लूका 7
7
कफरनहूमस्य शतपतिः
(मत्ती 8:5-13)
1जनान् दृष्टान्तेन सह उपदिश्य येशुः कफरनहूमम् आगतः। 2तत्र कस्यचित् शतपतेः प्रियः सेवकः दुःसाध्यरोगेण मरणासन्नः आसीत्। 3शतपतिः येशोः विस्मयकारिणीम् ख्यातिं श्रुत्वा यहूदिनः प्रतिष्ठितान् नागरिकान् तस्मै निवेदनाय अप्रेषयत्; यत् सः आगत्य एतं दासं रोगमुक्तं करोतु। 4येशोः समीपं गत्वा ते विनयेन सह न्यवेदयन्, “असौ शतपतिः भवतः कृपाम् प्राप्तुं योग्यः अस्ति। 5सः अस्माकं राष्ट्रस्य हितं करोति, तेनैव अस्माकम् सभागृहम् निर्मितम्।” 6येशुः तैः सह अचलत्। यावत् शतपतेः गृहस्य अन्तिकं येशुः आप्तवान्, स्वान् बन्धून् सम्प्रेष्य सः तस्मै न्यवेदयत्, “हे प्रभो! वृथा श्रम मा करोतु, 7अहं न योग्यः अस्मि यद् भवान् मम गृहम् आगच्छेत्, अहं न योग्यः अस्मि भवतः दर्शनाय। अतः एकं शब्दम् एव भवान् वदेत् मम दासः नीरोगः भविष्यति। 8अहं तुच्छः अधिकारी अस्मि। मम अधीने स्वल्पाः सैनिकाः सन्ति। यदा एकं गन्तुम् आदिशामि तदा असौ गच्छति। अपरं चेत् समायातुम्, सः आयाति। यदा दासम् आदिशामि करोतु एतत्, सः करोति।” 9तस्य वचः श्रुत्वा येशुः विस्मयं ययौ। ततः परावृत्य अनुयायिनः सः अब्रवीत्, “अहं युष्मान् ब्रवीमि, इस्राएले अपि न ईदृशः विश्वासः दृष्टिम् आगतः।” 10प्रेषिताः जनाः दासं स्वस्थम् आप्तवन्तः।
विधवायाः मृतपुत्राय जीवनदानम्
11अथ येशुः नाईमनगरम् आगतः। तेन सह तस्य शिष्याः, एकः विशालजनसमूहश्च अपि चलति स्म। 12यदा ते नगरद्वारसमीपं समुपस्थिताः, तदा ते जनैः नीयमानम् एकं शवम् अपश्यन्। सः मृतकः जनन्याः एकमात्रः पुत्रः आसीत्, सा च विधवा आसीत्। नगरस्य बहवः जनाः शवेन सह आसन्। 13विधवां मातरम् दृष्ट्वा येशुः संजातकारुण्यः “मा रुदिहि” इति अभाषत। 14समीपे आगत्य शवरथं चापि करेण असौ अस्पृशत्। शववाहिनाम् निवहः अतिष्ठत्। येशुः शवं प्राह, “युवक! अहं त्वाम् ब्रवीमि “उत्तिष्ठ”। 15शवः उपविश्य भाषितुं च प्रचक्रमे। येशुः तं तस्य मात्रे असमर्पयत्। 16सर्वे विस्मिताः, प्रभोः महिमानं च स्तुवन्तः एतद् बभाषिरे, “अस्माकं मध्ये महान् नबी जायते, परमेश्वरेण स्वीयाः प्रजाः अद्यः अनुकम्पिताः।” 17येशोः विषये इयं वार्ता समस्तयहूदियायां, निकटवर्तिषु प्रदेशेषु प्रसारिता।
जलसंस्कारदातुः योहनस्य संदेशवाहकाः
(मत्ती 11:2-19)
18योहनस्य शिष्याश्च तस्मै सर्वम् न्यवेदयन्। 19योहनः द्वौ शिष्यौ आहूय अब्रवीत्, “येशुम् उपेत्य पृच्छतम् “यो हि आगन्ता किं सः भवान्? अथवा कश्चित् अन्यः अस्ति यः अस्माभिः प्रतीक्ष्येत्?” 20तौ शिष्यौ येशोः समीपं गत्वा तथा ऊचतुः, आवां तवान्तिकं प्रेष्य योहनः जलसंस्कारदाता पृच्छति “यः आगन्ता अस्ति सः एव किं भवान्, अथवा कश्चित् अस्माभिः अन्यः प्रतीक्ष्येत् इति?”
