यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