनेकानि चिह्‌नानि तथा चमत्‍काराः भवन्‍ति स्‍म। सर्वे विश्‍वासिनः एकहृदयाः भूत्‍वा सुलेमानस्‍य मंडपे एकत्रिताः भवन्‍ति स्‍म। 13अन्‍यजनेषु कमपि तैः सह सम्‍मिलितुं भवितुं साहसः न भवति स्‍म, यद्यपि जनता तेषां प्रशंसां करोति स्‍म। 14विश्‍वासिनां संख्‍या वर्द्धते स्‍म। स्‍त्रीपुरुषानां एकः वृहत्‌ समुदायः प्रभोः कलीसियायाः सदस्‍याः अभवत्‌। 15जनाः रुग्‍णजनान्‌ मार्गेषु नीत्‍वा खट्‌वासु शाययन्‍ति स्‍म। तेषां विश्‍वासः आसीत्‌ यत्‌ पतरसस्‍य छायया रोगिणः स्‍वस्‍थाः भविष्‍यन्‍ति। 16येरुसलेमस्‍य समीपवर्तीनगरेभ्‍यः जनाः अधिकसंख्‍यायाम्‌ एकत्राः भवन्‍ति स्‍म। तैः सह रोगिणः अशुद्धात्‍मना पीड़िताश्‍च अपि आगतवन्‍तः। ते सर्वे स्‍वस्‍थाः अभवन्‌।
प्रेरितेषु अत्‍याचारः
17इदं सर्वम्‌ दृष्‍ट्‌वा प्रधानमहापुरोहितः तस्‍य सर्वाणि मित्राणि, सदूकीसम्‍प्रदायस्‍य सदस्‍याः ईर्ष्‍यन्‍ति स्‍म। 18ते शिष्‍यौ बन्‍धनं कृत्‍वा राजकीये बन्‍दीगृहे निक्षिप्‍तवन्‍तः।
19परन्‍तु परमेश्‍वरस्‍य देवदूतः रात्रौ बन्‍दीगृहस्‍य द्वारं उद्‌घाटितवान्‌, शिष्‍यौ बहिः नीत्‍वा अवदत्‌ च, 20“गच्‍छेतम्‌, निर्भीकौ भूत्‍वा मंदिरे जनताम्‌ अस्‍य नवजीवनस्‍य सम्‍पूर्णशिक्षां श्रावयेतम्‌।” तौ तस्‍य कथनं स्‍वीकृतवन्‍तौ, प्रातःकाले एव मंदिरं गत्‍वा शिक्षयतः स्‍म।
धर्ममहासभायाः पुरतः शिष्‍यौ
21प्रधानयाजके, तस्‍य मित्रेषु च आगते सति, तैः इस्राएलीनेतॄणां सर्वोच्‍चः परिषदः आहूतः। शिष्‍यौ आनेतुं वधिकान्‌ बन्‍दीगृहं प्रेषितवन्‍तः च। 22यदा वधिकाः तत्र आगतवन्‍तः, तदा ते शिष्‍यौ कारागारे न प्राप्‍नुवन्‍तः। ते प्रत्‍यागत्‍य समाचारम्‌ अददुः - 23“वयम्‌ अपश्‍याम यत्‌ कारागारः यत्‍नेन पिहितः आसीत्‌। रक्षकपुरुषाः द्वारेषु स्‍थितवन्‍तः, परन्‍तु द्वारे उद्‌घाटिते सति अभ्‍यन्‍तरे कोऽपि न प्राप्‍तः।” 24इदं श्रुत्‍वा मन्‍दिरस्‍य आरक्षिणः, नायकाः महापुरोहिताः च ज्ञातुम्‌ असमर्थाः अभवन्‌ यत्‌ शिष्‍ययोः किम्‌ अभवत्‌। 25तत्‌क्षणमेव कश्‍चित्‌ जनः आगत्‍य तान्‌ अश्रावयत्‌ “पश्‍यन्‍तु यौ जनौ त्‍वया कारागारे निक्षिप्‍तौ, तौ मंदिरे जनताः शिक्षयतः।” 26इदं श्रुत्‍वा मंदिरस्‍य नायकः आरक्षिभिः सह गत्‍वा शिष्‍यौ आनीतवान्‌। ते शिष्‍यौ बलपूर्वकं न आनीतवन्‍तः, यतः ते जनेभ्‍यः भीताः आसन्‌। तान्‌ स्‍वोपरि प्रस्‍तरक्षेपणस्‍य भयम्‌ आसीत्‌।
27-28ते शिष्‍यौ आनयित्‍वा धर्ममहासभायाः पुरतः उपस्‍थापितवन्‍तः। प्रधानमहापुरोहितः तौ अवदत्‌ - “वयं युवाम्‌ सख्‍तादेशं दद्‌मः यत्‌ येशोः नाम्‍नि शिक्षां मा दत्तम्‌, परन्‍तु युवाभ्‍यां येरुसलेमस्‍य प्रत्‍येककोणेषु स्‍व शिक्षा प्रचारिता। तस्‍य मनुष्‍यस्‍य हत्‍यायाः भारम्‌ अस्‍माकं मस्‍तकेषु निक्षिप्‍तुम्‌ इच्‍छतः च?” 29इदं श्रुत्‍वा पतरसेन सह अन्‍य शिष्‍याः प्रत्‍युत्तरम्‌ अददुः, “मनुष्‍यानाम्‌ आज्ञापालनात्‌, परमेश्‍वरस्‍य आज्ञापालनं वरमस्‍ति। 30भवद्‌भिः येशुः क्रूसकाष्‍ठे अवलम्‍बयित्‍वा हतः, किन्‍तु सः अस्‍माकं पूर्वजानाम्‌ परमेश्‍वरेण पुनजीर्वितः। 31परमेश्‍वरः तस्‍मै शासकस्‍य उद्धारकस्‍य च उच्‍चपदं दत्‍वा स्‍व दक्षिणे उपस्‍थापयत्‌, येन सः तेन इस्राएलेभ्‍यः पश्‍तात्तापं पापक्षमां च प्रदातु। 32एतेषां वचनानाम्‌ आवाम्‌ साक्षिणौ। पवित्रात्‍मा अपि साक्षी अस्‍ति, यं परमेश्‍वरः तेभ्‍यः अददात्‌, ये तस्‍य आज्ञायाः पालनं कुर्वन्‍ति। 33इदं श्रुत्‍वा ते क्रुद्धाः भूत्‍वा तौ हन्‍तुं निश्‍चितवन्‍तः।
34तस्‍मिन्‌ समये गमलीएलः नाम फरीसी, यः संहितायाः अध्‍यापकः आसीत्‌, जनताभिः बहुमन्‍यते स्‍म, सः धर्ममहासभायाम्‌ उत्‍थाय शिष्‍यान्‌ किंचित्‌ कालपर्यतं बहिः नेतुम्‌ आदिष्‍टवान्‌। 35तेषु गते सति धर्ममहासभायाः सदस्‍यान्‌ इत्‍थम्‌ अकथयत्‌ - “इसरायलिनः भ्रातरः! भवन्‍तः अति प्रयत्‍नेन विचारयन्‍तु, यत्‌ ताभ्‍यां सह किं कर्तुम्‌ गच्‍छन्‍ति? 36किन्न्‍चित्‌ समयपूर्वम्‌ थेउदासः प्रकटः अभवत्‌। सः आडम्‍बरेण सह वदति स्‍म यत्‌ अहम्‌ अपि महत्‍वपूर्णः व्‍यक्‍तिः अस्‍मि, प्रायशः चतुश्‍शत जनाः तस्‍य अनुगामिनः च अभवन्‌। सः हतः, तस्‍य सर्वे अनुयायिनः विकीर्णाः अभवन्‌। तस्‍य अस्‍तित्‍वम्‌ अपि समाप्‍तम्‌। 37तत्‌ पश्‍चात्‌ जनगणनायाः समये, गलीलनिवासी यहूदाः प्रकटः अभवत्‌। सः अनेकजनान्‌ वन्न्‍चयित्‍वा स्‍व विद्रोहे सम्‍मिलितवान्‌। सः अपि नष्‍टः, तस्‍य सर्वे अनुयायिनः इतः ततः अभवन्‌। 38अतएव अस्‍मिन्‌ विषये भवतः कथितुम्‌ इच्‍छामि यत्‌ भवद्‌भिः अनयोः कार्येषु हस्‍तक्षेपः न करणीयः। एतौ स्‍वमार्गे चलितुं स्‍वतंत्रौ, स्‍तः। 39इयं योजना यदि परमेश्‍वरस्‍य अस्‍ति, तदा न नशिष्‍यति, यदि मनुष्‍यानाम्‌ अस्‍ति, तदा स्‍वयमेव नशिष्‍यति। परमेश्‍वरस्‍य योजनां नष्‍टुं भवन्‍तः समर्थाः न सन्‍ति, परमेश्‍वरस्‍य विरोधिनश्‍च भविष्‍यन्‍ति।” 40सर्वे तत्र उपस्‍थिताः तस्‍य विचारेण सहमताः अभवन्‌। ते शिष्‍यौ आहूतवन्‍तः, तैः शिष्‍यौ कशैः ताडितौ। इमं सख्‍तादेशं दत्‍वा तौ्‌ अमुन्न्‍चन्‌ - “युवाभ्‍यां येशोः नाम्‍ना न उपदेष्‍टव्‍यम्‌।” 41-42शिष्‍यौ आनन्‍दिताः भूत्‍वा धर्ममहासभायाः भवनात्‌ बहिः आगच्‍छताम्‌। हर्षस्‍य कारणमासीत्‌ यत्‌ तौ येशोः कारणात्‌ अपमानितौ आस्‍ताम्‌। तौ प्रतिदिनं मन्‍दिरे, प्रत्‍येकस्‍य गृहं च गत्‍वा शिक्षयतः स्‍म। येशोः मसीहस्‍य शुभसमाचारं श्रावयतः स्‍म।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for प्रेरिता 5