लूका 6
6
विश्रामदिवसस्य पालनस्य प्रश्नः
(मत्ती 12:1-8; मर 2:23-28)
1एकस्मिन् विश्रामदिवसे येशुः गोधूमक्षेत्रेण गच्छन् आसीत्। तस्य शिष्याः गोधूमान् आच्छिद्य बालफलानि हस्तैः परिमृद्य खादन्ति स्म। 2केचित् फरीसिनः अकथयन् - “विश्रामदिवसे यत् कार्यम् वर्जितम् अस्ति, तदेव यूयं कथं कुरुथ?” 3येशुः तान् प्रत्यभाषत, “युष्माभिः नाधीतं, दाऊदः सहयोगिभिः सह क्षुधाक्रान्तः किमसौ कृतवान्? 4सः प्रभोः मन्दिरं गत्वा अर्पणस्य रोटिकाः मुक्तवान्, सर्वेभ्यः सहचरेभ्यः अपि भोक्तुम् अददात्। तथाविधाः रोटिकाः याजकाः एव खादन्ति, कश्चन अपरः नादिष्टः।” 5येशुः तान् अवदत्, “मानवपुत्रः विश्रामदिवसस्य अपि स्वामी अस्ति।”
शुष्कहस्तजनस्य स्वास्थ्यलाभः
(मत्ती 12:9-14; मर 3:1-6)
6कस्मिंश्चिद् विश्रामस्य दिवसे येशुः सभागृहे उपदिशति स्म। तत्र कश्चन रोगी आसीत्, यस्य वामेतरः हस्तः शुष्कः आसीत्। 7फरीसिनः शास्त्रिणः प्रतीक्षमाणाः आसन्, यदि येशुः विश्रामदिवसे रोगिणं नीरोगं करोति, तदा वयं तस्मिन् दोषारोपं करिष्यामहे। 8तेषाम् एवमभिप्रायं ज्ञात्वा येशुः शुष्कहस्तम् जनम् अवदत् - “उत्थाय सभामध्ये त्वं स्थितः भव।” रोगी क्षणात् समुत्थाय तस्थौ सुस्थिरः। येशुः तान् अब्रवीत् - 9“विश्रामदिवसे किंस्वित् उचितं हितसाधनम् अथवा अहितकरणम्। तथैव प्राणिनाम् प्राणानां रक्षणं श्रेयम् आहोस्वित् प्राणनाशम्?” 10तान् विरोधिनः दृष्ट्वा रोगिणं प्रोक्तवान् - “स्वकं हस्तम् प्रसारय।” रोगी यथादिष्टं तथा अकरोत्, तस्य हस्तः नीरोगः अभवत्। 11विरोधिनः अति क्रुध्यन्तः मिथः परामर्शम् अकुर्वन् - अस्माभिः अस्य विरोधे किं कर्तव्यम्।
द्वादशप्रेरितानां चयनम्
(मत्ती 10:1-4; मर 3:13-19)
12तेषु एव दिवसेषु येशुः कमपि पर्वतम् आरुह्य सकलां रात्रिम् प्रार्थनायाम् अनैषीत्। 13प्रातः स्वशिष्यान् समाहूय, तान् द्वादशान् “प्रेरितेति” समाख्यया व्यपादेशीत्। प्रेरिताः इमे आसन् - 14सिमोनः पतरसाभिधः, तस्य भ्राता अंद्रेयसः, याकूबः योहनस्तथा फिलिपः, बरथोलोमी, 15मत्ती, थोमसः, अलफाईसुतौ याकुबश्च सिमोनश्च, यः उत्साही कथ्यते, 16याकुबस्य पुत्रः यूदसः, यूदस इस्करियोती, यः विश्वासघातकः अभवत्।
विशालः जनसमूहः
(मत्ती 4:23-25; मर 3:7-12)
