YouVersion Logo
Search Icon

यूहन्‍नः 12

12
बेतनियाहग्रामे येशोः अभ्‍यंजनम्‌
(मत्ती 26:6-13; मर 14:3-9)
1ततः पास्‍का (फसहस्‍य) त्‍योहारस्‍य षट्‌दिनानां पूर्वम्‌ एव येशुः बेतनियाहग्रामम्‌ आगतवान्‌। तत्र लाजरुसः अवसत्‌, यः तेन मृतकानां मध्‍यात्‌ उत्‍थापितः। 2तत्र जनैः येशोः सम्‍माने भोज्‍यमायोजितम्‌। मर्था पर्यवेषयत्‌। तेन सह भोजिनामेको लाजरुसः अपि आसीत्‌। 3मेरी तु अर्धलीटरं बहुमूल्‍यं सुगन्‍धिततैलम्‌ नीत्‍वा येशोः पादावलेपयत्‌। स्‍वकचैः तस्‍यपादौ परिमृजवती च। कृत्‍सनं गृहं च तैलस्‍य सुगन्‍धैः पूर्णम्‌ अभवत।
4तदा येशोः एकः शिष्‍यः यूदसइस्‍करियोती, यः तेन सह विश्‍वासघातं कर्तुमभाषत, 5इदं सुगन्‍धितैलं दीनाराणां त्रिभिः शतैः विक्रीय मूल्‍यं दीनेभ्‍यः तत्‌ कथं न प्रदतम्‌?” 6दरिद्राणां हितं कर्तुम्‌ तेन न इदम्‌ अब्रवीत्‌, प्रत्‍युत असौ महाचौरः आसीत्‌। सः सम्‍पुटवाहकः अपि आसीत्‌। तस्‍मिन्‌ सम्‍पुटके सज्‍जनाः यत्‌ यत्‌ निक्षपन्‍ति स्‍म, सः तत्‌ सर्वम्‌ अपाहरत्‌। 7येशुः तम्‌ अवदत्‌, इमां मुत्र्चस्‍व। एषा मम समाधिदिनार्थम्‌ एतत्‌ कार्यम्‌ अकरोत्‌। 8दरिद्राः युष्‍माभिः साकं सर्वदा स्‍थास्‍यन्‍ति, परन्‍तु अहं युष्‍माभिः साकं न स्‍थास्‍यामि।
9बहवः यहूदिनः “येशुः तत्र एव वर्तते“ इति ज्ञात्‍वा तत्र जग्‍मुः। ते येशोः हेतोः न समाजग्‍मुः, प्रत्‍युत पुनरुत्‍थापितं लाजरुसं द्रष्‍टुम्‌ आयाताः। 10ते लाजरुसम्‌ अपि हन्‍तुम्‌ ऐच्‍छन्‌; 11यतः तस्‍मात्‌ कारणात्‌ बहवः जनाः तेभ्‍यः पृथकाः भवन्‍ति स्‍म तथा येशौ विश्‍वासम्‌ अकुर्वन्‌।
येरुसलेमे विजयोल्‍लासेन सह येशोः प्रवेशः
(मत्ती 21:1-11; मर 11:1-11; लूका 9:28-40)
12अन्‍यस्‍मिन्‌ दिने पर्वणि आगति सति, विशालजनसमूहः येशुं द्रष्‍टुं समुत्‍सुकः, सः येरुसलेमम्‌ आगच्‍छति, इति ज्ञात्‍वा, 13खर्जूरपल्‍लवैः सह तस्‍य स्‍वागतार्थम्‌ आगच्‍छत्‌। ते उच्‍चैः ऊचिरे “जयतु! यः प्रभोः नाम्‍ना एति। धन्‍यास्‍ति इस्राएलस्‍य राजा! 14येशुस्‍तु एकं सुन्‍दरं युवगर्दभम्‌ प्राप्‍तवान्‌, सः तस्‍य पृष्‍टं उपविष्‍टः, यथा धर्मग्रन्‍थे लिखितम्‌ - 15“हे सियोन नगर! मा बिभेतु! तव राजा युवगर्दभे आसीनः त्‍वाम्‌ उपायाति।”
16येशोः शिष्‍यैः प्रथमम्‌ इदं न अवबुध्‍यत, परन्‍तु येशोः पुनरुत्‍थानस्‍य पश्‍चात्‌ ते अस्‍मरन्‌, यत्‌ इदं तस्‍य विषये लिखितमासीत्‌, जनाश्‍च तेन सह एवम्‌ एव अकुर्वन्‌।
17यदा येशुः लाजरुसं शवागारात्‌ आह्‌वयत्‌, तस्‍मिन्‌ समये येः जनाः तेन सह आसन्‌, ते सर्वे तस्‍य चमत्‍कारस्‍य साक्षीम्‌ ददुः।
18अतः तस्‍य स्‍वागतं कर्तुम्‌ बहवः आगतवन्‍तः। ते अशृण्‍वन्‌ इमं चमत्‍कारम्‌ येशुः अदर्शयत्‌। 19इदं दृष्‍ट्‌वा फरीसिनः मिथः बभाषिरे, “युष्‍माकं सर्वयत्‍नस्‍तु सर्वथा निष्‍फलोऽभवत्‌। पश्‍यत, सर्वः संसारः तम्‌ अनुसरति।”
येशु युनानीतीर्थयात्रिणश्‍च
20ये जनः पर्वणि उपासनार्थम्‌ आगताः तेषां मध्‍ये केचित्‌ यूनान-वासिनः आसन्‌। 21ते फिलिपं समागत्‍य सादरं न्‍यवेदयन्‌ - “महाशय! वयं येशो र्दर्शनस्‍य अभिकाङि्‌क्षणः।” फिलिपः गलीलप्रदेशस्‍यः बेतसैदानगरस्‍य निवासी आसीत्‌। 22सः गत्‍वा अन्‍द्रेयसं सूचितवान्‌। पुनश्‍च तौ उभौ गत्‍वा येशुम्‌ एतत्‌ अवोचताम्‌।
23येशुः तौ प्रत्‍युवाच इत्‍थम्‌, “असौ समयः समागतः यदा मानवपुत्रः महिमानम्‌ आप्‍स्‍यति। 24अहं युवां वच्‍मि यावद्‌ गोधूमबीजम्‌ मृत्तिकायां पतित्‍वा नाशं न आप्‍नोति, तावद्‌ गोधूमबीजं तु एकम्‌ एव तिष्‍ठति, किन्‍तु तद्‌ नाशं याति चेत्‌, बहु फलं ददाति। 25यः स्‍वप्राणेषु प्रेम करोति, असौ तान्‌ नाशयति। यः प्राणेषु विरक्‍तः अस्‍ति, तस्‍य प्राणाः अनन्‍तजीवनाय सुरक्षिताः। 26कश्‍चित्‌ मां सेवतुम्‌ इच्‍छेत्‌, तर्हि सः माम्‌ अनुगच्‍छतु। यत्र अहम्‌ अस्‍मि तत्रएव मम सेवकः अपि स्‍थास्‍यति। यस्‍तु मां सेवते, तं मे पिता सम्‍मानयिष्‍यति।”
क्रूसम्‌त्‍यो संकेतः
27“अधुना मे प्राणाः व्‍याकुलाः सन्‍ति। किं अहं वदिस्‍यामि - “हे पितः! अस्‍मिन्‌ समये संकटात्‌ मां रक्ष” किन्‍तु अस्‍य समयस्‍य कारणात्‌ एव अहं लोके आगतः अस्‍मि। 28हे पितः! साम्‍प्रतं त्‍वं स्‍वं महिमानं प्रकाशय।” तस्‍मिन्‍नेव काले इयं वाणी स्‍वर्गलोकात्‌ आगता, “मया महिमा प्रकटिता, पुनश्‍च तां प्रकटयिष्‍यामि।” तां वाणीं निशभ्‍य तत्र स्‍थिताः 29केचित्‌ जनाः अब्रुवन्‌, “मेघध्‍वनिः अजायत।” अन्‍ये प्रोचुः “कश्‍चन स्‍वर्गदूतः एनं जगाद।” 30येशुः प्रत्‍यब्रवीत्‌, “इयं वाणी मदर्थं, न युष्‍मदर्थम्‌ आसीत्‌। 31अधुना अस्‍य संसारस्‍य न्‍यायः विधीयते। इदानीम्‌ अस्‍य जगतः स्‍वामी बहिः निक्षेप्‍स्‍यते, 32तथा अहं महीतलात्‌ उत्‍थापयिष्‍ये, तर्हि सर्वान्‌ लोकान्‌ मम अन्‍तिकम्‌ उपस्‍थास्‍यामि।” 33एतेन वचसा येशुः एतत्‌ असूचयत्‌, यत्‌ तस्‍य मृत्‍युः कीदृशी भविष्‍यति।
34जनाः तम्‌ अभाषन्‍त, “व्‍यवस्‍थया वयं जानीमः, यत्‌ मसीहः सर्वदा स्‍थास्‍यति, पुनः कथं भवान्‌ ब्रूते यत्‌ मानवपुत्रः भूतलात्‌ ऊर्ध्‍वम्‌ उत्‍थापयिष्‍यते? को ऽसौ मानवपुत्रः?” 35येशुः तान्‌ आह, “अधुना युष्‍माकं मध्‍ये ज्‍योतिः स्‍वल्‍पकालम्‌ एव स्‍थास्‍यति। यावद्‌ ज्‍योतिः वर्तते, तावत्‌ अग्रे गच्‍छत। नो चेत्‌ तमो युष्‍मान्‌ आच्‍छादयिष्‍यति। यः तमसि व्रजति, असौ न वेत्ति क्‍व याति इति। 36यावद्‌ युष्‍मासु सा ज्‍योतिः, तावत्‌ तां प्रति श्रद्‌धत, येन ज्‍योतिपुत्राः यूयं सर्वे भविष्‍यथ।” एतद्‌ उक्‍त्‍वा येशुः र्निगत्‍य द्रुतम्‌ अन्‍तर्दधे।
जनसमूहस्‍य प्रतिक्रिया
37यद्‌यपि येशुः तान्‌ एतान्‌ चमत्‍कारान्‌ अदर्शयत्‌ तथापि तेषां हृदयेषु विश्‍वासः न उत्‍पद्‌यत। 38यतः अनिवार्यम्‌ आसीत्‌ यत्‌ नबिनः यशायाहस्‍य इदं कथनं पूर्णतां ब्रजेत्‌ - “प्रभो! केन मत्‍संदेशे विश्‍वासः कृतः कस्‍मै प्रभोश्‍च सामर्थ्‍यः प्रकाशितः बभूव। 39ते तस्‍मिन्‌ विश्‍वासं न अकुर्वन्‌ यतः यशायाहः इदमपि अवदत्‌ 40परमेश्‍वरेण तेषां नेत्राणि अन्‍धानि कृतानि तेषां बुद्धिः च कुण्‍ठिता कृता। परमेश्‍वरण कथितम्‌ - “इट्टक्‌ न भवेत्‌ यत ते नेत्रैः प्‍श्‍यन्‍तु, बुद्धया अवगच्‍छन्‍तु, मां प्रत्‍यागच्‍छन्‍तु, अहं च तान्‌ स्‍वास्‍थान्‌ करिष्‍याभि।”
41यशायाहेन तस्‍य महिमा दृष्‍टा आसीत्‌, अतएव सर्वम्‌ एतत्‌ अभाषत। 42तथापि नायकेषु बहवः तस्‍मिन्‌ विश्‍वासम्‌ अकुर्वन्‌, परन्‍तु फरीसिनाम्‌ भयात्‌ प्रकटरूपे येशौ न स्‍वीकृतवन्‍तः। तेषां भयम्‌ आसीत्‌ यत्‌ सभागृहात्‌ ते बहिष्‍कृताः करिष्‍यन्‍ते। 43यतः तेम्‍यः परमेश्‍वरस्‍य सम्‍मानात्‌ मनुष्‍यसम्‍मानम्‌ अधिकप्रियम्‌ आसीत्‌।
प्रभुयेशुः संसारस्‍य ज्‍योति
44येशुः उच्‍चैः उवाच, “यः मयि श्रद्‌धां करोति, असौ न मयि एव श्रद्‌धते किन्‍तु अहं येन प्रेषितः तस्‍मिन्‌ श्रद्‌धां करोति। 45यः तु मां पश्‍यति, सः तु तं पश्‍यति येन अहं लोके प्रेषितः अस्‍मि। 46अहं ज्‍योत्‍याः स्‍वरूपः अस्‍मिन्‌ संसारे आगतः अस्‍मि, येन यः मयि श्रद्धां करोति, असौ तिमिरे न तिष्‍ठेत्‌। 47यः मम शिक्षां श्रुत्‍वाऽपि तस्‍यां न श्रद्‌धां करोति असौ नरः मम मत्‍या दोषभाजनम्‌ न भवति, यतः संसारस्‍य दोषान्‌ निर्णेतुम्‌ अहं न आगतः अस्‍मि, प्रत्‍युतः अहं जगतः समुद्‌धर्तुम्‌ आगतः अस्‍मि। 48यश्‍च मां तिरस्‍करोति, मम वचांसि न गृह्‌णाति, सः अवश्‍यमेव दोषभाक्‌ सम्‍भविष्‍यति। मत्‌ प्रदत्ता एव शिक्षा तम्‌ अन्‍तिमदिवसे दोषैः सिद्‌धं करिष्‍यति। 49मया स्‍वतः कित्र्चित्‌ न उक्‍तम्‌ किन्‍तु मया किम्‌ नु वाच्‍यम्‌ एतत्‌ पित्रा समादिष्‍टं येन अहम्‌ प्रेषितः अस्‍मि। 50अहं जानामि यत्‌ तस्‍य आज्ञा अनन्‍तजीवनम्‌ अस्‍ति, अतः अहं यत्‌ किंचित्‌ ब्रवीमि तत्‌ तथैव ब्रवीमि, यथा पित्रा आदिष्‍टः।”

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in