YouVersion Logo
Search Icon

यूहन्‍नः 11

11
लाजरुसस्‍य मृत्‍युः
1लाजरुसः बेतनियाहवासी नरः कश्‍चिद्‌ दुःसाध्‍यरोगेण चिरात्‌ पीड़ितः आसीत्‌। बेतनियाहः मरथामेरयोः ग्रामः आसीत्‌। 2मेरी सा एव आसीत्‌, यया सुगन्‍धितैलेन प्रभोः अभ्‍यंजनं कृतम्‌, तथा स्‍वकेशैः तस्‍य पादयोः मार्जनं कृतम्‌ आसीत्‌। तस्‍याः भ्राता रुग्‍णः आसीत्‌। 3अतः तस्‍य भगिन्‍यौ येशुवे दूतं सम्‍प्रेष्‍य एतत्‌ निवेदनम्‌ अकुरुताम्‌, “प्रभो! पश्‍यतु यं भवान्‌ लाडयति, सः अस्‍वस्‍थः अस्‍ति।” 4येशुः तत्‌ श्रुत्‍वा इत्‍थम्‌ उवाच, “एषः व्‍याधिः मृत्‍यवे न प्रत्‍युत परमेश्‍वरस्‍य पुत्रस्‍य महिमार्थम्‌ समागतः। एतेन परमेश्‍वरस्‍यपुत्रः महिमानम्‌ आप्‍स्‍यति।”
5येशुः लाजरुसे तद्‌भगिनीद्वये प्रेम अकरोत्‌। 6व्‍याधितः लाजरुसः अस्‍ति, इत्‍याकर्ण्‍य अपि असौ अपरं चापि दिनद्‌वयम्‌ तत्रैव तस्‍थौ, यत्र स्‍थितोऽभवत्‌, 7ततः परं स्‍वशिष्‍यान्‌ सः व्‍याजहार, “वयं पुनः यहूदाप्रदेशं गमिष्‍यामः।” 8शिष्‍याः अब्रूवन्‌, “गुरो! अधुना बहूनि दिनानि न व्‍यतीतानि, तत्रस्‍य जनाः भवन्‍तं प्रस्‍तरैः हन्‍तुं वात्र्छन्‍ति स्‍म, भवान्‌ भूयोऽपि तत्रैव किमर्थं गन्‍तुम्‌ इच्‍छति?” 9येशुः शिष्‍यान्‌ प्रति प्राह, “किम्‌ दिवसस्‍य द्वादश घटिकाः न हि विद्‌यन्‍ते? यस्‍तु दिवसे चलति, सः न स्‍खलति, यतः असौ संसारस्‍य ज्‍योतिं पश्‍यति। 10परन्‍तु यः रात्रौ चलति, सः स्‍खलति, यतः तस्‍मै ज्‍योतिः न लभते।”
11एतद्‌ उक्‍त्‍वा येशुः पुनः शिष्‍यान्‌ इदम्‌ अब्रवीत्‌, “अस्‍माकं मित्रं लाजरुसः शेते, अहं तं प्रबुधयितुं गच्‍छामि।” 12शिष्‍याः ऊचिरे, “प्रभो! सः शेते चेत्‌, स्‍वास्‍थ्‍यं सः लप्‍स्‍यते।” 13येशुस्‍तु तस्‍य मृत्‍युम्‌ उदि्‌दश्‍य प्रोक्‍तवान्‌, परन्‍तु शिष्‍याः अवबुध्‍यन्‌, येशुः लाजरुसस्‍य स्‍वभाविकनिद्राविषये अब्रवीत्‌। 14अतएव येशुः तान्‌ स्‍पष्‍टशब्‍दैः अब्रूत, “लाजरुसः अम्रियत। 15अहं युष्‍मदर्थं प्रसन्‍नोऽस्‍मि, यदहं तत्र ना अभवम्‌। येन यूयं विश्‍वासं कर्तुम्‌ शक्‍नुत।” 16तदा थोमसः यः दिदिमुसः कथयते स्‍म शिष्‍यैः सह अब्रवीत्‌, “वयं सर्वेऽपि गच्‍छेम, तेन सार्धम्‌ म्रियेमहि।
येशु जीवनं पुनरुत्‍थानं च वर्तते