21तस्मिन् समये येशुः अनेकान् व्याधिपीडितान् कष्टेभ्यः अपदूतेभ्यः विमोचयन् आसीत्। बहवः जन्मनः नेत्रविहीनाः येशुना दृक्शक्तिं प्राप्नुवन्ति स्म। 22येशुः योहनप्रेषितौ शिष्यौ प्रत्युवाच, “गच्छतम् निवेद्यतां तस्मै यथा दृष्टं यथाश्रुतम्। अन्धाः पश्यन्ति, पंगवः चलन्ति, कुष्ठिनः कुष्ठतः शुद्ध्यन्ते, श्रोत्रहीनाः शृण्वन्ति, मृत्युमेत्यापि जनाः जीवन्ति, दरिद्रेभ्यः शुभसमाचारः श्रावयते, 23जनाः धन्याः सन्ति, ये सदा मयि विश्वसन्ति।” 24योहनप्रेषिते शिष्यद्वये गतवति येशुः योहनम् उदि्दश्य जनान् उवाच - “यूयं किम् इक्षितुम् निर्जनं प्रदेशं गताः? वातेन प्रकम्पमानं वेतसं? 25चेत् न किन्नु तत्? महार्हवस्त्रेण वेष्टितं पुरुषं द्रष्टुम्? नु किम् ! बहुमूल्यानि वासांसि, विलासिनाम् जीवनं च सेवन्ते, ते केषुचित् राजगेहेषु लभन्ते। 26तथापि किं द्रष्टुं यूयं बहिर्गताः? किन्नु कश्चित् नबी युष्माभिः दृष्टः? निश्चयमेव! अहं त्वां ब्रवीमि - नबितः अपि महान् पुरुषः। 27असौ सः एव यस्मिन् विषये इदं लिखितम् - पश्य स्वदूतं तव पुरतः प्रेषयामि। असौ तवाग्रे तव मार्गम् संस्करिष्यति। 28अहं युष्मान् ब्रवीमि, मनुष्येषु योहनाद् जलसंस्कारदातुः कश्चित् नबी महत्तरः न विद्यते। तथापि प्रभोः राज्ये यः क्षोदिष्टः, सः योहनात् महत्तरः वर्तते।”
इमं वंशं धिक्
(मत्ती 11:16-19)
29योहनस्य वचः श्रुत्वा ततो जलसंस्कारं गृह्य जनाः परमेश्वरस्य इच्छां सम्पादयामासुः। 30परं फरीसिनः शास्त्रिणश्च तस्य जलसंस्कारं न गृहीत्वा आत्मविषये परमेश्वरस्य योजनाम् व्यर्थीचक्रुः। येशुः वदन् आसीत्,” 31इमे जनाः कैः सदृशाः? एतेषाम् कैः सह तुलयानि? 32ते हट्टे आसीनानां बालकानां सदृशाः सन्ति ये अन्यान् आहूय वदन्ति -
युष्मदर्थम् अस्माभिः वंशी वादिता,
यूयं न अनृत्यत;
अस्माभिः विलापः कृतः,
यूयं न अरुदित।
33योहनः जलसंस्कारदाता आगतः, यः न रोटिकां भुड्.क्ते, न द्राक्षारसं पिबति, तथापि तं यूयं वदत - योहनः भूताविष्टोऽस्ति। 34मानवपुत्रः आगतः, यः खादति पिबति च। यूयं च कथयथ - पश्य! अयम् उदरम्भरिः, मद्यपः, करसंग्राहिणाम् पापिनां च बन्धुः अस्ति। 35किन्तु परमेश्वरस्य प्रज्ञा, प्रजया उचिता प्रमाणिता अस्ति।”
पापिनी स्त्री
36एकदा कश्चिद् फरीसी प्रभुं येशुं भोजनार्थम् स्वके गृहे अमन्त्रयत्। येशुः तस्य गेहम् आगत्य तेन सहैव भोक्तुम् उपविष्टवान्। 37एतत् श्रुत्वा काचित् पापिनी स्त्री स्फटिकभाजने सुगन्धितैलम् आदाय आयाता, 38रुदन्ती येशोः चरणसन्निधौ अतिष्ठत् तथा नयनस्य अम्बुना तस्य पादौ प्रक्षाल्य, ततः स्वशिरसः केशैः चरणौ प्रोत्र्छ्य, सुगन्धितैलेन अमदर्य भूयः भूयः चुचुम्ब च। 39निमन्त्रणदाता फरीसी मनसि अकथयत् - “एषः अभविष्यत् नबी चेत्, अज्ञास्यत् इमां स्त्रियम् का च इयं, कीदृशी या एनं स्पृशति - सा तु पापिनी अस्ति।” 40तस्य मनोभावं ज्ञात्वा येशुः तं फरीसिनम् अवदत् - “सिमोन! त्वाम् अहं कित्र्चिद् वक्तुम् इच्छामि।” सः अवदत्, “गुरो! कथ्यतु।” येशुः अब्रवीत् - 41“कस्यचित् धनार्थिनः द्वौ अधमर्णौ आस्ताम्। 42तयोः एकस्तु पंचाशत् अन्यः पत्र्चशतानि च दीनारान् अधारयत्, परन्तु प्रतिदातुं न समर्थौ। अतः धनिकः तु द्वौ एव कठिनात् ऋणात् मुक्तवान्। तद् ब्रूहि, कः तस्मिन् प्रेमाधिक्यं विधास्यति? 43सिमोनः प्रत्यवादीत्, “मन्ये यः अधिकाद् ऋणात् मुक्तः, सः एव पुरुषः अधिकं प्रेम विधास्यति।” येशुः तम् आह - 44“तव निर्णयः सत्यः वर्तते।” पुनः स्त्रियं प्रति प्रत्यावृत्य सिमोनं प्रति प्राह - “वनिताम् एतां वीक्षसे? अत्रागते मयि त्वं तु पादोदकं मह्यम् न अददाः, परन्तु एषा स्व नयनयोः अम्बुना मम पादौ न्यसित्र्चत् स्वशिरोरुहैश्च प्रोत्र्छितवती। 45त्वया अहं न चुम्बितः, परन्तु प्रवेशकालात् आरभ्य चुम्बनैः तृप्तिं न एति। 46त्वया सुगन्धितैलेन मम शिरः न मर्दितम्, अनया मम पादौ सुगन्धिना तैलेन मर्दितौ। अतएव त्वां ब्रवीमि - 47अस्याः बहूनि पापनि क्षान्तानि, यतः अनया प्रीतिः अधिका प्रदर्शिता।” 48ततः येशुः तां स्त्रियं प्राह - “तव पापानि क्षान्तानि।” 49सर्वे सहभोजिनः मनसि अवदन्, “यः कः एषः, य पापं क्षमते?” 50येशुः तां स्त्रियं प्राह, ”तव विश्वासः दृढः अस्ति, तेनेवाद्य तव उद्धारः संजातः। शान्तिं प्राप्त्वा गच्छ।”
انتخاب شده:
लूका 7: SANSKBSI
هایلایت
به اشتراک گذاشتن
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: