YouVersion Logo
Search Icon

यूहन्‍नः 18

18
येशोः बन्‍धनम्‌
(मत्ती 26:47-56; मर 14:43-50; लूका 22:47-53)
1सर्वम्‌ एतत्‌ सम्‍भाष्‍य येशुः शिष्‍यैः सह किद्रोनस्रोतस्‍य पारम्‌ जगाम। तत्र एकम्‌ उद्‌यानम्‌ आसीत्‌। तत्र सः स्‍वशिष्‍यैः सह प्रविवेश। 2यूदसः विश्‍वासघाती अपि तत्‌ स्‍थानम्‌ अजानीत, यतः येशुः तत्र पुनः पुनः गत्‍वा अतिष्‍ठत्‌। 3अतः यूदसः महापुरोहितानाम्‌ फरीसिंनाम्‌ च प्रेषितैः सैनिकैः, सैन्‍यदलेन सह च तत्र आगच्‍छत्‌। ते दीपैः उल्‍काभिः सह विविधैः अस्‍त्रशस्‍त्रैः सुसज्‍जिताः येशुं धर्तुम्‌ तत्र आगच्‍छन्‌।
4येशुः एतत्‌ विज्ञाय यत्‌ तं प्रति किं भाव्‍यम्‌ अस्‍ति, बहिः आगत्‍य तान्‌ ऊचे - “युष्‍माभिः कः गवेष्‍यते?” 5ते तं प्रत्‍यवदन्‌ - “येशु नासरिनम्‌।” येशुः तान्‌ प्रत्‍यभाषत - “अहम्‌ एव अस्‍मि सः” तत्र विश्‍वासघाती यूदसः अपि तैः साद्‌र्धम्‌ आसीत्‌। 6यदा येशुः तान्‌ ऊचे, “अहम्‌ एव असौ अस्‍मि” तदा ते कित्र्चित्‌ पश्‍चात्‌ अपसृत्‍य भूमौ अपतन्‌। 7येशुः तान्‌ पुनः प्रपच्‍छ - “युष्‍माभिः को गवेष्‍यते?” ते तं प्रत्‍यवदन्‌ - “येशुनासरिनम्‌।” 8येशु तान्‌ उवाच - “सः एव अहम्‌ इति यूयं मया उदिताः। यूयं यदि मम गवेषणां कुरुथ, तर्हि एतान्‌ गन्‍तुम्‌ दत्त। 9एतत्‌ सर्वम्‌ अभवत्‌ यत्‌ तस्‍य कथनं पूरयतु - त्‍वया मह्‌यम्‌ ये प्रदत्ताः, तेषां कोऽपि मया न विनाशं नीतः।”
10तदा सिमोनपतरसः कोशतः खड्‌.गं निष्‍कृत्‍य, प्रधानमहापुरोहितस्‍य दासस्‍य दक्षिणं श्रवणं समुदच्‍छिनत्‌। तस्‍य नाम मलकुसः आसीत्‌। 11येशुः पतरसम्‌ अब्रूत - “खड्‌.गं कोशे निधेहि। पिता यं चषकं मह्‌यम्‌ अददात्‌, तं किम्‌ न पिबानि?”
12ततः सैन्‍यगणः तस्‍य सैन्‍यस्‍याधिपतिः तथा पदातयश्‍च येशुं धृत्‍वा अबध्‍नन्‌। 13ते प्रथमं येशुम्‌ अन्‍नासस्‍य अन्‍तिकं निन्‍यिरे; यतः सः तस्‍य वर्षस्‍य प्रधानमहापुरोहितस्‍य कैफसस्‍य श्‍वशुरः आसीत्‌। 14असौ सैव कैफसः आसीत्‌ यः यहूदिभ्‍यः परामर्शम्‌ दत्तवान्‌, “यत्‌ समस्‍तस्‍य प्रजावृन्‍दस्‍य हितार्थम्‌ एकस्‍य कस्‍यचित्‌ मरणं श्रेयम्‌ वर्तते।”
पतरस्‍य अस्‍वीकरणम्‌
(मत्ती 26:69-70; मर 14:66-68; लूका 22:55-57)
15सिमोन पतरसः, कश्‍चन चापरः शिष्‍यः येशुम्‌ अनुजग्‍मतुः। अयं शिष्‍यः प्रधानयाजकस्‍य परिचितः आसीत्‌। येशुना सह सः अपि महापुरोहितस्‍य गृहं प्राविशत्‌, 16परन्‍तु पतरसः गृहस्‍य प्रांगणं यावत्‌ गतवान्‌ द्वारस्‍य बहिस्‍तस्‍थौ। अन्‍य शिष्‍यः पुनः बहिः आगत्‍य द्वारपालिकया सह संलप्‍य सः पतरसम्‌ अपि तस्‍य गेहस्‍य अभ्‍यन्‍तरम्‌ आनयत्‌। 17द्वारपाली पतरसं जगाद - “त्‍वं च अपि किं मनुष्‍यस्‍य तस्‍य शिष्‍येषु कश्‍चन असि?” पतरसः प्रत्‍यवादीत्‌ ताम्‌ - “अहम्‌ तस्‍य शिष्‍यः नास्‍मि।” 18शीतस्‍य कारणाद्‌ दासास्‍तथा सर्वे रक्षकाः अग्‍निं प्रज्‍वाल्‍य तस्‍य तापम्‌ असेवन्‍त। पतरसः अपि तैः सह संविश्‍य तापम्‌ असेवत।
येशुः प्रधानयाजकस्‍य सम्‍मुखम्‌
(मत्ती 26:59-66; मर 14:55-64; लूका 22:66-71)
19ततः महापुरोहितः अन्‍नासः येशोः शिष्‍यान्‌ तथैव तस्‍य शिक्षाम्‌ अभिज्ञातुं तं बहु पृष्‍टवान्‌। 20येशु तं प्रत्‍युवाच - “अहम्‌ लोकसम्‍मुखं सुस्‍पष्‍टम्‌ अब्रुवि। मया सदैव सभागृहे मन्‍दिरे नैव गुप्‍तं प्रोक्‍तम्‌ अस्‍ति। 21तद्‌ भवान्‌ कथं मां पृच्‍छति? तान्‌ एव पृच्‍छतु, ये मम शिक्षां श्रुतवन्‍तः। ते एव जानन्‍ति यत्‌ मया किं किं भाषितम्‌।” 22एतत्‌ आकर्ण्‍य तस्‍य पार्श्‍वे स्‍थितः कश्‍चित्‌ सैनिकः तस्‍मै चपेटिकां दत्‍वा अब्रवीत्‌ - “त्‍वं महापुरोहितं प्रति इत्‍थं कथं बूरषे ।” 23येशुः तम्‌ उवाच - ”मया चेत्‌ अयुक्‍तं कित्र्चन प्रोक्‍तम्‌, तर्हि त्‍वं तस्‍य अयुक्‍तत्‍वं प्रमाणीकुरु। यदि उचितं मया प्रोक्‍तम्‌, त्‍वं मां किमर्थं ताडयसि?”
24ततः परम्‌ अन्‍नासः बद्धं येशुं प्रधानमहापुरोहितकैफसं प्रति प्रेषितवान्‌।
पतरसस्‍य पुनः अस्‍वीकरणम्‌
(मत्ती 26:71-75; मर 14:69-72; लूका 22:58-62)
25सिमोनपतरसः तदा तापं तिष्‍ठन्‌ असेवत। केचित्‌ तम्‌ आहुः - “किं तस्‍य शिष्‍यः त्‍वम्‌ चापि वर्तसे?” पतरसः अस्‍वीकुर्वन्‌ अब्रवीत्‌ - “अहम्‌ तस्‍य शिष्‍यः नास्‍मि।” 26महापुरोहितस्‍य एकः दासः, तस्‍य संबंधी आसीत्‌, यस्‍य श्रवणं पतरसः असिना मूलतः अच्‍छिनत्‌। स अब्रूत - “किं त्‍वम्‌ उद्‌याने तेन सह मया न लक्षितः?” 27पतरसः पुनः न स्‍वीकृतवान्‌, तत्‍क्षणम्‌ कुक्‍कुटः अरौत्‌।
रोमनशासकस्‍य पिलातुसस्‍य समक्षम्‌
(मत्ती 27:1-2,11-14; मर 15:1-5; लूका 23:1-5)
28ततः परम्‌ ते कैफसस्‍य सकाशात्‌ येशुं, राज्‍यपालगृहं निन्‍युः। प्रत्‍युषसमयः अभवत्‌। ते राज्‍यपालभवनं न प्राविशन्‌, यतः ते पास्‍कापर्वणः (फसहस्‍यपर्वणः) मेषं भोक्‍तुम्‌ ऐच्‍छन्‌। तेभ्‍यः अशुद्धेः भयम्‌ आसीत्‌।
29ततः पिलातुसः बहिर्विर्निगत्‍य तानुवाच - “अस्‍य विरुद्‌धम्‌ युष्‍माभिः कोऽभियोगः विधीयते?” 30ते तम्‌ ऊदुः - “यदि अयं दुराचारी न अभविष्‍यत्‌ तर्हि नायं भवतः पार्श्‍वम्‌ अस्‍माभिः अनयिष्‍यत्‌।” 31पिलातुसः तान्‌ ऊचे - “युष्‍माभिः एव अस्‍य न्‍यायः युष्‍माकं व्‍यवस्‍थायाः अनुरूपे विधीयताम्‌।” यहूदीधर्मगुरवः तं प्रोचुः - “वयं कस्‍य अपि कृते प्राणदण्‍डविधानाय नाधिकृताः।” 32एतदर्थमभूदेतद्‌ यद्‌, तत्‌ येशोः वचनं सिद्‌धं भवेत्‌, येन असौ स्‍वं मृत्‍युं समसूचयत्‌।
33ततः पिलातुसः पुनः राजभवनं प्राविशत्‌ तथा येशुम्‌ आहूय तमिदं पृष्‍टवान्‌, “किं त्‍वं यहूदिनां राजा वर्तसे?” 34येशुः तं प्रत्‍युवाच “किमिदं मां स्‍वतः ब्रूते भवान्‌, वाऽन्‍येन केनचित्‌ इत्‍थं मम विषये प्रोक्‍तः।” 35पिलातुसः अब्रवीत्‌ - “किम्‌ अहं यहूदी? त्‍वदीय जनाः, तथा महायाजकाः, त्‍वां मदीयहस्‍ते समर्पितवन्‍तः। किं कृतवान्‌ असि?” 36येशुः तं प्रत्‍युवाच - “मम राज्‍यम्‌ अस्‍य जगतः न। यदि अस्‍य संसारस्‍य मम राज्‍यम्‌ अभविष्‍यत्‌, तदा मम अनुयायिनः धर्मगुरुणां हस्‍ते ममार्पणम्‌ वारयितुं प्राणव्‍ययेन्‌ अपि अयतिष्‍यन्‌। परन्‍तु मम राज्‍यं अस्‍य संसारस्‍य न वर्तते।” 37एतद्‌ आकर्ण्‍य पिलातुसः अब्रवीत्‌ - “तर्हि त्‍वं राजा वर्तसे?“ येशुः तं प्रत्‍युवाच - “भवान्‌ सत्‍यं भाषते, अहं राजा अस्‍मि। संसारे एतदर्थम्‌ मम जन्‍मः अभवत्‌, तथा एतदर्थमत्र अहम्‌ आयातः अस्‍मि यतो मया सत्‍यस्‍य विषये साक्ष्‍यं दातव्‍यम्‌ अस्‍ति। यः सत्‍यस्‍य पक्षे अस्‍ति, असौ मां शृणोति।” 38पिलातुसः पुनः येशुं पृष्‍टवान्‌ - “सत्‍यं किम्‌ अस्‍ति?” इदमुक्‍त्‍वा पुनः बहिः ययौ, धर्मगुरुणां समीपं गत्‍वा तान्‌ इदम्‌ अब्रवीत्‌ - “मया तु तस्‍मिन्‌ पुरुषे कोऽपि दोषो न लक्ष्‍यते, 39परन्‍तु (फसहोत्‍सवे) पास्‍कोत्‍सवे सदा कश्‍चित्‌ काराबद्‌धः नरः मया युष्‍मदर्थम्‌ मोच्‍यते, एषा रीतिः सनातनी। अतः युष्‍माकम्‌ इच्‍छा चेद्‌, एषः यहूदिनाम्‌ राजा युष्‍मदर्थम्‌ विमोच्‍येत?” 40इदं श्रुत्‍वा ते उच्‍चस्‍वरैः अवदन्‌, ”नैवायं जनः भवता मोच्‍यताम्‌। अस्‍य स्‍थाने भवता असौ बराबसः विमोच्‍येत।”

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in