17यदा येशुः तत्र जगाम, तदा अजानत्‌ यत्‌ लाजरुसः शवागारे दिनचतुष्‍टयात्‌ अस्‍ति। 18बेतनियाहः प्रायेण क्रोशम्‌ एकसम्‍मितम्‌ येरुसलेमप्रदेशात्‌ दूरम्‌ आसीत्‌, 19तस्‍मात्‌ यहूदिनः लाजरुसस्‍य मृत्‍योः शोकेन पीड़ितौ, तस्‍य भगिन्‍यौ सान्‍त्‍वनार्थम्‌ उपागच्‍छन्‌। मर्था, येशोः आगमनम्‌ श्रुत्‍वा, तं प्रति जगाम, 20किन्‍तु तस्‍याः भगिनी गृहे अतिष्‍ठत्‌।
21मर्था येशुम्‌ अब्रूत, “हे प्रभो! यदि भवान्‌ अत्र अस्‍थास्‍यत्‌ तर्हि मम भ्राता नामरिष्‍यत्‌। 22अहं जाने, भवान्‌ साम्‍प्रतम्‌ अपि प्रभुं यत्‌ प्रार्थयिष्‍यते, प्रभुः भवते तत्‌ सर्वम्‌ प्रदास्‍यते।” 23येशुः ताम्‌ उवाच, “तव भ्राता पुनरुत्‍थास्‍यति।” 24मर्था प्रत्‍युवाच, “असौ अन्‍तिमे दिवसे पुनः उत्‍थास्‍यति इति अहं जानामि।” 25येशुः अब्रूत, “पुनरुत्‍थानं जीवनं च अहम्‌ एव अस्‍मि। यस्‍य मयि विश्‍वासः अस्‍ति, असौ मृत्‍वा अपि जीवति। 26यः जीवितः, मयि विश्‍वसिति असौ कदापि न भरिष्‍यति। किमत्र तव विश्‍वासः वर्तते?” मर्था तं प्रत्‍यवादीत्‌, 27“प्रभो! मम विश्‍वासः दृढ़ः वर्तते यत्‌ भवान्‌ मसीहः, परमेश्‍वरस्‍य पुत्रः अस्‍ति, यः संसारे आगन्‍ता आसीत्‌।”
28इत्‍युक्‍त्‍वा मर्था गेहं गत्‍वा स्‍वां भगिनीम्‌ आहूय गुप्‍तं च इदम्‌ ताम्‌ उवाच, “गुरुः समीपम्‌ आयातः त्‍वां आह्‌वयति च।” 29इदं श्रुत्‍वा सा सत्‍वरम्‌ उत्‍थाय येशुं द्रष्‍टुम्‌ उपागता। 30येशुः तदापि ग्रामं न प्राविशत्‌ - किन्‍तु तं द्रष्‍टुं मर्था अगच्‍छत्‌, तत्रैव सः संस्‍थितः आसीत्‌। 31ततः यहूदिनः, ये तां सान्‍त्‍वयितुं तद्‌गेहं समागताः, तेऽपि तां दृष्‍ट्‌वा सहसा गृहात्‌ निर्यान्‍तीं, भातृशोकार्दिता एषा शवागारे प्ररोदितुम्‌ गच्‍छति इति मतिं कृत्‍वा ताम्‌ अनुप्रतस्‍थिरे।
येशुः अरोदीत्‌
32येशुः यत्र आसीत्‌, सा गत्‍वा तत्र स्‍थितं तं दृष्‍ट्‌वा एव तस्‍य चरणयोः प्रणिपत्‍य इदम्‌ अब्रवीत्‌, “हे प्रभो! चेत्‌ भवान्‌ अत्र अस्‍थास्‍यत्‌ तर्हि मम अनुजः लाजरुसः रुजाक्रान्‍तः न अमरिष्‍यत्‌। 33ततः तां रुदतीं, तया सह समागतान्‌ यहूदिनश्‍चापि रुदतः दृष्‍ट्‌वा येशुः व्‍याकुलतां गतः दीर्घं निःश्‍वस्‍य 34सम्‍प्राह, “युष्‍माभिः स क्‍व शायितः? ते तम्‌ ऊचिरे, “प्रभो! भवता एत्‍य असौ विलोक्‍यताम्‌।” 35येशुः अरोदीत्‌। 36यहूदिनः मिथः अब्रुवन्‌, “पश्‍यत अस्‍मिन्‌ अस्‍य कीदृक्‌ प्रेम वर्तते।” किन्‍तु केचित्‌ तु इदम्‌ अब्रुवन्‌, 37“एषः चेत्‌ नेत्रहीनेभ्‍यः नेत्राणि ददाति, तर्हि किं नैषः लाजरुसं मृत्‍योः परित्रातुं समर्थः आसीत्‌’’?
लजरुसाय जीवनदानम्‌
38येशुः शवागारं प्राप्‍य पुनः व्‍याकुलतां गतः। 39 शवागारं गुहाकारं पाषाणपिहितमुखं दृष्‍ट्‌वा प्राह, 39“पाषणम्‌ अपसारयत।” मृतकस्‍य भगिनी मर्था येशुम्‌ अब्रवीत्‌, “प्रभो! अद्‌यः तस्‍य मृतस्‍य चतुर्थं दिवसम्‌ अस्‍ति, इदानीं मृतकात्‌ दुर्गन्‍धः आयास्‍यति।” 40येशुः ताम्‌ प्रत्‍युवाच्‌ इत्‍थं, “किमहं त्‍वां न प्रोक्‍तवान्‌, यदि ते मयि विश्‍वासः, प्रभोः माहात्‍म्‍यं द्रक्ष्‍यसि?” 41ततः तैः शवागारत्‌ पाषाणः अपसारितः। येशुः ऊर्ध्‍वं विलोक्‍य आह, “पितः त्‍वाम्‌ अहं धन्‍यवादं ददामि; त्‍वया अहं श्रुतः। 42अहम्‌ जानामि स्‍म, यत्‌ भवान्‌ नित्‍यं मम शृणोति। त्‍वया अहं प्रेषितः अस्‍मि इति इमे जनाः विश्‍वसन्‍तु; अतः अहम्‌ एतत्‌ कारणात्‌ उक्‍तवान्‌। 43इत्‍युक्‍त्‍वा असौ शवागारं वीक्ष्‍य प्रोच्‍चैः अभाषत, “लाजरुस! बहिः आगच्‍छ।” 44मृतकः बहिः आयातः। तस्‍य हस्‍तौ पादौ च शववस्‍त्रेन वद्‌धौ आस्‍ताम्‌, मुखं चापि अड्‌.गप्रोक्षेण वस्‍त्रेण सुवेष्‍टितम्‌ आसीत्‌। येशुः जनान्‌ अब्रवीत्‌, एतं मुक्‍तबन्‍धः कुरुत।
येशोः वधार्थं कपटप्रबंधः
(मत्ती 26:1-5; मर 14:1-2; लूका 22:1-2)
45तदा मेरीं द्रष्‍टुं ये यहूदिनः आगताः, तथा यैः येशोः चमत्‍कारः दृष्‍टः, तेषु बहवः येशौ विश्‍वासम्‌ अकुर्वन्‌, 46परन्‍तु केचित्‌ फरीसिनाम्‌ समीपे गत्‍वा, यत्‌ कित्र्चित्‌ तैः अवलोकितम्‌, तत्‌ सर्वम्‌ अकथयन्‌।
47तदा महापुरोहिताः फरीसिनश्‍च धर्ममहासभाम्‌ आहूय अब्रूवन्‌, “वयं किं कुर्मः? अयं मनुष्‍यः अनेकान्‌ चमत्‍कारान्‌ दर्शयति। 48यदि वयं तस्‍य इमां वृत्तिम्‌ सहामहे, तर्हि सर्वे जनाः तस्‍मिन्‌ विश्‍वसिष्‍यन्‍ति। रोमनजनाः समागत्‍य अस्‍मदीयानि मन्‍दिराणि, राष्‍ट्रं च नाशयिष्‍यन्‍ति।” 49तेषु एकः कैफसः, यः तस्‍य वर्षस्‍य प्रधानमहापुरोहितः आसीत्‌, तान्‌ उवाच, “भवतां बुदि्‌धः कुत्र वर्तते? 50यूयं किंचित्‌ न जानीथ, यत्‌ जनानां हितार्थं एकस्‍य मरणं वरम्‌। एवं कृत्‍स्‍नस्‍य राष्‍ट्रस्‍य विनाशः न भविष्‍यति।” 51तेन नेदं स्‍वतः प्रोक्‍तं, प्रत्‍युत एषा भविष्‍यवाणी तस्‍य वत्‍सरस्‍य प्रधानमहापुरोहितस्‍य रूपे नबूवतम्‌ अकरोत्‌ यत्‌ येशुः राष्‍ट्रस्‍य हिताय मरिष्‍यति। 52न केवलं यहूदीजात्‍यै, प्रत्‍युत असौ विकीर्णां प्रभोः संततिम्‌ एकत्र संग्रहार्थं च मृत्‍युम्‌ अङ्‌गीकरिष्‍यति। 53तस्‍मिन्‌ एव दिने येशुं हन्‍तुं तैः निश्‍चयः कृतः। 54अतः तद्‌दिनमारभ्‍य यहूदिनां मध्‍ये प्रकटरूपे पर्यटनम्‌ असौ स्‍थगितं कृतवान्‌। येशुः तत्‌ स्‍थानं परित्‍यज्‍य, निर्जनप्रदेशस्‍य समीपवर्तिनः प्रान्‍तस्‍य एफ्राइमं नगरं गत्‍वा स्‍वशिष्‍यैः सह अवसत्‌।
55यहूदिनां पास्‍कापर्व (फसहपर्व) आसन्‍नमासीत्‌। अनेके पर्वणः प्रागेव शुद्धीकरणहेतवे ग्रामेभ्‍यः येरुसलेममागताः। 56ते येशुं मन्‍दिरे अन्‍विष्‍यन्‍ति स्‍म, मिथः चावदन्‌ - “भवतां को विचारोऽस्‍ति किं सः पर्वणि नैष्‍यति?” 57येशुं ग्रहीतुभिच्‍छन्‍तो महापुरोहिताः तथा फरीसिनः अपि लोकेषु ईदृशीम्‌ घोषणां चक्रुः यद्‌ येशुः कुत्र वर्तते, तत्‌ स्‍थानं यो नरः वेत्ति, असौ तद्‌ तेभ्‍यः निवेदयेत्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in