17येशुः प्रेरितैः साकं पर्वतात् अवतीर्य एकस्मिन् क्षेत्रे अतिष्ठत्। तत्र तस्य अनेकाः शिष्याः आसन्। समस्तयहूदियायाः, तथा येरुसलेमस्य, समुद्रस्य तटे तीरुसस्य तथा सिदोनस्य एकः विशालः जनसमूहः अपि आसीत्, यः तस्य उपदेशं श्रोतुम्, रोगेभ्यः नैरुज्यम् आप्तुं च तस्य समीपे उपागतः। 18येशुः अपदूतग्रस्तान् नीरोगान् कृतवान्। 19सर्वे येशुं परिस्प्रष्टुं चेष्टन्ते स्म, यतः तस्य शरीरात् दिव्या शक्तिः निःससार, यया तत्रागताः सर्वे नानारोगप्रपीडिताः सद्यः स्वास्थ्यं समासाद्य निवर्त्तन्ते स्म।
आशीर्वचनानि
(मत्ती 5:1-12)
20येशुः स्वशिष्यान् दृष्ट्वा एवमब्रवीत्, “धन्याः यूयं दरिद्राः स्थ, स्वर्गराज्यं युष्माकम्। 21धन्याः यूयम्, यदधुना बुभुक्षया पीड्यमानाः स्थ, यूयमेव पश्चात् महती तृप्तिम् एष्यथ। धन्याः यूयं यदधुना रुदन्तः स्थ, यूयं हसिष्यथ। 22धन्याः यूयं यदा लोकाः युष्माभिः सह शत्रुताम् करिष्यन्ति, मत्कारणात् युष्माकं बहिष्कारम्, अवमाननाम् च करिष्यन्ति, जुगुप्सन्ते च, 23तस्मिन् दिने उल्लसिताः भूत्वा आनन्दिताः भविष्यथ, यतः स्वर्गराज्ये युष्मभ्यः महान् पुरस्कारः लप्स्यते एतेषां पूर्वजाः अपि नबिभिः सह एवमेव विरोधम् अकुर्वन्।
धिक्कारः
(मत्ती 5:1-12)
24धिक् युष्मान् धनिनः; यूयम् अत्रैव तृप्यथ! 25धिगस्ति युष्मान् तृप्तान्, पश्चाद् क्षुद्व्यथाम् ज्ञास्यथ! यूयम् इदानीं हसथ पश्चाद् रोदिष्यथ! 26धिक् युष्मान् यदा जनाः युष्माकं प्रशंसन्ति! तेषां पूर्वजाः दम्भिभिः नबिभिः एवमाचरन्ति स्म।
शत्रुभिः सह प्रेम
(मत्ती 5:38-48; 7:12)
27“अहं युष्मान् ब्रवीमि - स्वशत्रून् प्रेम कुरुत। वैरिणाम् अपि परोपकारं कुरुत। 28ये युष्मान् सदा शपन्ति तेभ्यः अपि आशिषं दत्त। 29ये युष्मासु असाधवः, तेभ्यः अपि प्रार्थयध्वम्। ये वः एकं कपोलं चपेटिकाप्रहारेण ध्नन्ति, तेभ्यः अपरः च अपि दत्त सत्वरम्। यश्च युष्माकम् उत्तरीयम् आहर्तुम् यतते, तस्मै स्वं कंचुकम् अपि दत्त। 30यः कश्चिद् याचते कित्र्चिद्, तस्मै तद् दत्त। यः युष्माकं वस्तूनि आहरति, तानि पुनः न याचध्वम्। 31अन्येभ्यः स्वं प्रति यथा व्यवहारम् इच्छथ, युष्माभिः अपि अन्यैः सह तादृशं कर्तव्यम्। 32यदि युष्माकं स्नेहः तेषु जनेषु केवलम् अस्ति, ये च युष्मासु सस्नेहाः, ततः युष्माकं किं पुण्यम् अस्ति। पापिनः अपि एवं कुर्वन्ति। 33यदि प्रतिदानस्य आप्तिकांक्षया प्रदानं कुरुथ, युष्माकं किमत्र पुण्यम्? 34यतः प्रचुरं प्राप्तुम् इच्छया पापात्मनः अपि अत्र पापिभ्यः धनं यच्छन्ति। 35अतः शत्रून् प्रेम कुरुत। परेषाम् हितसाधने स्थातव्यम्। यथाशक्ति तेभ्यः धनं दातव्यम्, पुनस्तत्प्राप्तिकामना न कदाचित् कर्तव्या। तदा युष्माकं महान् पुरस्कारः सम्भविष्यति तथा सर्वोच्चप्रभोः पुत्राः भविष्यथ। यतः सोऽपि कृतध्नेषु असाधुषु दयते।
परेषु दोषारोपः न कर्तव्यः
(मत्ती 7:1-12; मर 4:24)
36“यथा स्वर्गस्थो पिता दयालुः अस्ति तथैव यूयम् अपि भवत। न परस्मिन् दोषारोपः कर्तव्यः, युष्माषु अपि दोषारोपः न भविष्यति। 37कस्यचित् प्रतिकूलः निर्णयो न विधातव्यः, एवं युष्मद्विरोधेऽपि निर्णयः न विधास्यते। सर्वान् प्राणिनः क्षाम्यत, सर्वदा क्षमां लप्स्यध्वे। 38दत्त ये याचकाः, युष्मभ्यं च प्रदास्यते। भृशं निष्पीड्य संचाल्य अतिमात्रं प्रपूरितम्, सुमापितं पूर्णपात्रं युष्मत्क्रोडे प्रदास्यते। येन मानेन परेभ्यः मिमीध्वे, तेनैव मापेन युष्मदर्थम् परिमापस्यते।
39येशुः तान् एकम् दृष्टान्तम् अश्रावयत्, “किम् अन्धः अन्धं पन्थानं दर्शयितुं क्षमः? किं उभौ मार्गे न पतिष्यतः? 40शिष्यः गुरोः अधिकः भवितुं नैव शक्ष्यति। पूर्णाम् शिक्षां समासाद्य गुरुणा समः भविष्यति। 41यदा स्वनेत्रस्थं काष्ठकम् न पश्यथ, तदा स्वभ्रातृचक्षुस्थं तृणं कथम् वीक्षध्वे? 42कथमेवं स्थितौ यूयं स्वकम् भ्रातरं पश्यथ, भ्रातः! तव अक्षिपतितं तृणम् निष्कासयिष्यामः। पूर्वम् स्वअक्षिस्थितं काष्ठकम् पश्यत ततः परस्य अक्षिपतितं तृणम् द्रष्टुं शक्ष्यथ।
फलेन वृक्षस्य परिचयः
(मत्ती 7:16-20; मर 12:33-35)
43“कश्चित् सुवृक्षः कुफलं न ददाति, तथैव कुवृक्षोऽपि क्वचित् सुफलं न दत्ते। 44वृक्षः स्वफलेन परिचीयते। नैव कण्टकिनो वृक्षात् अंजीरफलम् आप्यते, नैव कण्टकगुल्मतः द्राक्षाफलानि लभन्ते। 45सज्जनः स्वस्य हृदयस्य भांडारात् उत्तमवस्तूनि बहिः करोति। यः दुर्जनः, सः दुष्टहृदयस्य भांडारात् निकृष्टवस्तूनि बहिः करोति। यतः हृदये यत् पूरितम्, तत् मुखाद् विनिर्याति।
श्रवणं कार्यम् च
(मत्ती 7:24-27)
46“यूयं मम वचनानि न मन्यध्वे, तदा प्रभो! प्रभो! इति किमर्थम् माम् अभिभाषध्वे? 47यः कश्चित् माम् उपागत्य मम वचनानि शृणोति, तथैव आचरति - जानीथ असौ केन सदृशः वर्तते? 48सः तेन सदृशः, यस्तु गृहं निर्मातुम् उद्यतः, गंभीरखातेषु शिलासु आधारभित्तिकाम् आधत्ते। जलस्रोतांसि तद्गृहम् वेगात् न ध्नन्ति, परन्तु अतिस्थिरं तद्गृहम् न कम्पते। 49परन्तु यः नरः श्रुत्वा अपि मद्वाक्यं न अनुवर्तयते, सः तेन मनुष्येण सदृशः अस्ति, यः अभित्तिमूलं गृहम् निर्माणं करोति। तद् गृहम् जलप्रवाहस्य वेगेन नष्टं भवति।”
انتخاب شده:
लूका 6: SANSKBSI
هایلایت
به اشتراک گذاشتن
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: