लूका 8

8
प्रभोः येशोः शिष्‍याः
1ततः येशुः परिभ्रमणं कृत्‍वा नगरेषु ग्रामेषु च प्रभोः राज्‍यस्‍य संवादं जनेषु अश्रावयत्‌। तेन सह द्वादश पे्ररिताश्‍च व्रजन्‍ति स्‍म। 2-3काश्‍चिद्‌ योषितः अपि आसन्‌ याः दुष्‍टात्‍मेभ्‍यः रोगेभ्‍यश्‍च मोचिताः। तासु एका मरिया मग्‍दलेनी, यस्‍याः शरीरतः सप्‍त दुष्‍टात्‍मानः विनिःसृताः आसन्‌, हेरोदेसस्‍य भाण्‍डपतेः खूजः भार्या योअन्‍ना, सुसन्‍ना तथा अपराः स्‍त्रियः अपि याः स्‍वसम्‍पत्‍या येशुं तस्‍य शिष्‍यान्‌ च असेवन्‍त।
बीजवप्‍तुः कृषकस्‍य दृष्‍टान्‍तः
(मत्ती 13:1-9; मर 4:1-9)
4अथ एकदा महति लोकानां निचयः एकत्र भवति स्‍म। नगरेभ्‍यः जनाः तम्‌ अन्‍तिकम्‌ आगच्‍छन्‍ति स्‍म। येशुः दृष्‍टान्‍तवचनैः इदम्‌ अब्रूत, 5”कश्‍चिद्‌ वप्‍ता स्‍वबीजानि वप्‍तुं गृहात्‌ निर्गतवान्‌। वपतः तस्‍य कानिचिद्‌ बीजानि पथः पार्श्‍वे तु क्षिप्‍तानि, पददलितानि, पक्षिभिः खादितानि च। 6अपराणि च पाषाणे पतितानि, प्ररुह्‌य च रसाभावात्तु सर्वाणि सद्‌यः शुष्‍कत्‍वम्‌ आप्‍नुवन्‌। 7कतिचित्‌ कण्‍टकानां मध्‍ये पतितानि। सहैव वद्‌र्धमानैः तैः तानि सम्‍पीडितानि च। 8कानिचित्‌ उत्तमभूमौ पतितानि, तानि तु प्ररुह्‌य शतगुणानि फलानि अफलन्‌। एतं दृष्‍टान्‍तं जनान्‌ श्रावयित्‍वा सः उच्‍चैः एवं व्‍याजहार-“यस्‍य श्रोत्रे सः शृणोतु।”
दृष्‍टान्‍तानाम्‌ उद्देश्‍यः
(मत्ती 13:1-9; मर 4:1-9)
9शिष्‍याः अस्‍य दृष्‍टान्‍तस्‍य वचनानाम्‌ अर्थम्‌ पृष्‍टवन्‍तः। 10येशुः तान्‌ अकथयत्‌ - “युष्‍मभ्‍यम्‌ परमेश्‍वरस्‍य राज्‍यस्‍य भेदं ज्ञातुम्‌ वरः प्राप्‍तः अस्‍ति। अन्‍येभ्‍यस्‍तु दृष्‍टान्‍तः एव दीयते; येन ये दृष्‍ट्‌वाऽपि न पश्‍येयुः निशम्‍य अपि न बुध्‍येरन्‌।
वप्‍तुः दृष्‍टान्‍तस्‍य व्‍याख्‍या
11दृष्‍टान्‍तस्‍य अर्थः एवमस्‍ति। परमेश्‍वरस्‍य वचः बीजम्‌ अस्‍ति। 12पथः पार्श्‍वे तु यानि पतितानि, ते नराः सन्‍ति, ये शृण्‍वन्‍ति, तेषां मनसि विश्‍वासः न सम्‍भवेत्‌ तथा मुक्‍तिं न प्राप्‍नुयुः, अतः अपदूतः आगत्‍य तेषां हृदयात्‌ तत्‌ वचः अपहरति। 13पाषाणस्‍य उपरि पतितानि तु ते नराः सन्‍ति, ये श्रुत्‍वा एव सानन्‍दं तत्‌ वचः गृह्‌णन्‍ति। परन्‍तु मूलहीनास्‍ते अल्‍पक्षणमेव विश्‍वसन्‍ति, परीक्षायाः अवसरे तेषां विश्‍वासः नैव तिष्‍ठति। 14कण्‍टकेषु पतितानि बीजानि ते सन्‍ति, ये शृण्‍वन्‍ति किन्‍तु अग्रे गत्‍वा चिन्‍ताभिः, धनसम्‍पत्तिभिः तथा जीवनस्‍य सुखभोगैः ग्रस्‍ताः सन्‍तः परिपक्‍वतां यावत्‌ न आगच्‍छन्‍ति। 15उत्तमभूमौ पतितानि बीजानि तु ते सन्‍ति ये निश्‍छलेन सत्‍येन मनसा तद्‌वचः श्रुत्‍वा रक्षन्‍ति, स्‍वेन धर्येण प्राचुर्येण फलन्‍ति।
दीपकस्‍य दृष्‍टान्‍तः
(मत्ती 5:15; 10:26; 12:13; मर 4:21-25)
16“कश्‍चित्‌ दीपिकाम्‌ प्रज्‍वाल्‍य पात्रेण न आच्‍छादयति, अथवा खट्‌वायाः अधस्‍तात्‌ ताम्‌ न स्‍थापयति, परन्‍तु दीपकाधारस्‍य उपरि तां निदधाति, येन अन्‍तः प्रविशन्‌ कोऽपि प्रकाशं लभेत।
17“तादृशं कित्र्चिद्‌ वस्‍तु तिरोहितम्‌ न विद्‌यते, यत्‌ प्रकटं न भविष्‍यति। तादृशं कित्र्चिद्‌ वस्‍तु गुप्‍तम्‌ न अस्‍ति, यत्‌ न प्रसरिष्‍यति तथा प्रकाशे न आगमिष्‍यति। 18यूयं सावधानेन चेतसा शृणुत्‌। यतः यस्‍य अस्‍ति कित्र्चित्‌ तस्‍मै एव प्रदास्‍यते। यस्‍य कित्र्चिद्‌ न विद्‌यते, तस्‍मात्‌ तत्‌ अपि अपहारिष्‍यते।
येशोः सम्‍बन्‍धिनः
(मत्ती 12:46-50; मर 3:31-35)
19येशोः माता भ्रातरश्‍च तं द्रष्‍टुम्‌ आगतवन्‍तः, किन्‍तु जनसम्‍मर्दात्‌ द्रष्‍टुम्‌ न शक्‍नुवन्‌। 20जनाः येशुम्‌ अवदन्‌-“भवतः माता, भ्रातरश्‍च बहिः स्‍थिताः, भवन्‍तं द्रष्‍टुम्‌ इच्‍छन्‍ति।” 21येशुः तान्‌ उवाद, -“मम माता तथा भ्रातरः ते सन्‍ति, ये परमेश्‍वरस्‍य वचनं शृण्‍वन्‍ति पालयन्‍ति च।”
झंझावातस्‍य प्रशमनम्‌
(मत्ती 8:23-27; मर 4:35-41)
22एकस्‍मिन्‌ दिने येशुः शिष्‍यैः सह नावि अरोहत्‌, तान्‌ समादिशत्‌ जलाशयस्‍य पारं गन्‍तव्‍यम्‌ इति, सर्वे प्रस्‍थिताः। 23येशुः नावि गच्‍छन्‍त्‍यां शिश्‍ये। तस्‍मिन्‌ जलाशये झंझावातः आरब्‍धवान्‌। जलेन पूर्णायां नावि ते संकटे अपतन्‌। 24ततो भयार्दिताः सर्वे येशुम्‌ एत्‍य, प्रबोध्‍य च अवदन्‌, गुरो! वयं सर्वे निमज्‍जामः! येशुः निन्‍द्रां त्‍यजन्‌, प्रवातं जलभंगान्‌ च अतर्जयत्‌। सर्वे शान्‍ताः अभवन्‌। पुनः शिष्‍यान्‌ असौ प्राह - 25“युष्‍माकं विश्‍वासः क्‍व विद्‌यते?” सर्वे विस्‍मयेन भयेन च मिथः अवदन्‌ - “को नु असौ यः जलभड्‌.गान्‌ अतिवेगिनम्‌ प्रवातं च समादिशति, सर्वे तस्‍य आदेशम्‌ अनुपालयन्‍ति!”
गेरासेनस्‍य अपदूतग्रस्‍तः मनुष्‍यः
26येशुः नावः अवतीर्य गेरासेनिनाम्‌ प्रदेशम्‌ आयातः, यः गलीलप्रदेशस्‍य सम्‍मुखस्‍थं जलाशयस्‍य पारे अवस्‍थितः। 27येशौ शिष्‍यैः समं अवतीर्णे स्‍थलोपरि, तस्‍य नगरस्‍य एकः अपदूतग्रस्‍तः मनुष्‍यः तत्‍सम्‍मुखम्‌ आगतः। सः चिरकालतः शरीरे वस्‍त्रं न अधारयत्‌, गृहम्‌ असौ न अध्‍यवसत्‌। सः शवागारासु अनिवसत्‌। 28येशुम्‌ दृष्‍ट्‌वा एवं प्रणिपत्‍य उच्‍चैः इदम्‌ अब्रवीत्‌ “येशो! सर्वोच्‍चस्‍य परमेश्‍वरस्‍य पुत्र! त्‍वया सह मे कोऽपि सम्‍बन्‍धः नास्‍ति? अहं प्रार्थये मां न सम्‍पीडय।” 29यतः येशुः तं दुष्‍टात्‍मानं तस्‍य शरीरतः निर्गन्‍तुम्‌ आदिशन्‌ आसीत्‌, असौ दुष्‍टात्‍मा तं पुरुषं मुहुः मुहुः आक्रम्‍यत्‌, तं वशीकर्तुम्‌ लोकाः शृंखलैः निगडैश्‍च बध्‍नन्‍ति स्‍म। परन्‍तु तान्‌ बन्‍धनान्‌ दुष्‍टात्‍मा विदार्य तं पुरुषं निर्जनस्‍थानानि आहरति स्‍म।
30येशुः अपदूतम्‌ अपृच्‍छत्‌ - “तव किं नाम?” सः प्रत्‍यवोचत्‌ “सेना” यतः असौ पुरुषः बहुभिः भूतैः आक्रान्‍तः आसीत्‌। 31अनुनयं कुर्वन्‍तः ते येशुम्‌ अवदन्‌ - “गहनगर्ते गन्‍तुम्‌ अस्‍मान्‌ न आदेशं ददीत।” 32तत्र गिरौ बहुसंख्‍यकाः शूकराः चरन्‍ति स्‍म। ते येशुं शूकरेषु प्रवेशं ययचिरे। येशुः तेषां प्रवेशं शूकरेषु अनुमतिम्‌ ददौ। 33तदा तस्‍माद्‌ विनिसृत्‍य ते शूकरेषु समाविशन्‌। ततः भूतैः समाक्रान्‍तः असौ शूकरव्रजः धावन्‌ शैलाग्रात्‌ निपत्‍य जलाशये अमृयत।
34इदं दृष्‍ट्‌वा शूकरचारकाः पलायितवन्‍तः, तत्‌ सर्वम्‌ वृत्तम्‌ नगरेषु ग्रामेषु च सिूचतवन्‍तः। लोकाः तत्‌ सर्वम्‌ श्रुत्‍वा द्रष्‍टुम्‌ आगताः। 35ते येशुम्‌ अन्‍तिकम्‌ आगत्‍य, तं पुरुषं वस्‍त्रैः उपेतम्‌ शान्‍तं दृष्‍टवा पराम्‌ अबिभयुः यतः सः मनुष्‍यः यस्‍मात्‌ अपदूताः विनिर्गताः, सः वस्‍त्रैः उपेतम्‌ शान्‍तभावेन येशोः चरणयोः उपविष्‍टः आसीत्‌। 36ये इदं सर्वम्‌ स्‍वनेत्राभ्‍याम्‌ अपश्‍यन्‌ ते जनान्‌ अकथयन्‌, यत्‌ कथम्‌ अपदूतग्रस्‍तस्‍य उद्‌धारः अभवत्‌। 37ततः गेरासिनीदेशवासिनः भयेन वेपमानाः येशुं प्रार्थयन्‍तः इदम्‌ अब्रुवन्‌ - अस्‍मत्‌ सान्‍निध्‍यात्‌ भवान्‌ शीघ्रं गच्‍छतु। येशुः नावि समारुह्‌य सशिष्‍याः तत्रतः आगतवान्‌।
38दुष्‍टात्‍मना विनिर्मुक्‍तः पुरुषः येशुम्‌ अब्रवीत्‌ - प्रभो! तव सान्‍निध्‍ये स्‍थातुं माम्‌ आज्ञापयतु। येशुः तं विसर्जनं कृत्‍वा प्राह- 39“गच्‍छ गृहं प्रति, तव अर्थम्‌ परमेश्‍वरः यद्‌यद्‌ चक्रे तत्‌ वद।” ततः असौ समस्‍तनगरे अश्रावयत्‌ यत्‌ येशुः मह्‌यम्‌ किं किम्‌ अकरोत्‌।
जैरुसस्‍य पुत्री रक्‍तस्रावपीडिता स्‍त्री च
(मत्ती 9:18-26; मर 5:21-43)
40येशौ प्रत्‍यागते जनाः तस्‍य स्‍वागतं कृतवन्‍तः, सर्वे प्रतीक्षायां समुत्‍सुकाः आसन्‌। 41तस्‍मिन्‌ समये सभागृहस्‍य जैरुसाभिधः अधिकारी तत्र आगतः, येशुम्‌ दण्‍डवत्‌ कृत्‍य स्‍वगृहगमनार्थम्‌ अप्रार्थयत्‌। 42तस्‍य द्वादशवर्षीया सुता रोगेण आक्रान्‍ता मरणासन्‍ना आसीत्‌। येशुः तेन सह अगच्‍छत्‌। मार्गे प्रयान्‍तं तं श्रुत्‍वा दर्शनार्थम्‌ इतः ततः आगत्‍य लोकानां समूहः एकत्र अभवत्‌। 43काचित्‌ स्‍त्री द्वादशवर्षाणि रक्‍तस्रावेण पीडिता चिकित्‍सकेभ्‍यः नैराश्‍यं प्राप्‍य 44सा पश्‍चाद्‌ दिशि उपागम्‍य तद्‌वस्‍त्रस्‍य प्रलम्‍बकम्‌ स्‍पर्शम्‌ अकरोत्‌, तत्‍क्षणं तस्‍याः रक्‍तस्रावः समाप्‍तः अभवत्‌। 45येशुस्‍तदा अपृच्‍छत्‌ - “कः मां संस्‍पृष्‍टवान्‌?” सर्वेषु अस्‍वीकुर्वत्‍सु पतरसः अवदत्‌, “नाथ! त्‍वं सर्वतः लोकैः पीड्‌यसे परिवार्यसे च।” 46येशुः अवदत्‌, “नूनं मां कश्‍चिद्‌ अस्‍पृशत्‌। मया अनुभूतं यत्‌ मत्तः शक्‍तिः विनिःसृता।” 47इदं विचिन्‍त्‍य यत्‌ सा प्रच्‍छन्‍ना स्‍थातुम्‌ अक्षमा, भयेन वेपमाना आगता, तं प्रणम्‍य सर्वेषाम्‌ समक्षे कथितवती - किमर्थम्‌ तया येशोः वस्‍त्रान्‍तं स्‍पृष्‍टम्‌, तत्‍क्षणं तस्‍याः स्‍वास्‍थ्‍यलाभश्‍च अभवत्‌। 48येशुः ताम्‌ अवदत्‌, “स्‍वेन विश्‍वासेन त्‍वं नीरोगा अभवत्‌। शान्‍तिं प्राप्‍त्‍वा गच्‍छ।”
49भाषमाणे इदं तस्‍मिन्‌ समाजाधिपतेः गृहात्‌ कश्‍चिद्‌ आगत्‍य, तम्‌ अवदत्‌, “भवतः सुता ममार। अतः गुरुं मा क्‍लिश्‍नातु।” 50एतद्‌ श्रुत्‍वा येशुः अब्रवीत्‌ - “मा बिभीहि विश्‍वासं कुरु, तेन सा स्‍वास्‍थ्‍यम्‌ एष्‍यति।” 51ततः असौ तद्‌गृहं गत्‍वा स्‍वेन सार्द्धम्‌ पतरसं योहनं तथा याकूबं, कन्‍यायाः पितरौ केवलम्‌ आदाय गृहस्‍य अभ्‍यन्‍तरम्‌ गतवान्‌। 52यत्र तस्‍याः कृते सर्वे अरुदन्‌। येशुः तान्‌ अवदत्‌, “यूयं कथं विलपत, इयं बालिका मृता नास्‍ति, स्‍वपिति।” 53इदं श्रुत्‍वा सर्वे येशुम्‌ उपाहसन्‌ यतः ते जानन्‍ति स्‍म सा मृता। ततः सर्वान्‌ बहिष्‍कृत्‍य तस्‍याः हस्‍तं प्रगृह्‌य येशुः उवाच, 54“बालिके! उत्तिष्‍ठ।” 55तत्‍क्षणमेव बालिकायाः प्राणाः प्रत्‍यागताः। सा तत्‍क्षणमेव समुत्‍थाय उपाविशत्‌। येशुः तस्‍यै भोजनं दातुम्‌ आदिदेश। 56इदं दृष्‍ट्‌वा पितरौ विस्‍मितौ जातौ। येशुः तौ आदिदेश इदं वृत्तं कमपि न वदताम्‌।

اکنون انتخاب شده:

लूका 8: SANSKBSI

های‌لایت

به اشتراک گذاشتن

کپی

None

می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید